| YouTube Channel

अर्द्धमात्रा (arddhamAtrA)

 
वाचस्पत्यम्
Sanskrit
अर्द्धमात्रा स्त्री अर्धं मात्रायाः विन्द्वर्धचन्द्राकारव्यज्यायां२ ब्रह्मरूपायाम् वाचि तद्वाच्यायां देव्याञ्च “अर्धमात्रास्थिता नित्यं यानुच्यार्य्या विशेषतः” देवीमा० “अकारोभगवान् ब्रह्मा उकारो विष्णुरुच्यते मकारो भगवान्रुद्रो प्यर्धमात्रा महेश्वरी उत्तरोत्तरभावेनाप्युत्तमत्वंस्मृतं बुधैः अतः सर्व्वेषु शास्त्रेषु देवीसर्व्वोत्तमास्मृता” देवीपुरा० अर्धमात्रा उच्चारणकालोऽस्य ।३ हलवर्णे
त्रि०
“व्यञ्जनं चार्धमात्रक” मित्युक्तेस्तथात्वम्