| YouTube Channel

अर्थवादः (arthavAdaH)

 
Apte Hindi
Hindi
अर्थवादः
पुं*
अर्थः-वादः -
किसी उद्देश्य की घोषणा
अर्थवादः
पुं*
अर्थः-वादः -
"निश्चयात्मक घोषणा, घोषणाविषयक प्रकथन"
अर्थवादः
पुं*
अर्थः-वादः -
"प्रशंसा, स्तुति"
E Bharati Sampat
Sanskrit
(पुं) अर्थस्य लक्षणया स्तुत्यर्थस्य निन्दार्थस्य वा वादः। १.प्रशंसावचनम्, स्तुतिः। २.निन्दावचनम् ‘श्लाघा प्रशंसाऽर्थवादः’ हैमः। त्रिविधः। ‘विरोधे गुणवादः स्यादनुवादोऽवधारिते भूतार्थवादस्तद्धानावर्थवादस्त्रिधा मतः’ भट्टः। विशेष्यविशेषणयोः सामान्याधिकरण्येन अन्वयस्य विरोधे बाधे गुणवादः। यथा ‘यजमानः स्रस्तरः’ स्रस्तरः कुशमुष्टिः। तस्य यजमाने अभेदान्वयबाधात् यजमानस्य कुशमुष्टिधारणरूपः अर्थवादः। अवधारितः प्रमाणान्तरसिद्धः अर्थः अनुवादः। यथा ‘नान्तरिक्षे अग्निश्चेतव्यः’ ‘अग्निर्हिमस्य भेषजम्’ अन्तरिक्षे अग्निचयनस्य असम्भवेन तदभावस्य अग्नेः हिमनाशकत्वस्य लौकिकप्रमाणसिद्धत्वात् अनुवादः। तद्धानौ तयोः विरोधावधारणयोः अभावे भूतार्थवादः। यथा ‘इन्द्रो वृत्रहन्’ ३.तात्पर्यनिर्णयहेतुः, ग्रन्थतात्पर्यनिर्णायकः लिङ्गभेदः। ‘उपक्रमोपसंहारावभ्यासोऽपूर्वताफलम् अर्थवादोपपत्ती हेतुस्तात्पर्यनिर्णये’ वे०सा०।
वैजयन्तीकोषः
Sanskrit
Word: अर्थवादः
Root: अर्थवाद
Gender: पुं
Number: all
अर्थः
Meaning(s):
Speaking for gain
Shloka(s):
2|4|37|1 अर्थवादः परार्थोक्तिः प्रश्नः पर्यनुयोगवत्। (अन्तरिक्षकाण्डः/शब्दाध्यायः)
Synonym(s):
2|4|37|1 अर्थवादः (अर्थवाद) (पुं) Speaking for gain
Related word(s):
शब्दकल्पद्रुमः
Sanskrit
अर्थवादः,
पुं,
(अर्थस्य लक्षणया स्तुत्यर्थस्य निन्दा-र्थस्य वा वादः, वद् + करणे घञ् ।) स्तुतिः ।प्रशंसा इति हेमचन्द्रः
तु त्रिविधः गुण-वादः अनुवादः भूतार्थवादः यथा, --“विरोधे गुणवादः स्यादनुवादोऽवधारिते ।भूतार्थवादस्तद्धानावर्थवादस्त्रिधा मतः”
इति भट्टः
तत्त्वसम्वोधिनीमते सप्तविधः स्तुत्य-र्थवादः फलार्थवादः सिद्धार्थवादः नि-न्दार्थवादः परकृतिः पुराकल्पः मन्त्रः ।एषामुदाहरणानि श्रुत्युक्तत्वात् लिखितानि
विध्यसमभिव्याहृतवाक्यं यथा “अर्थवादश्चविध्यसमभिव्याहृतवाक्यरूपः” सोऽपि त्रिविधः ।गुणवादानुवादभूतार्थवादभेदात् यथा --“विरोधे गुणवादः स्यादनुवादोऽवधारिते ।भूतार्थवादस्तद्धानावर्थवादस्त्रिधा मतः”
इति
