| YouTube Channel

अर्द्धवैनाशिक (arddhavainAzika)

 
वाचस्पत्यम्
Sanskrit
अर्द्धवैनाशिक
पु०
अर्द्धोऽसम्पूर्णः वैनाशिकः बौद्धभेदः ।वैशेषिकशास्त्रकारे तस्य सर्वस्य क्षणिकतावादितया वैना-शिकसमयवत् परिणामभेदेन देहादेराशुविनाशस्वीकारेणआत्मनस्तु स्थायित्वाङ्गीकारेण ततो बैलक्षण्यात् अर्द्ध-वैनाशिकत्वम् इति वेदान्तिनो वदन्ति वैशेषिकादयस्तुवेदान्तिनोऽर्द्धवैंनाशिकत्वं कल्पयन्ति “तैर्हि वेनाशिकवत्सर्वेषां पदार्थानां चिद्रूपज्ञानमात्रात्मकतया स्वीका-रेण चितश्च स्थायित्वाङ्गीकारमात्रेण ततो वैलक्षण्य-मित्यर्द्धवैनाशिकत्वमिति यथा नैषां तथात्वं तथाविवरणप्रमेयोपन्यासे प्रपञ्चितम् विद्यारण्येन