| YouTube Channel

अर्ब्बुदः (arbbudaH)

 
शब्दकल्पद्रुमः
Sanskrit
अर्ब्बुदः,
पुं,
क्ली,
(अर्ब्ब + विच्, तस्मै उदेति, उद्+ इण + ।) दशकोटिसंख्या रोगविशेषः ।मांसकीलः मांसपुरुषः आव् इति भाषा ।इति लिङ्गादिसंग्रहे अमरो मेदिनी
तस्यनिदानलक्षणे ।“गात्रप्रदेशे क्वचिदेव दोषाःसंमूर्च्छिता मांसमसृक् प्रदूष्य ।वृत्तं स्थिरं मन्दरुजं महान्त-मनल्पमूलं चिरवृद्ध्यपाकं
कुर्ब्बन्ति मांसोच्छ्रयमत्यगाधंतमर्ब्बदं शास्त्रविदो वदन्ति” ।महान्तं ग्रन्थ्यपेक्षया चिरेण वृद्धिरपाकश्च यस्यतत् चिरवृद्ध्यपाकं अपाकमिति ग्रन्थेः सका-शादस्य भेदज्ञापकं अत्यगाधं दूरानुप्रविष्टं
*
निदानपूर्व्वकाणि विशिष्टानि लक्षणान्याह ।“वातेन पित्तेन कफेन वापिरक्तेन मांसेन मेदसा ।तज्जायते तस्य लक्षणानिग्रन्थेः समानानि सदा भवन्ति”
ग्रन्थेः समानानि वातिकपैत्तिकश्लैष्मिकमेदोजानांग्रन्थीनां लक्षणैर्व्वातिकपैत्तिकश्लैष्मिकमेदोजाना-मर्ब्बुदानां लक्षणानि तुल्यानि भवन्ति
*
रक्ता-र्ब्बुदमाह ।“दोषप्रदुष्टे रुधिरं शिराश्चसङ्कोच्य संपीड्य ततस्त्वपाकं ।सस्रावमुन्नह्यति मासपिण्डंमांसाङ्कुरैरावृतमाशु वृद्धिं
स्रवत्यजस्रं रुधिरं प्रदुष्ट-मसाध्यमेतद्रुधिरात्मकन्तु ।रक्तक्षयोपद्रवपीडितत्वात्पाण्डुर्भवेदर्ब्बुदपीडितस्तु”
दोषोऽत्र पित्तं रुधिरं शिराश्च सङ्कोच्य संपीड्यसंहतीकृत्यमांसासृजोः सर्वेष्वर्ब्बुदेषु दूष्यत्वं रक्तजेतु विशेषतोरक्वदुष्टिः एवं मांसार्ब्बुदे विशेषतोमांसदुष्टिर्बोद्धव्या ततो मांसपिण्डमुन्नह्यतिउद्गतं करोति अपाकं ईषत्पाकं यथा स्यादेव-मिति क्रियाविशेषणं ईषत्पाकश्च एकदेशपाकेन ।रक्तक्षयोपद्रवपीडितत्वात् रक्तक्षयोपद्रवाःसुश्रुतेनोक्ताः तैः पीडितत्वात् अर्ब्बुदपीडितःरक्तार्ब्बुदपीडितः
*
मांसार्ब्बुदस्य संप्राप्तिमाह“मुष्टिप्रहारादिभिरर्दितेऽङ्गेमांसं प्रदुष्टं समुपैति शोथं ।अवेदनं स्निग्धमनन्यवर्ण-मपाकमश्मोपममप्रचाल्यं”
मांसं प्रदुष्टं वातेन अवेदनं वेदनारहितंईषद्वेदनं वा अपाकं पाकरहितं ईषत्पाकंवा अश्मोपमं पाषाणवत् कठिनं अप्रचाल्यंस्थिरं यद्यपि रक्तमांसार्ब्बुदयो रक्तमांसयो-र्हेतुत्वेनोक्तिः तथापि रक्तजे पित्तं मांसजे वायु-रारम्भकः
*
निदानमाह ।“प्रदुष्टमांसस्य नरस्य गाढ-मेतद्भवेन्मांसपरायणस्य” ।मांसाशनाभ्यासेन यः प्रदुष्टमांसस्तस्यैव भवतिइत्यर्थः
*
असाध्यमाह ।“मांसार्बुदं त्वेतदसाध्यमाहुःसाध्येष्वपीमानि विवर्जयेच्च ।संप्रस्तुतं मर्म्मसु यच्च जातंस्रोतःसु वा यच्च भवेदचाल्यं”
साध्येष्वपि वातजादिष्वपि इमानि वक्ष्यमाणानिसंप्रस्तुतादीनि
*
अपरासाध्यमाह ।“यज्जायतेऽन्यत् खलु पूर्व्वजातेज्ञेयं तदध्यर्ब्बुदमर्ब्बुदज्ञैः
यद्द्वन्द्वजातं युगपत् क्रमाद्वाद्विरर्ब्बुदं तच्च भवेदसाध्यं”
*
अर्ब्बुदानां पाकाभावे हेतुमाह ।“न पाकमायाति कफाधिकत्वा-न्मेदोबहुत्वाच्च विशेषतस्तु ।दोषस्थिरत्वात् ग्रथनाच्च तेषांसर्व्वार्ब्बुदान्येव निसर्गतस्तु” ।ग्रथनात् ग्रन्थिरूपत्वात् नन्वपच्यां कफमेद-सोराधिक्येऽपि पाको दृश्यते तथात्र कथं पाकइत्याह निसर्गात् स्वभावात्
*
अथार्ब्बुदस्य चिकित्सा ।“ग्रन्थ्यर्ब्बुदानां यतो विशेषःप्रदोषहेत्वाकृतिदोषदुष्टेः ।अतश्चिकित्सेद्भिषगर्ब्बुदानिविधानविद्ग्रन्थिचिकित्सितेन
हरिद्रा-लोध्र-पत्तङ्ग-गृहधूम-मनःशिला ।मधुप्रगाढो लेपोऽयं मेदोऽर्ब्बुदहरः परः
मूलकस्य कृतः क्षारो हरिद्रायास्तथैव ।शङ्खचूर्णेन संयुक्तो लेपः सिद्धोऽर्ब्बुदापहः
वटदुग्धकुष्ठरोमकलिप्तं बद्धं वटस्य पत्रेण अध्य-स्थिसप्तरात्रात् महादप्युपशान्तिमर्ब्बुदं गच्छेत्
शिग्रुमूलकयोर्ब्बीजं रक्षोघ्नं सुरसां यवं ।तक्रेणाश्वरिपुं पिष्ट्वा लिम्पेदर्ब्बुदशान्तये
रक्षोघ्नं सर्षपं सुरसां तुलसीं यवं रन्द्रयवं ।अश्वरिपुं करवीरं इत्यर्ब्बुदाधिकारः इतिभावप्रकाशः