अर्द्धगर्भ (arddhagarbha)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritअर्द्धगर्भ अर्द्धे वत्सरस्यार्द्धेभार्गादौ पौषादौ वाब्रह्माण्डस्यार्धेगगने वा गर्भं गर्भस्थानीयमुदकं यस्य । सूर्य्यरश्मिभेदे तेहि मार्गादौ पौषादौ च भूमिस्थम् उदकमाकृष्य गर्भरूपेणगगने धारयन्ति इति ज्योतिषप्रसिद्धम् “तासां शतानिचत्वारि रश्मीनां वृष्टिसर्जने इत्यादिना ३२४ पृष्ठदर्शितेन यादववाक्येनं तेषां मध्ये शतत्रयेश गर्भधारणस्योक्तेस्तथात्वम् गर्भधारणकालश्च वृ० स० उक्तम् यथा ।“मार्गशिरःशुक्लपक्षप्रतिपत्प्रभृति क्षपाकरेऽषाढाम् । पूर्वांवा समुपगते गर्भाणां लक्षणं ज्ञेयम् । यन्नक्षत्रमुपगते गर्भश्चन्द्रे भवेत् स चन्द्रवशात् । पञ्चनवते दिनशते तत्रैवप्रसवमायाति । सितपक्षभावाः कृष्णे, शुक्ले कृष्णा द्युस-म्भवाः रात्रौ । नक्तंप्रभवाश्चाहनि, सन्ध्याजाताश्च सन्ध्या-याम् । मार्गशीर्षाद्यागर्भामन्दफलाः पौषशुक्लजाताश्च ।पौषस्यकृष्णपक्षेण निर्दिशेच्छ्रावणस्य सितम् । माषसितोद्भवागर्भाः श्रावणकृष्णे प्रसूतिमायान्ति । माधस्य कृष्णपक्षेणनिर्दिशेद्भाद्रपदशुक्लम् । फाल्गुनशुक्लसमुत्था भाद्रपदस्यासिते विनिर्देश्याः । तस्यैव कृष्णपक्षोद्भवास्तु ये तेऽश्वयुक्शुक्ले ।चैत्रसितपक्षजाताः कृष्णेऽश्वयुजस्य वारिदा गर्भाः ।चैत्रासितसम्भूताः कार्त्तिकशुक्लेऽभिवर्षन्ति” इति ।“सप्तार्द्धगर्भा भुवनस्य रेतः” ऋ० १, १६४, ३६ । “वत्-सरस्यार्द्धेगर्भस्थानीयमुदकं धारमाणाः” भा० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
