अर्द (arda)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Shabdartha Kaustubha
Kannadaअर्द - गतौ याचने च (भ्वा० प० से)
पदविभागः - > धातुः
कन्नडार्थः - > ನಡೆ /ಚಲಿಸು
अर्द - गतौ याचने च (भ्वा० प० से)
पदविभागः - > धातुः
कन्नडार्थः - > ಯಾಚಿಸು /ಬೇಡು
प्रयोगाः - > "स्वस्त्यस्तु ते निर्गलिताम्बुगर्भं शरद्घनं नार्दति चातकोऽपि"
उल्लेखाः - > रघु० ५-१७
अर्द - हिंसायाम् (चु० उभ० से०)
पदविभागः - > धातुः
कन्नडार्थः - > ಹಿಂಸಿಸು /ಪೀಡಿಸು
प्रयोगाः - > "अव्यर्णो गिरिकूटाभानभ्यर्णानार्दिदद्द्रुतम्"
उल्लेखाः - > भट्टि० ९-१९
धातुपाठः (Krishnacharya)
Sanskrit अर्द्
अर्द
गतौ, याचने च
भ्वादिः
सकर्मकः
सेट्
परस्मैपदी
अर्दति
अर्द्
अर्द
हिंसायाम्
चुरादिः
सकर्मकः
सेट्
उभयपदी
अर्दयति-ते, अर्दति-ते
आधृषीयः
धातुप्रदीपः
Sanskritअर्दँ अर्द्द गतौ, याचने च
- अर्दति । अर्दिदत् । अर्दिदिषति । अभ्यर्णा शरत् (21) ।। 54 ।।
अर्दँ अर्द्द
मानकरूपान्तरम् - हिसिँ
हिसि हिंसायाम्
- अर्दयति अर्दति अर्द्दते आर्दिदद् आर्दीत् आर्दिदिषति हिंसयति हिंसति अन्यत्र हिनस्ति 273, 274
शब्दकल्पद्रुमः
Sanskritअर्द यातनागतियाचनेषु । (गतौ, सकं पीडायां अकंभ्वादि परं सेट् ।) इति कविकल्पद्रुमः ॥
यातनाताडनं । अर्द्दति पुत्रं पिता । “शरद्घनं नार्द्दतिचातकोऽपि” । न याचतीत्यर्थः । इति दुर्गादासः ॥
वाचस्पत्यम्
Sanskritअर्द्द पीडने भ्वादि० सेट् । अर्द्दति ते आर्द्दीत्आर्द्दिष्ट । “रक्षःसहस्राणि चतुर्द्दशार्दीत्” रघुः । आनर्द्दअर्द्दकः अर्द्दी अर्द्दित्वा अर्द्दितः । अति--अतिपीडने ।अत्यर्द्दितः अभि + आभिमुखेन पीडने । “अभेश्वाविदूर्य्ये”पा० उक्तेः सामीप्ये च अभ्यर्ण्णः समीपवर्त्ती “कालोभ्यर्ण्णजलागमः” सा० द० । अन्यत्र अभ्यद्दितः । निस् + निर्+ वा--भृशपीडने । “सोऽस्यायं पराङेव प्राणो निरर्दति”शत० व्रा० । वि + विशेषेण पीडने “तद् या ऊर्म्मी व्यर्द्दतःपशौ वा पुरुषे वा” शत० व्रा० । सम् + समर्ण्णः नि +न्यर्ण्णः वि + व्यर्ण्णः ।
अर्द्द याचने, गतौ, पीडायां अक० भ्वादि० सेट् ।अर्द्दति आर्द्दीत् । याचने “शरद्घनं नार्द्दति चात-कोऽपीति” रघुः ।
