| YouTube Channel

अर्दितं (arditaM)

 
शब्दकल्पद्रुमः
Sanskrit
अर्दितं,
क्ली,
(अर्द + क्तः ।) वायुव्याधिविशेषः तस्य(निदानपूर्व्वरूपसम्प्राप्तिपूर्व्वकं) लक्षणमाह (सुश्रुतः) ।“उच्चैर्व्याहरतोऽत्यर्थं खादतः कठिनानि ।हसतो जृम्भतो भाराद्विषमाच्छयनादपि
शिरोनासौष्ठचिवुकललाटेक्षणसन्धिजः ।अर्द्दयित्वानिलो वक्त्रमर्द्दितं जनयत्यतः
वक्रीभवति वक्त्रार्द्धं ग्रीवा चाप्यपवर्त्तते ।शिरश्चलति वाक्सङ्गो नेत्रादीनाञ्च वैकृतम्
ग्रीवाचिवुकदन्तानां तस्मिन् पार्श्वे तु वेदना
(यस्याग्रजो रोमहर्षो वेपथुर्नेत्रमाविलं ।वायरूर्द्ध्वं त्वचि स्वापस्तोदो मन्याहनुग्रहः
)तमर्द्दितमिति प्राहुर्व्याधिं व्याधिविशारदाः”
तस्यासाध्यलक्षणञ्चाह
“क्षीणस्यानिमिषाक्षस्य प्रसक्ताव्यक्तभाषिणः ।न सिध्यत्यर्द्दितं वाढं त्रिवर्षं वेपनस्य
*
भावप्रकाशेऽप्येयं व्याख्या
व्याहरतः वदतः ।कठिनानि पूगफलादीनि विषमाच्छयनासना-दिति पाठान्तरे विषमाच्छयनासनात् ग्रीवादि-वैपरीत्येन शयनादासनाच्च अर्द्दयति पीडयति ।जनयेत्तत इति पाठान्तरे ततस्तदनन्तरं अर्द्दितंजनयेत् अर्द्दिते जाते किं स्यात्तदाह वक्री-भवतीत्यादि अपवर्त्तते वक्रीभवति चलतिकम्पते वाक्सङ्गः वाङ्निरोधः नेत्रादीना-मित्यादिशब्देन भ्रूगण्डनासिकादीनां ग्रहणं ।वैकृतं वेदनास्फुरणवक्रत्वादि ग्रीवेत्यादि यस्मिन्पार्श्वे अर्द्दितं तस्मिन् पार्श्वे ग्रीवादीनां वेदना
अनिमिषाक्षस्य निमेषासमर्थचक्षुषः प्रसक्तंप्रकर्षेण लग्नं अव्यक्तञ्च भाषितुं शीलं यस्य तस्यअर्द्दितं सिध्यति त्रिवर्षं अतीतवर्षत्रयं अथवात्रयाणां चक्षुर्नासामुखानां वर्षः स्रावो यत्र तत् ।वेपनस्य कम्पनशीलस्य वाढमतिशयेन नसिध्यति इत्यन्वयः गाढमित्यर्थे एवार्थः
*
(चरकश्चाह ।“अतिवृद्धः शरीरार्द्धमेकं वायुः प्रपद्यते ।यदा तदोपशोष्यासृक् बाहुं पादञ्च जानु
तस्मिन् सङ्कोचयत्यर्द्धे मुखं जिह्मं करोति ।वक्रीकरोति नासाभ्रुललाटाक्षिहनुन्तथा
ततो वक्रं व्रजत्यास्ये भोजनं वक्रनासिकं ।स्तब्धं नेत्रं कथयतः क्षरथुश्च निगृह्यते
दीना जिह्मा समुत्क्षिप्ता कला सज्जति चास्यवाक् ।दन्ताश्चलन्ति बाध्येते श्रवणौ भिद्यते स्वरः
पादहस्ताक्षिजङ्घोरुशङ्खश्रवणगण्डरुक् ।अर्द्धे तस्मिन् मुखार्द्धे वा केवले स्यात्तदर्द्दितं”
*
वाभटस्वाह ।“शिर सा भारहरणादतिहार्यप्रभाषणात् ।उत्त्रासवक्त्रक्षरथुस्वरकार्मुककर्षणात्
विषमादुपधानाच्च कठिनानाञ्च चर्ब्बणात् ।वायुर्विवृद्धस्तैस्तैश्च वातलैरूर्द्ध्वमास्थितः
वक्रीकरोति वक्त्रार्द्धमूर्द्ध्वं हसितमीक्षितं ।ततोऽस्य कम्पते मूर्द्धा वाक्सङ्गस्तब्धनेत्रता
दन्तचालः स्वरभ्रंशः श्रुतिहानिः क्षरग्रहः ।गन्धाज्ञानं स्मृतेर्म्मोहस्त्रासः सुप्तस्य जायते
निष्ठीवः पार्श्वतोयायादेकस्याक्ष्णोनिमीलनं ।जत्रोरुर्द्ध्वं रुजा तीव्रा शरीरार्द्धेऽधरेपि वा
तमाहुरर्दितं केचिदेकायामथ चापरे”
*
हारीतसंहितायामप्युक्तं ।“सन्तापदाहशोषाश्च मूर्च्छापित्तान्वितोमरुत् ।शैत्यं शोथोऽरुचिर्जाड्यं वातश्लेष्मसमन्वितं
