| YouTube Channel

अर्थसिद्धः (arthasiddhaH)

 
E Bharati Sampat
Sanskrit
(वि) अर्थतः योग्यान्वयवशात् सिद्धः। १.तात्पर्यविधया सिद्धः अपदार्थः। २.अर्थः प्रयोजनं धनं वा अस्य प्रप्तप्रयोजनः। ३.प्रप्तधनः।म्
(वि) अर्थात् अर्थान्वयविशेषात् सिद्धः १. शब्दादिना अबोधिते सत्यपि अन्वयबललभ्यः पदार्थः * "घटमानय" इति वाक्ये घटस्य छिद्रेतरत्वम् अन्वयबललभ्यम् तत्र शब्दशक्त्यादेः अपेक्षा नास्ति तथा शाब्दबोधे योग्यताज्ञानस्य कारणेन (परस्परसम्बन्धे बाधाभावः योग्यता) छिद्रेतरघट एव जलाहरणप्रयोजकत्वाद्, घटशब्देन छिद्रेतरघटः इति सङ्केतग्रहः भवति २. सिद्धप्रयोजनः (यः प्रयोजनं प्राप्तवान् सः) ३. सिद्धधनः (यः धनं प्राप्तवान् सः)।