अर्द्द बधे चुरा० उभय० सेट् । अर्द्दयति ते आर्द्दि-दत् त । “येनार्द्दिदत् दैत्यपुरं पिनाकी” भट्टिः ।“अव्यर्ण्णो गिरिकूटाभानभ्यर्ण्णानार्द्दिदत् द्रुतम्” भट्टिः ।सम् + सम्यक्पीडने “यन्तारमस्य सहसा त्रिभिर्वाणैः समा-र्द्दयत्” भा० व० प० प्रति + प्रतिरूपपीडने यस्य यत्कर्त्तृकंपीडनं तेनैव पुनस्तस्य पीडने “प्रत्यर्द्धयत संक्रुद्धो राघवःपुनराहवे” रामा० ।
क्षीरतरङ्गिणी
Sanskritअर्दँ अर्द गतौ, याचने च
अर्दति यातने चेत्येके - अर्दितः खेदित इत्यर्थः तस्मान् नुड् द्विहलः (7471) इति लिटि नुट् - आनद नन्द्राः संयोगादयः (613) इति रेफो न द्विरुच्यते - अर्दिदिषति ल्युः (द्र031134) जनार्दनः अर्देः संनिविभ्यः (7224) निष्ठायां नेट् - समर्ण्णः अभेश्चाविदूर्ये (7225) अभ्यर्ण्णे सेने आसाते चुरादौ अर्द, हिसि हिंसायाम् (10255) अर्दयति 53
अर्दँ अर्द
मानकरूपान्तरम् - हिसिँ
हिसि हिंसायाम्
- अर्दयति, अर्दति हिंसायति, हिंसति रुधादौ (724) हिनस्ति 273, 274
धातुवृत्तिः
Sanskritअर्दँ अर्द (अर्थः) गतौ, याचने च
याचने द्विकर्मकः नाथत्यादिवल्लादयो नेयाः ( अर्दति आनर्द आनर्दतुः आनर्दिथ आनर्दिव ) "अत आदेः'' इत्यभ्यासादेर्दीर्घे "तस्मान्नतुङ् द्विहलः'' इति दीर्घभृतादभ्यासात्परस्य नुडागमः ( अर्दिता अर्दिष्यति अर्दतु आर्दत् अर्देत् आशिषि अर्द्यात् माभवानर्दीत् ) "नेटि'' इति सिचि वृद्धेर्निषेधः ( कर्मादौ अर्द्यत इत्यादि ) गत्यर्थत्वे कर्तृस्यक्रियात्वान्न कर्मकर्त्तास्ति "क्तोधिकरणे च'' इत्यादिना कर्तृकर्मभावाधिरेणेषु क्त उदाहार्यः तथा "गत्यर्थकर्म'' इति द्वितीयाचतुर्थ्यौ कर्मव्यतिहारे "न गतिर्हिसा'' इति तङ्निषेधः, णौ "गतिबुद्ध्'' इति प्रयोज्यस्य कर्मत्वं च ( अर्दिदिषति ) "न न्द्राः'' इति निषेधान्नदरवर्जितस्य द्वितीयस्यैकाचो द्विर्वचनम् ( समण्णः न्यर्ण्णः व्यर्णाः अभ्यर्ण्णः ) "अर्देः सन्निविभ्यः'' "अभेश्चाविदूर्ये'' इति समादिपूर्वप् दादर्देः परस्य निष्ठाया इण्णिषेधे "रदाभ्याम्'' इति तकारदकारयोर्नत्वं पूर्वस्य "रषाभ्याम्'' इति णत्वे परस्य ष्टुत्वे वणकारः "अभेश्चाविदूर्य्ये'' इति निषेधादन्यत्र ( अभ्यर्दितोवृषलः शीतेनेति भवति ) आविदूर्या प्रत्यासत्तिः अस्मादेव निपातनाद् "न नञ् पूर्वात् '' इति निषेधं बाधित्वा भावे ष्यञ् हिंसार्थो ऽयंचुरादौ 55
अर्दँ अर्द्द (अर्थः) हिंसायाम्
