अर्थापत्ति (arthApatti)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishSpoken Sanskrit
English अर्थापत्ति arthApatti disjunctive hypothetical syllogism
अर्थापत्ति arthApatti inference from circumstances
अर्थापत्ति arthApatti disjunctive hypothetical syllogism
अर्थापत्ति arthApatti disjunctive hypothetical syllogism
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishMonier Williams Cologne
EnglishApte Hindi
Hindiअर्थापत्तिः
अर्थः-आपत्तिः -
"परिस्थितियों के आधार पर अनुमान लगाना, अनुमानित वस्तु, फलितार्थ"
अर्थापत्तिः
अर्थः-आपत्तिः -
एक अलंकार
Shabdartha Kaustubha
Kannadaअर्थापत्ति
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಒಂದು ಅಂಶದಿಂದ ಮತ್ತೊಂದು ಅಂಶವನ್ನು ಕಲ್ಪಿಸುವುದು /ಉಪಪಾದ್ಯವಾದ ಅರ್ಥದಿಂದ ಅದರ ಉಪಪಾದಕ ಜ್ಞಾನವುಂಟಾಗುವಿಕೆ
अर्थापत्ति
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಒಂದು ಅರ್ಥಾಲಂಕಾರ
प्रयोगाः - > "कौमुत्येनार्थसंसिद्धिः काव्यार्थापत्तिरिष्यते । स जितस्त्वन्मुखेनेन्दुः का वार्ता सरसीरुहाम्"
L R Vaidya
EnglisharTa-Apatti {% f. %} 1. one of the five processes of inference of the Mīmānsakas
it is an inference by which any apparent inconsistency is explained away, e.g. पीनो देवदत्तो दिवा न भुंक्ते (where the inference of रात्रिभोजन explains the inconsistency)
2. (according to some writers on rhetoric) a figure of speech in which a relevant statement leads to an inference unconnected with the context or vice versa हारोऽयं हरिणाक्षीणां लुठति स्तनमण्डले । सक्तानामप्यववस्थेयं के वयं स्मरकिंकराः ॥ Am.S.100.
वाचस्पत्यम्
Sanskritअर्थापत्ति स्त्री अर्थस्य अनुक्तार्थस्य आपत्तिः सिद्धिः । शब्दे-नानुपस्थापितार्थस्यसिद्धिरूपे मीमांसकोक्ते १ प्रमितिभेदे ।यथा पीनोदेवदत्तोदिवा न भुङ्ङ्क्ते इत्यादौ पीनत्वविशिष्टस्यदेवदत्तस्य रात्रिभोजित्वरूपार्थस्य शब्दानुक्तस्यापि सिद्धिः ।अर्थस्यापत्तिर्यतः । २ तत्साधने च यथोक्तं वे० प० ।“तत्रोपपाद्यज्ञानेनोपपादककल्पनमर्थापत्तिः । तत्रोपपाद्य-ज्ञानं करणम् उपपादकज्ञानं फलम् । येन विना यदनु-पपन्नं तत्तत्रोपपाद्यम् यस्याभावे यस्यानुपपत्तिः तत्त-त्रोपपादकं यथा रात्रिभोजनेन विना दिवाअभुञ्जानस्यपीनत्वमनुपपन्नमिति तादृशं पीनत्वमुपपाद्यं यथा वारात्रिभोजनस्याभावे तादृशपीनत्वस्यानुपपत्तिरिति रात्रि-भोजनमुपपादकं रात्रिभोजनकल्पनारूपायां प्रमितौ, अर्थस्यापत्तिः कल्पनेति षष्ठीसमासेनार्थापत्तिशब्दोवत्तंते ।