| YouTube Channel

अर्णः (arNaH)

 
Apte Hindi
Hindi
अर्णः
पुं*
- ऋ+न
सागवान का वृक्ष
अर्णः
पुं*
- ऋ+न
एक अक्षर।
E Bharati Sampat
Sanskrit
(पुंन) १.अक्षरम्, वर्णः। ‘अस्त्रियौ वर्णमर्णं च’ वैज०। ‘पञ्चार्णो मनुरीरितः’ तन्त्रम् २.शाकवृक्षः(शेगुन) (न) (अर्णस्) ऋच्छति ऋ(गतौ)+असुन्, नुट् ‘उदके नुट्च’ उ०४.११२। ३.जलम्, अम्भः। ‘सर्वतोमुखम् अम्भोऽर्णः’ अमरः। ‘शम्भुकन्धरासवर्णमर्णः कथमन्यथा स्यात्’ माघः१२.६९।
Wordnet
Sanskrit
Synonyms:
अर्णः
noun
दण्डकछन्दोभेदः।
"अयं श्लोकः अर्णस्य उत्तमम् उदाहरणम् अस्ति।"
Synonyms:
ऊर्मिः, वीचिः, ऊर्मिका, कल्लोलः, घृणिः, जलकरङ्कः, जलतरङ्गः, तरङ्गकः, तरलः, अर्गला, अर्णः, अर्णम्, उत्कलिका, हिल्लोलः, विभङ्गः, वारितरङ्गः, लहरी, वली, भङ्गी, भङ्गिः
noun
नदी-समुद्रादिषु जलाशयेषु विशिष्टान्तरेण उत् अव त्वङ्गमाना जलराशिः या अग्रे गम्यमाना दृश्यते।
"समुद्रस्य ऊर्मयः पर्वतम् अभिताड्य व्याघूर्णन्ति।"
Synonyms:
जलम्, वारि, अम्बु, अम्भः, पयः, सलिलम्, सरिलम्, उदकम्, उदम्, जडम्, पयस्, तोयम्, पानीयम्, आपः, नीरम्, वाः, पाथस्, कीलालम्, अन्नम्, अपः, पुष्करम्, अर्णः, पेयम्, सलम्, संवरम्, शंवरम्, संम्बम्, संवत्सरम्, संववरः, क्षीरम्, पायम्, क्षरम्, कमलम्, कोमलम्, पीवा, अमृतम्, जीवनम्, जीवनीयम्, भुवनम्, वनम्, कबन्धम्, कपन्धम्, नारम्, अभ्रपुष्पम्, घृतम्, कं, पीप्पलम्, कुशम्, विषम्, काण्डम्, सवरम्, सरम्, कृपीटम्, चन्द्रोरसम्, सदनम्, कर्वुरम्, व्योम, सम्बः, सरः, इरा, वाजम्, तामरस, कम्बलम्, स्यन्दनम्, सम्बलम्, जलपीथम्, ऋतम्, ऊर्जम्, कोमलम्, सोमम्, अन्धम्, सर्वतोमुखम्, मेघपुष्पम्, घनरसः, वह्निमारकः, दहनारातिः, नीचगम्, कुलीनसम्, कृत्स्नम्, कृपीटम्, पावनम्, शरलकम्, तृषाहम्, क्षोदः, क्षद्मः, नभः, मधुः, पुरीषम्, अक्षरम्, अक्षितम्, अम्ब, अरविन्दानि, सर्णीकम्, सर्पिः, अहिः, सहः, सुक्षेम, सुखम्, सुरा, आयुधानि, आवयाः, इन्दुः, ईम्, ऋतस्ययोनिः, ओजः, कशः, कोमलम्, कोमलम्, क्षत्रम्, क्षपः, गभीरम्, गम्भनम्, गहनम्, जन्म, जलाषम्, जामि, तुग्र्या, तूयम्, तृप्तिः, तेजः, सद्म, स्रोतः, स्वः, स्वधा, स्वर्गाः, स्वृतिकम्, हविः, हेम, धरुणम्, ध्वस्मन्वतु, नाम, पवित्रम्, पाथः, अक्षरम्, पूर्णम्, सतीनम्, सत्, सत्यम्, शवः, शुक्रम्, शुभम्, शम्बरम्, वूसम्, वृवूकम्, व्योमः, भविष्यत्, वपुः, वर्वुरम्, वर्हिः, भूतम्, भेषजम्, महः, महत्, महः, महत्, यशः, यहः, यादुः, योनिः, रयिः, रसः, रहसः, रेतम्