अयमर्थः विरोधे विशेष्यविशेषणयोःसामानाधिकरण्येनान्वयविरोधे गुणवादः अङ्ग-कथनरूपत्वात् यथा “यजमान स्रस्तरः” इति ।अत्र स्रस्तरः कुशमुष्टिः तस्य यजमानेऽभेदान्वय-बाधात् यजमानस्य कुशमुष्टिधारणरूपार्थवाद-रूपत्वात् गुणवादः अवधारिते प्रमाणान्तर-सिद्धेऽर्थे यो वादः यथा नान्तरीक्षेऽग्निश्चेतव्यःअग्निंर्हिमस्य भेषजं इत्यादि अन्तरीक्षेऽग्नि-चयनस्यासम्भवेन तदभावस्य अग्नेर्हिमनाशक-त्वस्य लौकिकप्रमाणसिद्धत्वात् अनुवादः ।तद्धानौ तयोर्विरोधावधारनयोरभावे भूतार्थ-वादः यथा इन्द्रो वृत्रहन्नित्यादि सोऽपिद्विविधः स्तुत्यर्थवादो निन्दार्थवादश्च यथा, --“सन्ध्यामुपासते ये च” इत्यादि स्तुत्यर्थवादः ।“स्त्रीतैलमांससंभोगी पर्ब्बस्वेतेषुवै पुमान्
विण्मूत्रभोजनं नाम प्रयाति नरकं मृतः” ।इत्यादि निन्दार्थवादः इति श्राद्धविवेकटीकायांश्रीकृष्णतर्कालङ्कारः
*
“प्रकरणप्रतिपाद्यस्य तत्र तत्र प्रशंसनं” ।इति वेदान्तसारः
तद्विवरणं यथा अथार्थ-वादाधिकरणं तत्रार्थवादाश्च बहुषु श्रूयन्ते तेकिं प्रमाणं वेति संशये पूर्व्वपक्षसूत्रं आम्ना-यस्य प्रवर्त्तकत्वं तदर्थमेव तदवतारादिति अ-स्यार्थः आम्नायस्य वेदस्य प्रवर्त्तकत्वं विधेये इतिशेषः तदर्थं वेदाभिधानात् तच्च प्रवर्त्तकत्वंकार्य्यताज्ञानद्वारैव तद्विना प्रवृत्त्यभावात् अतःसिद्धार्थकानां स्तुत्यर्थवादानां कार्य्यतावाच-कपदाभावात् कार्य्यताधीजनकत्वं अतो-ऽप्रामाण्यमेव अतस्तेषामर्थवादानां प्रवर्त्तक-त्वार्थमवश्यं विधिकल्पनं कॢप्तविशेषणत्वं वायुक्तं अतएव सिद्धान्तसूत्रं विधिना त्वेकवाक्य-त्वात् स्तुत्यर्थेन विधीनां स्युरिति अस्यार्थः ।अर्थवादानां स्तुतिपरत्वेन विधिना सह एक-वाक्यत्वात् ते अर्थवादाः प्रमाणानि स्युः तथा चविधेयप्रवृत्तावेव तेषां तात्पर्य्यं तत्रैव प्रामाण्यंयत्परशब्दः शब्दार्थ इति सिद्धान्तात् स्वार्थेस्तुत्यादौ तत्र तात्पर्य्यामावात् तर्हि यन्न टुःखेनसम्भिन्नमित्यादेः स्वत्न्त्रार्थवादानां का गतिरित्य-त्राह भूतार्थानां क्रियार्थेन समाम्नायः अस्यार्थः ।भूतार्थानां सिद्धार्थानां क्रियार्थेन कार्य्यबोधकेनविधिना इति यावत् समाम्नायः पाठः कार्य्य-इति शेषः ततश्च विधिवाक्याकाङ्क्षापूरकत्वेनकार्य्यान्वितबोधकतया तेषां प्रामाण्यं यथा ।लिखिष्यमाणयूपाहवनीयवाक्यानां यूपाहवनीय-परिचयाय कार्य्यान्वितबोधकत्वेन स्वार्यबोधकत्वेप्रामाण्यं तथा स्वर्गकामो यजेतेत्यत्र स्वर्गरूप-परिचयाय स्वर्गबोधकत्वेन ।“यन्न दुःखेन सम्भिन्नं ग्रस्तमनन्तरं ।अभिलाषोपनीतं यत् तत् सुखं स्वःपदास्पदं”
इत्यादि वाक्यानामपि प्रामाण्यं अन्यथा यूपा-दिपदार्थापरिचये तत्तद्विधिवाक्यानां प्रवृत्तिर्नस्यादतो विधिनैकवाक्यत्वात् सिद्धार्थकानामपिप्रामाण्यं यत्र तु विधिना सह विरोधः तत्रन स्वार्थे प्रामाण्यं यथा “अहरहः सन्ध्यामुपा-सीत” इत्यादौ ।“सन्ध्यामुपासते ये तु नियतं संशितव्रताः ।विधूतपापास्ते यान्ति ब्रह्मलोकमनामयम्”
इत्याद्यर्थवादानां
अतो नित्ये कर्म्मणि फलश्रुति-रर्थवादएव सोऽपि रुच्युत्पादनपरः अतोऽत्रकार्य्यताज्ञानादेरप्रवृत्तिरिति दिक् इति धर्म-दीपिका