| YouTube Channel

अर्द्धरात्रः (arddharAtraH)

 
शब्दकल्पद्रुमः
Sanskrit
अर्द्धरात्रः,
पुं,
(अर्द्धं रात्रेः, अर्द्धं नपुंसकमित्येक-देशी समासः, अहःसर्व्वैकदेशसंख्यातपुण्याच्चरात्रेरिति समासान्तोऽच्प्रत्ययः, रात्र्यह्नाहा पुंसिइति नियमात् पुंस्त्वम् ।) रात्र्यर्द्धभागः दुइप्रहररात्रि इति भाषा तत्पर्य्यायः निशीथः ।इत्यमरः
निसम्पातः अवसरालयः इतिशब्दरत्नावली
सुप्तजनः इति जटाधरः
रात्र्यष्टममुहूर्त्तः तु रात्रिमध्यदण्डद्वयात्मकः ।सम्पूर्णार्द्धरात्रोऽप्ययं महानिशा सा तु सा-र्द्धप्रहरानन्तरं सार्द्धतृतीयप्रहरपर्य्यन्तं इतिस्मृतिः
(“मध्यन्दिनेऽर्द्धरात्रे श्राद्धं भुक्त्वा सामिषम्” ।“मध्यन्दिनेऽर्द्धरात्रे वा विश्रान्तो विगतक्लमः ।चिन्तयेद्धर्म्मकामार्थान् सार्द्धं तैरेक एव वा”
इति मनुः ।)