| YouTube Channel

अर्थशास्त्रं (arthazAstraM)

 
शब्दकल्पद्रुमः
Sanskrit
अर्थशास्त्रं,
क्ली,
(अर्थस्य भूमिधनादेः प्रापकं शास्त्रं, षष्ठीतत्पुरुषः ।) चाणक्यादिप्रणितं नीतिशास्त्रं ।तत्पर्य्यायः दण्डनीतिः इत्यमरः
यथा, --“वृहस्पतिप्रभृतिभिः प्रणीतञ्चार्थशास्त्रकं ।तत्रैव दण्डनीतिः स्यादत्र ज्ञेयौ नयानयौ”
इति शब्दरत्नावली
अष्टादशविद्यान्तर्गतविद्या-विशेषः यथा विष्णुपुराणं ।“अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।धर्म्मशास्त्रं पुराणञ्च विद्या ह्येताश्चतुर्दश
आयुर्वेदो धनुर्वेदो गान्धर्ब्बश्चेति ते त्रयः ।अर्थशास्त्रं चतुर्थञ्च विद्या ह्यष्टादशैव ताः”
इति प्रायश्चित्ततत्त्वं
*
धर्म्मशास्त्रेणार्थ-शास्त्रस्य बाध्यत्वं यथा
“स्मृत्यर्थेन विरोधे हि अर्थशास्त्रस्य बाधनं ।परस्परविरोधे तु न्याययुक्तं प्रमाणवत्”
अर्थशास्त्रस्य मन्वादिप्रणीतराजनीत्यादिविषयस्य यदाह, --“अनागमन्तु यो भुङ्क्ते बहून्यब्दशतान्यपि ।चौरदण्डेन तं पापं दण्डयेत् पृथिवीपतिः
इत्यनयोर्धर्म्मशास्त्रार्थशास्त्रयोर्विप्रतिपत्तौ धर्म्मशास्त्रेण दण्डविधायकमर्थशास्त्रं बाध्यते तत-श्चार्थशास्त्रस्य त्रिपुरुषीयेतरपरत्वेन सङ्कोचः” ।इति मलमासतत्त्वं