यो द्वन्द्वजाश्रितो धीरास्तं साध्यं मारुतं विदुः ।केवलोऽपि समीरोऽपि सोऽपि साध्यतमः स्मृतः
वक्त्रं भवति वक्रार्द्धं ग्रीवा चाप्यपवर्त्तते ।वैकृत्यं नयनानाञ्च विसंज्ञो वेदनातुरः
ग्रीवायां गण्डयोर्दन्तपार्श्वे यस्यातिवेदना ।तमर्द्दितमिति प्राहुर्वातव्याधिविचक्षणाः
लालास्रावोऽथ शोषश्च हनुग्राहो विरस्यता ।दन्तशूलं भवेद्यस्य वातेनार्द्दितमेव
पीतार्द्धं सज्वरं तृष्णा पित्तजे मोह एवच ।शोफस्तम्भोऽस्य भवति कफोद्भूतेऽथवार्द्दिते”
*
)“वातात्पित्तात्कफाच्च स्यात् त्रिविधं तत्समासतः ।लालास्रावो व्यथा कम्पः स्फुरणं हनुवाग्ग्रहः
ओष्ठयोः श्वयथुः शूलश्चार्दिते वातजे भवेत् ।पीतमास्यं ज्वरस्तृष्णा पित्तजे मोहधूपने
गण्डे शिरसि मन्यायां शोथः स्तम्भः कफात्मके”
*
(अथ तस्य चिकित्सामाह सुश्रुतः
अर्द्दितातुरंबलवन्तमुपकरणवन्तञ्च वातव्याधिविधानेनोपच-रेद्वैशेषिकैश्च मस्तिष्कशिरोवस्तिनस्यधूपोपनाह-स्नेहनाडीस्वेदादिभिः ततः सतृणं महापञ्चमूलंकाकोल्यादिं विदारिगन्धादि सौदकानूपमांसं त-थैवौदकन्दांश्च संहृत्य द्विगुणोदके क्षीरद्रीणे नि-क्वाथ्य पादावशिष्टमवतार्य्य परिस्राव्य तैलप्रस्थे-नोन्मिश्र्य पुनरग्नावधिश्रयेत् ततस्तैलं क्षीरानु-गतमवतार्य्य शीतीभूतमभिमन्थीयात्तत्र यः स्नेहःउत्तिष्ठेत्तमादाय मधुरौषधसहाक्षीरयुक्तं वि-पचेदेतत् क्षीरतैलमर्द्दितातुराणां पानाभ्यङ्गादि-धूपयोज्यं
तैलहीनं वा क्षीरसर्पिरक्षितर्पण-मिति
*
चरकस्तु
“अर्द्दिते नावनं मूर्द्ध्नि तैलं तर्पणमेव
नाडीस्वेदोपनाहाश्च आनूपपिशितैर्हिताः”
*
वाभटश्च
“अर्द्दिते नावनं मूर्द्ध्नि तैलं श्रोत्राक्षितर्पणं ।सशोफे वमनं दाहरागयुक्ते शिराव्यधः”
*
हारीतसंहितायां ।“अर्द्धं पलं रसोनञ्च हिङ्गुसैन्धवजीरकैः ।सौवर्च्चलेन संयुक्तं तथैव कटुकत्रिकं
घृतेन संयुतं भक्षेन्मासमेकं दिने दिने ।निहन्ति वातरोगञ्च अर्द्दितञ्च प्रतानकं”
*
चक्रपाणिसंग्रहे
“रसोनं नवनीतेन प्राश्य हन्त्यर्दितं द्रुतं ।अर्द्दिते नवनीतेन खादेन्माषण्डरीं नरः
क्षीरमांसरसैर्भुक्त्वा दशमूलीरसं पिबेत् ।स्नैहाभ्यङ्गशिरोवस्तिपाननस्यपरायणः ।अर्द्दितं जयेत् सर्पिः पिबेदौत्तरभक्तिकं”
*
भावप्रकाशेऽप्येतदतिरिक्तं यत्संगृहीतं तच्चैतत्
)“स्नेहपानानि नस्यञ्च भोज्यान्यनिलहृन्ति ।उपनाहाश्च शस्यन्ते स्वेदनं वस्तयोऽर्द्दिते”
वस्तिरत्रशिरोवस्तिरेव ।“दशमूलीकषायेण मातुलुङ्गरसेन वा ।बलया पञ्चमूल्या वा क्षीरं वातात्मके हितं
पिष्टं माषकृतं जग्ध्वा नवनीतेन सोऽर्द्दिती ।क्षीरं मांसरसैर्भुक्त्वा दशमूलीरसं पिबेत्
अर्दिते पित्तजे शीतान् स्नेहांश्चैव विनिर्द्दिशेत् ।घृतवस्तिप्रसेकञ्च क्षीरसेकं तथैव
जिह्मीभूताननो मूको दाहवान् योऽर्द्दिती भवेत् ।कुर्य्यात् प्रतिक्रियां तस्य वातपित्तविनाशिनीं
श्लेष्मभागे क्षयं नीते वृंहणैः समुपाचरेत् ।अर्दिते शोथसंयुक्ते वमनञ्च प्रशस्यते
रसोनकल्कं तिलतैलमिश्रंखादेन्नरो योऽर्द्दितरोगयुक्तः ।तस्यार्द्दितं नाशमुपैति शीघ्रंवृन्दं घनानामिव वायुवेगात्”
इति