| YouTube Channel

अर्थसमाजः (arthasamAjaH)

 
E Bharati Sampat
Sanskrit
(पु) अर्थानां धनानां कारणानां वा समाजः समूहः १.धनराशिः। २.बहुविधार्थसमूहः, अनेकार्थसमुदायः। ३.कारणसमूहः। ‘अर्थसमाजग्रस्तत्वात् नीलघटत्वादिकं कस्यचित् कारणतावच्छेदकम्’ गदा०।‘नीलघटत्वम्’ इत्यत्र घटत्वं दण्डचक्रादेः कारणस्य कार्यतावच्छेदकम् नीलत्वं तु नीलकपालद्वयोः भिन्नभिन्नकारणस्यैव तत्तत्कार्यतावच्छेदकम् अत्र नीलघटत्वं कस्यापि एकस्य कारणस्य कार्यतावच्छेदकम् नीलघटत्वस्य नानाकारणस्यैव कार्यतावच्छेदकत्वात्, नीलघटत्वस्य अर्थसमाजग्रस्तत्वम् उच्यते
(पुं) अर्थानां कारणानां वा समाजः समूहः १. नैकेषाम् अर्थानां समूहः २. धनराशिः ३. कारणसमूहः * "नीलघतत्वम्" इत्यत्र घतत्वं दण्डचक्रादेः कारणस्य, कार्यतावच्छेदकम् नीलत्वं तु नीलकपालद्वयोः भिन्नभिन्नकारणस्यैव तत्तत्कार्यतावच्छेदकम् अत्र नीलघटत्वं कस्यापि एकस्य कारणस्य कार्यतावच्छेदकम् नीलघटत्वस्य नाना कारणस्यैव कार्यतावच्छेदकत्वात्, नीलघटत्वस्य अर्थसमाजग्रस्तत्वम् उच्यते