| YouTube Channel

अर्द्धभ्रम (arddhabhrama)

 
वाचस्पत्यम्
Sanskrit
अर्द्धभ्रम
न०
अर्द्धात् भ्रमोभ्रमणं यत्र “आहुरर्द्धभ्रमं नामश्लोकार्द्धभ्रमणं यदीति सर० कण्ठा० उक्ते शब्दालङ्कारभेदेयथा “स त्व ति दे नि त्यंस रा र्ष ना शि नि ।त्व रा धि सं ना देर त्व र्ष ति” किरा०अग्निपुराणे तु “गोमूत्रिकार्द्ध भ्रमके” इति कान्ततया-पठित्वा “पादार्द्धाद्यैश्चतुर्भिश्च कुर्य्याद्विन्यासमेतयोः न्यस्यता-मिह वर्ण्ण नामधोधः भ्रमभागिणाम् अधोधःस्थितवर्ण्णाना-माचतुर्थपदं नयेत् तुर्य्यपादं नयेदूर्द्धं पादार्द्धप्राति-लोम्यत” इति तल्लक्षणमुक्तम् अयमर्थः तिर्य्य ग्गताः पञ्च-रेखाः ऊर्द्ध्वगताश्च नव रेखालेख्या एवं द्वात्रिंशत् कोष्ठानिभवन्ति तत्र प्रथमादिपङ्क्तिक्रमेण एकैककोष्ठगैकैकाक्षरका-श्चत्वारः पादाः क्रमेण पङ्क्तिचतुष्के लेख्याः एवं लेखनेद्वात्रिंशद्वर्ण्णा एकैककोष्ठगा भवन्ति तत्र प्रथमपादार्द्धगताआद्याश्चत्वारोवर्ण्णाः क्रमशोऽधोवर्त्तिनीषु प्रथमादिपङ्क्तिषुयथा भवन्ति यथा तस्यापरार्द्धगताश्चत्वारो वर्ण्णा अन्ति-मादिपङ्क्तिषु उर्द्धोर्द्धक्रमेण अन्त्य कोष्ठगा भवन्ति तथा वर्णाःश्लोके निवेश्याः एवं द्वितीयपादार्धगा आद्याश्चत्वारोवर्ण्णा अधोऽधःक्रमेण प्रथमादिपङ्क्तिद्वितीयकोष्ठगाःअपरार्धघटकाश्चत्वारश्च वर्ण्णा ऊर्द्ध्वोर्द्ध्वक्रमेण अन्तिमादि-पङ्क्तिषु सप्तमकोष्ठगाः तृतीयपादार्धगाः आद्याश्चत्वारोवर्णाः प्रथमादिपङ्क्तिषु अधोऽधःक्रमेण तृतीयकोष्ठगा उत्त-रार्धगाश्चत्वारो वर्ण्णाश्च ऊर्द्ध्वोर्द्ध्वक्रमेण अन्तिमादिषु षष्ठ-कोष्ठगाः चतुर्थपादार्धगा आद्याश्चत्वारोवर्ण्णाः अधोधः-क्रमेण प्रथमादिषु पङ्क्तिषु चतुर्थकोष्ठगाः उत्तरार्धगताश्चत्वारो वर्ण्णाश्च ऊर्द्धार्द्धक्रमेण अन्तिमादिषु पञ्चमकोष्ठगाःयथा भवेयुस्तथा वर्ण्णविन्यासो विधेयः एवं सति यथाप्रथमादिपङ्क्तिक्रमेण चत्वारः पादाः पठितुं शक्यन्ते एवमुक्त-प्रकारेण अधोधःक्रमेण प्रथमादिकोष्ठगवर्ण्णग्रहणेन एवंअन्तिमादिषु, ऊर्द्ध्वोर्द्ध्वक्रमेण अन्तिमकोष्ठस्थवर्ण्णग्रहणेन, उक्तरीत्या प्रथमादिपङ्क्तिषु द्वितीयादिकोष्ठस्थवर्ण्णग्रहणेनअन्तिमादिषु उपान्तिमकोष्ठगवर्ण्णग्रहणेन उक्तदिशापाठे द्वितीयादिपादा भवन्ति सर्व्वतोभद्रस्येवास्य सर्व्वतोऽनुलोमविलोमपाठासम्भवेन अर्धभ्रमत्वम् अयञ्च वन्धःअनुष्टुप्छन्दस्येव नान्यत्र छन्दसीति ज्ञेयम् एवम्“अभीकमतिकेनेद्ध्वे भीतानन्दस्य नाशने कनत्सकामसेनाकेमन्दकाममकमस्यति” माघश्लोकेऽपि ज्ञेयः