| YouTube Channel

अर्द्धर्च्च (arddharcca)

 
वाचस्पत्यम्
Sanskrit
अर्द्धर्च्च
पु०
न०
अर्द्धम् ऋचः एकदेशित० अच् समा० ऋचोऽर्द्ध-भागे “अर्द्धर्च्चेऽर्द्धर्चे प्रतिगृहणीयात्” शत० ब्रा० “ऋचःपादं मात्रया कल्पयन्तोऽर्द्धर्चेन” अथ० ९, १०, १९, अस्यपरिमाणवाचकत्वात् वोप्सायां शष् अद्धर्च्चशः अर्द्धर्च्च-मर्द्धर्चमिति वीप्सावृत्तौ कारकभूते अर्द्धर्चे “तस्य वाससापाणिभ्यां पाणी संगृह्य सावित्रोमन्वाह पच्छोर्द्धर्चशःसर्वाम्” कात्या० १७, १, १८, “तस्मादद्धर्चशः शंसेत्”शत० ब्रा० “अत्यार्द्धर्चशोद्वौवा इमौ प्राणौ” शत० ब्रा०