कल्पनाकरणेपीनत्वादिज्ञाने तु अर्थ स्यापत्तिः कल्पनायस्मादिति वहुब्रीहिसमासेन वर्त्तते इति फलकरणयोरुभयोस्तत्प्रयोगः । नचेयमर्थात्तिरनुमानेऽन्तर्भवितुमर्हतिअन्वयव्याप्त्यज्ञानेनान्वयिष्वनन्तर्भावात् । व्यतिरेकिणश्चानु-मापकत्वं प्रागेव निरस्तम् अतएवार्थापत्तिस्थलेऽनुमीनोमीतिनानुव्यवसायः किन्त्वनेनेदं कल्पयामीति” । “अद्वैतागम-नासीरे साधुसा धुन्वती परान् । सेवामेवार्ज्जयत्यर्था-पत्तिपत्तिपरम्परा” ख० खा० । सांख्यादिभिश्चनेयं प्रमाणा-न्तरमपि तु अनुमानेऽन्तर्भवतीत्युक्तम् यथा “एवमर्थापत्तिरपिन प्रमाणान्तरं तथाहि जीवतश्चैत्रस्य गृहाभावदर्शनेन बहि-र्भावस्यादृष्टस्य कल्पनमर्थापत्तिरभिमता वृद्धानां साप्य-नुमानमेव । यदा खलु व्यापकः सन्नेकत्र नास्ति तदान्य-त्रास्ति, यदा व्यापकएकत्रास्ति तदान्यत्र नास्तीति सुकरःस्वशरीरे एव व्याप्तिग्रहः । तथाच सति गृहाभावदर्शनेनलिङ्गेन बहिर्भावदर्शनमनुमानमेव । न च चैत्रस्य क्वचि-त्सत्त्वेन गृहाभावः शक्योऽपह्नोतुं येनासिद्धोगृहाभावोबहिर्भावे न हेतुः स्यात् । न च गृहाभावेन वा सत्त्वम-पह्नूयते येन सत्त्वमेवानुपपद्यमानमात्मनः सत्तां बहिरव-स्थापयेत् तथाहि चैत्रस्य गृहासत्त्वेन सत्त्वमात्रंवा विरुध्यते, गृहसत्त्वं वा? न तावद्यत्र क्वचनसत्त्वस्यास्ति विरोधो गृहासत्त्वेन, भिन्नविषयत्वात् ।देशसामान्येन गृहविशेषाक्षेपोऽपि पाक्षिक इति समान-विषयकतया विरोघ इति चेन्न प्रमाणनिश्चितस्य गृहेऽ-सत्त्वस्य पाक्षिकतया सांशयिकेन गृहसत्त्वेन प्रतिक्षेपा-तोगात् । नापि प्रमाणनिश्चितोगृहाभावः पाक्षिकमस्यगृहसत्त्वं प्रतिक्षिपन् सत्त्वमात्रमपि प्रतिक्षेप्तुं सांश-यिकत्वं वापनेतूमर्हतीति युक्तं गृहावच्छिन्ने न चैत्राभावेनगृहसत्त्वं विरुद्वत्वात् प्रतिक्षिप्यते न तु सत्त्वमात्रं तस्यतत्रौदासीन्यात् । तस्मात् गृहाभावेन लिङ्गेनमती बहिर्भावोऽनुमीवत इति युक्तम् । एतेन विरु-द्धयोः प्रमाणयोर्विषयव्यवस्थया अविरोधापादनमर्थापत्ते-र्विषयैति परास्तम् अवच्छिन्नानवच्छिन्नयोर्विरोधाभावात् ।उदाहरणान्तराणि चार्थापत्ते रेवमेवानुमानेऽन्तर्भावनीया-नीति” सां कौ० । व्याख्यातञ्चैतदस्माभिस्तट्टीकायां यथा“व्यापकस्य देशविशेषेऽस्थितावपि देशान्तरे सत्त्वमवगम्यतेइत्याह व्यापकः सन्नित्यादि । सन् सत्त्वाश्रयः । व्यापकःसत्त्वव्यापकः, तथा च । सन् चैत्रो वहिरस्ति गृहेऽस्थि-तत्वात्स्वएरीरवदित्यनुमानादेवार्थापत्ति--विषय--सिद्धिरितिभावः । सत्त्वाश्रयस्य सतः पक्षीकरणात् सत्त्वासत्त्व-योश्व विरोधितया सत्त्वप्रतिरुद्धः कथं गृहेऽसत्त्वरूपोहितुस्तिष्ठेत् तथाच स्वरूपासिद्धहेतुना कथं बहिःसत्त्व-रूपसाध्यसिद्धिरिति आशङ्क्य समाधत्ते न च चैत्रस्ये-त्यादिना । गृहाभावः गृहासत्त्वम् बहिर्भावः बहिःसत्त्वम् ।