| YouTube Channel

अर्द्धोदयः (arddhodayaH)

 
Wordnet
Sanskrit
Synonyms:
अर्द्धोदयः
noun
अमावस्यायां जायमानः रविवासरव्यतीपातयोगश्रवणनक्षत्रैः युक्तः पर्वः।
"अर्द्धोदये स्नानेन सूर्यग्रहणमिव पुण्यं प्राप्यते।"
शब्दकल्पद्रुमः
Sanskrit
अर्द्धोदयः,
पुं,
(अर्द्धस्य समृद्धस्य पुण्यस्य उदयो यत्र ।)योगविशेषः रविवारव्यतीपातश्रवणा-नक्षत्रैर्युक्ता चेत् पौषमाघयोरमावास्या स्यात्तदाभबति यथा पाश्चात्यनिर्णयामृते ।“अमार्कपातश्रवणैर्युक्ता चेन्माघपौषयोः ।अर्द्धोदयः विज्ञेयः कोटिसूर्य्यग्रहैः समः
अत्र सूर्य्यपर्ब्बशताधिक इति कृत्यचिन्तामणौपाठः तथा ।“दिवैव योगः शस्तोऽयं रात्रौ कदाचन ।”स्कन्दपुराणे ।“अर्द्धोदये तु संप्राप्ते सर्व्वं गङ्गासमं जलं ।शुद्धात्मानो द्विजाः सर्व्वे भवेयुर्ब्रह्मसन्निभाः
यत्किञ्चित् क्रियते दानं तद्दानं सेतुसन्निभं”
शिवविष्णुस्नानप्रशस्तकालोऽपि वृहन्नारदीयं ।“अर्द्धोदये पूष्यार्के हस्तार्के रोहिणीबुधे” ।इति तिथ्यादितत्त्वं