| YouTube Channel

अर्द्धमास (arddhamAsa)

 
वाचस्पत्यम्
Sanskrit
अर्द्धमास
पु०
अर्धं मासस्य एकदे० त० पञ्चदशाहात्मके मासस्यार्धरूप्रे पक्षात्मके काले “दर्शेन चार्धमासान्ते पौर्ण्णमासेनचैव हि” मनुः “पञ्चदश वा अर्धमासस्य रात्रयः” इतिशत० ब्रा० “तत्त्रिंशता भवेन्मास” इत्युक्तेर्मासस्य त्रिंशत्तिथ्यात्मकतया तदर्धस्यपञ्चदशत्वम् “ऐरण्डतैलं वा मास-मर्धमासं वा पाययेत्” सुश्रुतः