ननु गृहेऽसत्त्ववतः कथं सत्त्वाश्रयता सत्त्वासत्त्व-योर्विरोधित्वात्तथा चाश्नयासिद्धिरित्याशङ्क्य समाधत्ते नच मृहाभावेनैति गृहासत्त्वेमेत्यर्थः । गृहासत्त्वस्य गृह-सत्त्वं प्रत्येव विरोधिता न तु सत्त्वसामान्यं प्रतीति समर्थ-यितुं विकल्पयति तथाहि चैत्रस्थेति । ननु सत्त्वमाश्रय-मामान्यमाक्षिपत् देशमामान्यमेवाक्षिपति देशसामान्यमाक्षि-पता च तेन तन्मध्यवर्त्तिनोगृहरूपदेशस्यापि समाक्षेपात्मृहस्यापि पाक्षिकसत्त्वलाभेन तेन सह गृहासत्त्वस्य विरो-घित्वात् पुनः स्वरूपासिद्धिरित्याशङ्कते देशसामान्येनेतिआक्षिप्यमाणेनेत्यादिस्तघाच सामान्यदेशाक्षेपेणैवविशेषदेश-स्याप्याक्षेपैति भावः । परिहरिति नेति । पाक्षिकतयापक्षे प्राप्ततया । सांशयिकेन संशयमापन्नेन । “सामान्यविषयंसत्तावाक्यं “गृहंविषयं न वेति” संशयमात्रलब्धेन-गृहसत्त्वेन प्रतिक्षेपायोगात् तस्थ दुर्बलतया प्रतिबन्धक-त्वानौचित्यात् । प्रमाणनिश्चितस्य प्रात्यक्षिकस्य गृहास-त्त्वस्य गृहसत्त्वं प्रत्येव प्रतिबन्धकत्वं न तु सत्त्वसामान्यंप्रतीति व्यवस्थापयन्नाह नापि प्रमाणेति । अस्य चैत्रस्य ।प्रतिक्षिपन् प्रतिरुन्घन् । प्रतिक्षेप्तुं प्रतिरोद्धुमर्हतीत्य-ग्रेणान्वयः । सांशयिकत्वं संशयमापन्नत्वम् । एतस्यच सत्त्वमात्रस्येत्यादिः । अपनेतुमपवारयितुम् । विषय-विशेषे एव विरोधित्वमित्युपसंहरति युक्तमित्यादिनाएतावता प्रबन्धेन व्यवस्थापिवमर्थं निगमयन्नाह तस्मा-दिति । गृहासत्त्वप्रमाणं प्रत्यक्षं, सत्त्वसामान्यप्रमाणमनु-मानमेतयोर्विषयविशेषे व्यवस्थापनेनाविरोधापादनम् समा-वेशनमित्येवार्थापत्तेः फलं तत् निरस्यति एतेनेति । वक्ष्य-माणहेतुनेत्यर्थः परास्तमित्यग्रेणास्यान्वयः । विरोधा-भावे हेतुं वदन् निरसनहेतुं द्योतयति अवच्छिन्नेत्यादिगृहावच्छिन्नसत्त्वं प्रत्यक्षविषयः, गृहानवच्छिन्नसत्त्वमनु-मानविषय इत्येकविषयत्वाभावेन--विरोधाभावात् विरो-धस्यैब तत्रासद्भावात् अर्थापत्त्या किं समाधास्यते इतिभावः” । ३ अर्थालङ्कारभेदे “दण्डापूपिकयान्यार्थागमोऽर्था-पत्तिरिष्यते” सा० द० । “मूषिकेण दण्डो भक्षित”इत्यनेन तत्सहचरितमपूपभक्षणमर्थादायातं भवति इत्येषन्यायो दण्डापूपिका । अत्र च क्वचित् प्राकरणिका-दर्थादप्राकरणिकस्यार्थस्यापतनं क्वचिदप्राकरणिकार्थात्प्राकरणिकार्थस्येति द्वौ भेदौ । क्रमेणोदाहरणे ।“हारोऽयं हरिणाक्षीणां लुठति स्तनमण्डले । मुक्तानामप्यव-स्थेयं के वयं स्मरकिङ्कराः” । विललाप सवाष्पगद्गदं सहजा-मप्यवहाय धीरताम् । अभितप्तमयोऽपि मार्द्दवं भजते कैवकथा शरीरिणाम्” ॥
“यदकीर्त्तितमर्थादापद्यते सार्था-पत्तिः” इति सुश्रुतोक्ते ४ तन्त्रयुक्तिभेदे च ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
