| YouTube Channel

अर्थव्ययज्ञः (arthavyayajJaH)

 
E Bharati Sampat
Sanskrit
(वि) अर्थस्य धनस्य व्ययं तत्प्रकारं जानाति १. धनव्ययस्य विशेषाभिज्ञः
(वि) धनव्ययप्रकारवित्, देशकालपात्रापात्रविवेकेन धनव्ययकारी, सुकलः। ‘अर्थव्ययज्ञः सुकलः’ हैमः।
शब्दकल्पद्रुमः
Sanskrit
अर्थव्ययज्ञः, त्रि, (अर्थस्य व्ययं तत्प्रकारं जानाति, ज्ञा + ।) धनव्ययप्रकारवित् (किं धनं, कथं, कुत्र, कियत्, कस्मै वा व्ययितव्यमिति विशेषा-भिज्ञः ।) तत्पर्य्यायः सुकुलः इति हेमचन्द्रः