| YouTube Channel

अर्थी (arthI)

 
E Bharati Sampat
Sanskrit
(वि) (अर्थिन्) अर्थयते अर्थ(उपयाच्ञायाम्)+णिनिः। ‘नन्दिग्रहि०३.१.१३४। १.याचकः, भिक्षुकः। ‘यथाविधि हुताग्नीनां यथा कामार्चितार्थिनाम्’ रघुः१.६। २. सेवकः। ३.असन्निहितः अर्थः अस्य अस्ति अर्थ+इनिः। ‘अर्थाच्चासन्निहिते’ वा०५.२.१३५। दरिद्रः। ४.कार्यार्थी ५.वादी ‘स धर्मस्थसखः शश्वदर्थिप्रत्यर्थिनां स्वयम्’ रघुः१७.३९। ६.अर्थः अपेक्षा अस्य अस्ति अर्थ+इनिः। ‘अत इनि०’ ५.२.११५। अपेक्षी ७.अर्थः धनम् अस्य अस्ति धनिकः। (स्त्री) अर्थिनी अर्थिन्+ङीप् ‘ऋन्नेभ्यो ङीप्’ ४.१.५।
(वि) (अर्थिन्) अर्थयते अर्थ (उपयाच्ञायाम्) + णिनिः ‘नन्दिग्रहि....’ (३.१.१३४) १. याचकः, भिक्षुकः ‘यथाविधि हुताग्नीनां यथा कामार्चितार्थिनाम्’ (रघुः १.६) २. सेवकः ३. असन्निहितः अर्थः अस्य अस्ति अर्थ + इनिः ‘अर्थाच्चासन्निहिते’ (वा० ५.२.१३५) दरिद्रः ४. कार्यार्थी ५. वादी ‘स धर्मस्थसखः शश्वदर्थिप्रत्यर्थिनां स्वयम् ।’ (रघु १७.३९) ६. अर्थः अपेक्षा अस्य अस्ति अर्थ + इनिः ‘अत इनिठनौ’ (५.२.११५) अपेक्षी (स्त्री) अर्थिनी अर्थिन् + ङीप् ‘ऋन्नेभ्यो ङीप्’ (४.१.५)
Wordnet
Sanskrit
Synonyms:
वादी, कार्यी, अर्थी
noun
अभियोगकर्मानुबन्धी।
"न्यायालये वादी अनुपस्थितः अस्ति अद्य।"
Synonyms:
अभियोक्ता, वादी, अभियोगी, अर्थी, कारणवादी, कार्यी, क्रियापादः, क्रियावादी, गूढसाक्षी, परिवादी, पूर्वपक्षपादः, पूर्ववादी, प्रत्यभिस्कन्दनम्
noun
यः न्यायालये राजसभायां वा स्वपक्षम् उपस्थापयति।
"अभियोक्ता स्वस्य पुष्ट्यर्थे प्रमाणं सङ्गृह्णाति।"
Synonyms:
याचकः, वर्नायकः, याचनकः, अर्थी, वनीपकः, भिक्षुकः, भिक्षाकरः
noun
यः याच्ञां करोति।
"याचकः रिक्तहस्तेन प्रत्यागतः।"
Synonyms:
भृत्यः, अनुचरः, परिचरः, परिचारकः, प्रेष्यः, किङ्करः, चेटकः, चेटः, किभ्करः, दासः, दाशः, भृतकः, कर्मकरः, कर्मकारी, परिजमः, वेतनजीवी, सेवोपजीवी, सेवाजीवी, भृतिभुक्, भृतिजीवी, अनुजीवी, वियोज्यः, प्रैष्यः, भरणीयः, वैतानिकः, शुश्रूषकः, चेडः, चेडकः, पार्श्विकः, पार्श्वानुचरः, सैरिन्ध्रः, अर्थी, भुजिष्यः, दासेरः, दासेयः, गोप्यः, गोपकः, सेवकः
noun
यः सेवते।
"मम भृत्यः गृहं गतः।"
शब्दकल्पद्रुमः
Sanskrit
अर्थी, [न्] त्रि, याचकः सहायः सेवकः ।विवादी इति विश्वः
धनी अर्थो विद्यते-ऽस्येति इन्