| YouTube Channel

अर्थवान् (arthavAn)

 
Hindi
Hindi
पैसे के साथ
E Bharati Sampat
Sanskrit
(वि) (अर्थवत्) अर्थः अस्य अस्ति अर्थ+मतुप् ‘तदस्यास्ति० मतुप्’ ५.२.९४। १.अर्थगर्भितः, सार्थकः। ‘अर्थवान् खलु मे राजशब्दः’ शाकु०५.१५.१। २.धनवान्, धनिकः। ‘तेनार्थवान् लोभपराङ्मुखेन’ रघुः१४.२३। ३.प्रयोजनयुक्तः, सफलः। (स्त्री) अर्थवती अर्थवत्+ङीप् ‘उगितश्च’ ४.१.६। ‘करोति योऽशेषजनातिरिक्तां सम्भावनामर्थवतीं क्रियाभिः’ किरा०३.५१। (अ) अर्थवत् अर्थ+वतिः। ‘तेन तुल्यं क्रिया चेद्वतिः’ ५.१.११५। ४.अर्थानुसारम् ५.कार्यानुगुणम्
(वि) (अर्थवत्) अर्थः अस्य अस्तीति अर्थ + मतुप् ‘तदस्यास्त्यस्मिन्निति मतुप्’ (५.२.९४) १. धनवान् !) "तेनार्थवान् लोभपराङ्मुखेन तेन घ्नता विघ्नभयं क्रियावान्" रघु १४.१३ २. अर्थेन सहितः, अर्थगर्भितः अर्थवान् खलु मे राजशब्दः’ शाकु० ३. प्रयोजनसहितः, फलसहितः (स्त्री) ङीप्, अर्थवती ४. अर्थवत् + ङीप् ‘उगितश्च’ (४.१.६) ‘करोति योऽशेष जनातिरिक्तां सम्भावनामर्थवतीं क्रिमाभिः’ किरा० ३.५१ (अव्ययं) अर्थवत् अर्थ + वतिः ‘तेन तुल्यं क्रिया चेद्वतिः’ (५.१.११५) अर्थानुसारम् ५. कार्यासुसारम्
Wordnet
Sanskrit
Synonyms:
धनिकः, धनाढ्यः, धनी, धनवान्, सधनः, लक्ष्मीवान्, श्रीमान्, धनेश्वरः, लक्ष्मीशः, इभ्यः, सश्रीकः, कोषवान्, सम्पत्तिमान्, समृद्धः, महाधनः, बहुधनः, वित्तवान्, वसुमान्, अर्थवान्, अर्थान्वितः, सार्थः, धनसम्पन्नः, धनसमृद्धः, धनविपुलः, खदिरः
adjective
यः धनेन सम्पन्नः।
"धनाढ्येन परोपकाराय फलदायिनः वृक्षस्य इव भाव्यम्।"
शब्दकल्पद्रुमः
Sanskrit
अर्थवान्, [त्]
पुं,
(अर्थोऽस्त्यस्य, अर्थ + मतुप् +मस्य वः ।) पुरुषः इति राजनिर्घण्टः
अर्थवि-शिष्टे त्रि
(ऐश्वर्य्यशाली “तेनार्थवान् लोभपरा-ङ्मुखेन” इति रघुवंशे अभिधेययुक्तः सार्थकः ।“करोति यः सर्व्वजनातिरिक्तांसम्भावनामर्थवतीं क्रियाभिः” ।इति किरातार्जुनीये “अर्थवान् खलु मे राज-शब्दः” इति शाकुन्तले ।)