| YouTube Channel

अर्द्दित (arddita)

 
वाचस्पत्यम्
Sanskrit
अर्द्दित
त्रि०
अर्द्द--क्त पीडिते, गते, याचिते ।४ रोगभेदेन० “अर्दयित्वाऽनिलोवक्त्रमर्दितं जनयत्यतः ।वक्रीभवति वक्त्रार्द्धं ग्रीवा चाप्यपवर्त्तते शिरश्चलति वाक्-सङ्गो नेत्रादीनाञ्च वैकृतम् ग्रीवाचिवुकदन्तानांतस्मिन् पार्श्वे तु वेदना यस्याग्रजो रोमहर्षो वेपथुर्नेत्र-माविलम् वायुरूर्द्धं त्वचि स्वापस्तोदोमन्याहनुग्रहः ।तमर्दितमिति प्राहुर्व्याधिं व्याधिविशारदाः क्षीणस्यानिमिषाक्षस्य प्रसक्ताव्यक्तभाषिणः सिध्यत्यर्दितं वाढंत्रिवर्षं वेपनस्य च” इति सुश्रु० “क्षयकासश्वास व्रणार्शोऽर्द्दितापहम्” “हनुमोक्षमधीमन्थमर्दितञ्च सुदा-रुणम्” इति सुश्रु०!