| YouTube Channel

अर्धलक्ष्मीहरि (ardhalakSmIhari)

 
Monier Williams Cologne
English
अर्ध—लक्ष्मी-हरि
m.
‘half Lakṣmī and half Hari’, one of the forms of Viṣṇu,
L.
(cf. अर्ध-नारीणातेश्वर above).
शब्दकल्पद्रुमः
Sanskrit
अर्द्धलक्ष्मीहरिः,
पुं,
(अर्द्धं लक्ष्म्या आकारे, अर्द्धंच हरेः, तादृशो हरिः ।) विष्णुः यथा ।गौतमीये, --“ऋषिः प्रजापतिश्छन्दो गायत्त्री देवता पुनः ।अर्द्धलक्ष्मीहरिः प्रोक्तः श्रीवीजेन षडङ्गकं”
अस्य मन्त्रादि यथा, --“तारं नमः पदं ब्रूयान्नरौ दीर्घसमन्वितौ ।पवनोणायमन्त्रोऽयं प्रोक्ती वस्वक्षरः परः”
अस्य पूजाप्रयोगः प्रातःकृत्यादिस्नानान्तं कर्म्मकृत्वा पूजामण्डपमागत्य वैष्णवाचमनं कुर्य्यात् ।तद्यथा गौतमीये, --“केशवाद्यैस्त्रिभिः पीत्वा द्वाभ्यां प्रक्षालयेत् करौ ।द्वाभ्यामोष्ठौ द्विरुन्मृज्य द्वाभ्यां मृज्यान्मुखं ततः
एकेन हस्तं प्रक्षाल्य पादावपि तथैकतः ।संप्रोक्ष्यैकेन मूर्द्धानं ततः सङ्कर्षणादिभिः
आस्यनासाक्षिकर्णांश्च नाभ्युरस्कं भुजौ क्रमात् ।स्पृशेदेवं भवेदाचमनञ्च वैष्णवान्वये
एवमाचमनं कृत्वा साक्षान्नारायणो भवेत्”
केशवादयस्तु केशव-नारायण-माधव-गोविन्द-विष्णु-मधुसूदन-त्रिविक्रम-वामन-श्रीधर-हृषी-केश-पद्मनाभ-दामोदर-सङ्कर्षण-वासुदेव-प्रद्युम्ना-निरुद्ध-पुरुषोत्तमाधोक्षज-नृसिंहाच्युत-जनार्द्दनो-पेन्द्र-हरिविष्णवः
वाक्यन्तु ओम् केशवाय नमः ।इत्यादि तथा ।“सचतुर्थिनमोऽन्तैश्च नामभिर्व्विन्यसेत् सुधीः”ततः सामान्यार्ध्यादिमातृकान्यासान्तं कर्म्म वि-धाय केशवकीत्यादिन्यासं कुर्य्यात् अस्य ऋष्यादि-न्यासः शिरसि प्रजापतये ऋषये नमः मुखेगायत्रीच्छन्दसे नमः हृदि अर्द्धलक्ष्मीहरयेदेवतायै नमः ततः कराङ्गन्यासौ श्रीं अङ्गु-ष्ठाभ्यां नमः इत्यादि श्रीं हृदयाय नमः ।इत्यादि तथा गौतमीये ।“ऋषिः प्रजापतिश्छन्दो गायत्री देवता पुनः ।अर्द्धलक्ष्मीहरिः प्रोक्तः श्रीवीजेन षडङ्गकं”
ततो ध्यानं ।“उद्यत्प्रद्योतनशतरुचिं तप्तहेमावदातंपार्श्वद्वन्द्वे जलधिसुतया विश्वधात्र्या जुष्टं ।नानारत्नोल्लसितविविधाकल्पमापीतवस्त्रं, विष्णुं वन्दे दरकमलकौमोदकीचक्रपाणिं”
इत्यादि इति तन्त्रसारः