| YouTube Channel

अर्द्द (ardda)

 
वाचस्पत्यम्
Sanskrit
अर्द्द पीडने भ्वादि०
उभ०
सक०
सेट् अर्द्दति ते आर्द्दीत्आर्द्दिष्ट “रक्षःसहस्राणि चतुर्द्दशार्दीत्” रघुः आनर्द्दअर्द्दकः अर्द्दी अर्द्दित्वा अर्द्दितः अति--अतिपीडने ।अत्यर्द्दितः अभि + आभिमुखेन पीडने “अभेश्वाविदूर्य्ये”पा० उक्तेः सामीप्ये अभ्यर्ण्णः समीपवर्त्ती “कालोभ्यर्ण्णजलागमः” सा० द० अन्यत्र अभ्यद्दितः निस् + निर्+ वा--भृशपीडने “सोऽस्यायं पराङेव प्राणो निरर्दति”शत० व्रा० वि + विशेषेण पीडने “तद् या ऊर्म्मी व्यर्द्दतःपशौ वा पुरुषे वा” शत० व्रा० सम् + समर्ण्णः नि +न्यर्ण्णः वि + व्यर्ण्णः
अर्द्द याचने, गतौ,
सक०
पीडायां अक० भ्वादि०
पर०
सेट् ।अर्द्दति आर्द्दीत् याचने “शरद्घनं नार्द्दति चात-कोऽपीति” रघुः
अर्द्द बधे चुरा० उभय०
सक०
सेट् अर्द्दयति ते आर्द्दि-दत् “येनार्द्दिदत् दैत्यपुरं पिनाकी” भट्टिः ।“अव्यर्ण्णो गिरिकूटाभानभ्यर्ण्णानार्द्दिदत् द्रुतम्” भट्टिः ।सम् + सम्यक्पीडने “यन्तारमस्य सहसा त्रिभिर्वाणैः समा-र्द्दयत्” भा० व० प० प्रति + प्रतिरूपपीडने यस्य यत्कर्त्तृकंपीडनं तेनैव पुनस्तस्य पीडने “प्रत्यर्द्धयत संक्रुद्धो राघवःपुनराहवे” रामा०