( अर्दयति अर्दति अर्दते ) अयं स्वरितेदिति देवमैत्रेयौ आत्मनेपदीति शाकटायनः गतियाचनयोरर्द्दतीति शपि 287
कृदन्तरूपमाला
Sanskrit1 {@‘अर्द गतौ याचने च’@} 2 ‘अर्दयेदर्दतेऽर्देर्द्यौ हिंसनेऽर्दति याचने।’ 3 इति देवः।
शाक- टायनस्तु अनुदात्तेतमिमं धातुं मन्यते।
‘यातने च इत्येके’ -इति क्षीरस्वामी।
याचने द्विकर्मकः।
अर्दकः-र्दिका, अर्दकः-र्दिका, अर्दिदिष 4 कः-षिका
अर्दिता-त्री, अर्दयिता-त्री, अर्दिदिषिता-त्री
अर्दन्-न्ती, अर्दयन्-न्ती, अर्दिदिषन्-न्ती
अर्दिष्यन्-न्ती-ती, अर्दयिष्यन्-न्ती-ती, अर्दिदिषिष्यन्-ती-न्ती
-- अर्दयमानः, अर्दयिष्यमाणः
अर्त्-अर्द्-अर्दौ-अर्दः
-- -- समर्ण 5 ः, न्यर्णः, व्य 6र्णः, अभ् 7यर्णः-अभ्यर्दितः 8 9 अर्दितम्-तः-तवान्, अर्दितः, अर्दिदिषितम्-तः-तवान्
अर्दः, जना 10 र्दनः, अर्दः, अर्दिदिषुः, अर्दिदयिषुः
अर्दितव्यम्, अर्दयितव्यम्, अर्दिदिषितव्यम्
अर्दनीयम्, अर्दनीयम्, अर्दिदिषणीयम्
अर्द्यम्, अर्द्यम्, अर्दिदिष्यम्
ईषदर्दः-दुरर्दः-स्वर्दः
-- -- अर्द्यमानः, अर्द्यमानः, अर्दिदिष्यमाणः
अर्दः, अर्दः, अर्दिदिषः
अर्दितुम्
अर्दयितुम्, अर्दिदिषितुम्
11 अर्दा, अर्दना, अर्दिदिषा, अर्दिदयिषा
अर्दित्वा, अर्दयित्वा, अर्दिदिषित्वा
समर्द्य, समर्द्य, समर्दिदिष्य
अर्दम् २, अर्दित्वा २, अर्दम् २, अर्दयित्वा २, अर्दिदिषम् २
अर्दिदिषित्वा २
01 (४१)
02 (१-भ्वादिः-५५-सक। से। पर।)
03 (१०३)
04 [[१। ‘न न्द्राः संयोगादयः’ (६-१-३।) इति रेफस्य द्वित्वनिषेधः।]]
05 [[१। आ। ‘अर्देस्संनिविभ्यः’ (७-२-२४) इति इण्णिषेधः। ‘रदाभ्यां निष्ठातो नः--’ (८-२-४२) इति नत्वे, णत्वे च रूपम्।]]
06 [[B। ‘अव्यर्णो गिरिकूटाभान् अभ्यर्णानार्दिदद् द्रुतम्। वृत्तशस्त्रान् महारम्भान् अदान्तांस्त्रिदशैरपि।।’ (भ। का। ९-१९।)]]
07 [[२। ‘अभेश्चाविदूर्ये’ (७-२-२५) इति इण्णिषेधः।]]
08 (विदूरे)
09 [[आ। ‘पलान्यखाद्यानि खदन् बदद्वपुर्गदन्नवाच्यानि रदन् सतां मनः। नदन् मदादर्दित- संक्षयोऽधुना क्षणं खलो नर्दतु गर्दभस्वनैः’ धा। का। १-८।]]
10 [[३। ‘नन्दिग्रहिपचादिभ्यो--’ (३-१-१३४) इति नन्द्यादित्वात् कर्तरि ल्युः।]]
11 [पृष्ठम्००३९+ २८]
1 {@‘अर्द हिंसायाम्’@} 2 आधृषीयः।
