| YouTube Channel

अर्द्धोदय (arddhodaya)

 
वाचस्पत्यम्
Sanskrit
अर्द्धोदय
पु०
अर्द्ध स्य समृद्धस्य पुण्यस्य उदयो यत्र तिथि-नक्षत्रादियोगविशेषे “माघेमासि आमावस्या यदि अर्क-युता भवेत् नक्षत्रे श्रवणे देवि! व्यतीपातो भवेद्यदा ।अर्द्धोदयः विज्ञेयः सूर्य्यपर्वशतैःसमः दिवैवयोगः शस्तोऽयं रात्रौ कदाचन अर्द्धोदये तु सम्प्राप्तेसर्वं गङ्गासमं जलम् शुद्धात्मानो द्विजाः सर्वे भवेयुर्ब्रह्म-सस्मिताः यत् किञ्चित् क्रियते दानम् तद्दानं सेतुसन्नि-भमिति” निर्णया० “अमार्कपातश्रवणैर्युता चेत् पौषमा-घयीः अर्द्धोदयः विज्ञेय, कोटिसूर्य्यग्रहैः समः”स्क०
पु०
“अर्द्धोदये पुष्यार्के हस्तार्के रोहिणोबुधे”वृहन्नारदीयम्