‘अर्दयेदर्दतेऽर्देद्यौ हिंसनेऽर्दति याचने’ 3 इति देवः।
शाकटायनपक्षे आत्मनेपदी।
अर्दकः-र्दिका, अर्दिदयिषकः-षिका, अर्दकः-र्दिका
4 अर्दयिता-त्री, अर्दिदयिषिता-त्री, अर्दिता-त्री
अर्दयन्-न्ती, अर्दिदयिषन्-न्ती, अर्दन्-न्ती
अर्दयिष्यन्-न्ती-ती, अर्दिदयिषिष्यन्-न्ती-ती, अर्दिष्यन्-न्ती-ती
अर्दयमानः, अर्दिदयिषमाणः, 5 अर्दमानः
अर्दयिष्यमाणः, अर्दिदयिषिष्यमाणः, अर्दिष्यमाणः
अर्त् 6 -अर्द्-अर्दौ-अर्दः
-- -- अर्दितम्-तः, अर्दिदयिषितः, 7 समर्णः-न्यर्णः-व्यर्णः- 8 अभ्यर्णः, अभ्यर्दितः
तवान्
अर्दः, अर्दिदयिषुः, अर्दः, 9 जनार्दनः, अर्दिदिषुः, 10 समर्दी
अर्दयितव्यम्, अर्दिदयिषितव्यम्, अर्दितव्यम्
अर्दनीयम्, अर्दिदयिषणीयम्, अर्दनीयम्
11 12 अर्द्यम्, अर्दिदयिष्यम्, अर्द्यम्
ईषदर्दः, दुरर्दः, स्वर्दः
अर्द्यमानः, अर्दिदयिष्यमाणः, अर्द्यमानः
अर्दः, अर्दिदयिषः, अर्दः
अर्दयितुम्, अर्दिदयिषितुम्, अर्दितुम्
अर्दना, अर्दिदयिषा, अर्दा
अर्दयित्वा, अर्दिदयिषित्वा, अर्दित्वा
समर्द्य, समर्दिदयिष्य, समर्द्य
अर्दम् २, अर्दयित्वा २, अर्दिदयिषम् २, अर्दिदयिषित्वा २, अर्दम् २
अर्दित्वा २
01 (४१ आ)
02 (१०-चुरादिः-१८२९। सक। सेट्। उभ।)
03 (१०३)
04 [[१। णिजभावपक्षे शुद्धाद्धातोस्सनि रूपाणि पूर्वलिखिता (४१) र्दतिवत् ज्ञेयानि।]]
05 [[२। शाकटायनमते णिजभावपक्षेऽनुदात्तेत्त्वात् शानज् भवति।]]
06 [[२। आ। ‘वाऽवसाने’ (८-४-५६) इति चर्त्वविकल्पः। ‘रात् सस्य’ (८-२-२४) इति नियमात् संयोगान्तलोपो न।]]
07 [[३। णिजभावपक्षे ‘अर्देस्संनिविभ्यः’ (७-२-२४) इतीण्णिषेधे, ‘रदाभ्यां--’ (८-२-४२) इति निष्ठानत्वे णत्वम्।]]
08 [[४। ‘अभेश्चाविदूर्ये’ (७-२-२५) इति निष्ठायामिण्णिषेधः। विदूरे तु ‘अभ्यर्दित’ इत्येव।]]
09 [[५। णिजभावपक्षे नन्द्यादित्वात् (३-१-१३४) कर्तरि ल्युः।]]
10 [[६। ‘सुप्यजातौ--’ (३-२-७८) इति णिनिः ताच्छील्ये।]]
11 [पृष्ठम्००४०+ २७]
12 [[आ। ‘कृष्णोऽविश्रथितारिभीरभिमयन् दोष्णा ग्रथन् भ्रामयन् क्राथ्यं प्रोथितवान् अशीकितमतिं भूमावचीकन्नमुम्। मल्लोऽर्द्यः स च हिंसितः पदमुपासात्सीद्धरेः शुन्धितः तावत् स्वं बलमच्छदं जुषितवान् मुष्ट्या हली मुष्टिकम्।।’ धा। का। ३-५०]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