noun
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
"जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ पेयम्।"
Synonyms:
अर्णः, शाकः, शाकाख्यः, करच्छदः, खरपत्रः, अर्जुनोपमः, अलीनः, महापत्रः
noun
वृक्षविशेषः यस्य दारुः अतीव दृढः वर्तते।
"एतद् अर्णस्य आसन्दम् अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
अर्णः,
पुं,
(अर्त्तेः क्तः ।) शाकवृक्षः इति शब्द-चन्द्रिका अक्षरं इत्यागमः
वर्णः यथा, --“वर्णोऽक्षरं रश्मिरर्णः स्वरास्तु कथिता अचः ।व्यञ्जनानि हलो वर्गाः कादयोऽष्टौ प्रकीर्त्तिताः”
इति वीजवर्णाभिधानं
अर्णः, [स्]
क्ली,
(ऋच्छति, गतौ उदके नुट्चेत्यर्त्तेरसुन् तस्य नुट् ।) जलं इत्यमरः
कृदन्तरूपमाला
Sanskrit
1 {@“ऋणु गतौ”@} 2 3 अर्णकः-र्णिका, अर्णकः-र्णिका, 4 अर्णिनिषकः-षिका
अर्णिता-त्री, अर्णयिता-त्री, अर्णिनिषिता-त्री
5 अर्णुवन्-वती, अर्णयन्-न्ती, अर्णिनिषन्-न्ती
अर्णिष्यन्-न्ती-ती, अर्णयिष्यन्-न्ती-ती, अर्णिनिषिष्यन्-न्ती-ती
6 अर्णुवानः, अर्णयमानः, अर्णिनिषमाणः
अर्णिष्यमाणः, अर्णयिष्यमाणः, अर्णिनिषिष्यमाणः
7 ऋत्-ऋतौ-ऋतः
-- -- 8 ऋतम्-ऋतः-ऋतवान्, अर्णितं-तः, अर्णिनिषितः-तवान्
9 ऋणः, अर्णः, अर्णिनिषुः, अर्णिनयिषुः
अर्णितव्यम्, अर्णयितव्यम्, अर्णिनिषितव्यम्
अर्णनीयम्, अर्णनीयम्, अर्णिनिषणीयम्
10 ऋण्यम्, अर्ण्यम्, अर्णिनिष्यम्
ईषदर्णः-दुरर्णः-स्वर्णः
-- -- अर्ण्यमानः, अर्ण्यमाणः, अर्णिनिष्यमाणः
11 अर्णः, 12 स्वर्णम्, अर्णः, अर्णिनिषः
अर्णितुम्, अर्णयितुम्, अर्णिनिषितुम्
ऋतिः, अर्णना, अर्णिनिषा, अर्णिनयिषा
अर्णनम्, अर्णनम्, अर्णिनिषणम्
13 अर्णित्वा-ऋत्वा, अर्णयित्वा, अर्णिनिषित्वा
14 समृत्य, 15 प्रार्त्य, समर्ण्य, समर्णिनिष्य
अर्णम् २, अर्णित्वा २, ऋत्वा २, अर्णम् २, अर्णयित्वा २, अर्णिनिषम्
अर्णिनिषित्वा २।
प्रासङ्गिक्यः
01
=>
(१२३)
02
=>
(८-तनादिः-१४६७। सक। सेट्। उभ।)
03
=>
[[१। ‘पुगन्तलघूपधस्य--’ (७-३-८६) इति गुणः।]]
04
=>
[[२। धातुरयं नकारान्तः, णत्वं तु लाक्षणिकम्। अतः ‘नि’ शब्दस्यैव ‘सन्यङोः’ (६-१-९) इति द्वित्वम्। पूर्वखण्डे रेफात् परत्वात् णत्वम्, उत्तरखण्डे तु नकारस्यैव श्रवणम्। ‘पूर्वत्रासिद्धमद्वित्वे’ (वा। १-१-५८) इति तु
\n\n ‘उभौ साभ्यासस्य’ (८-४-२१) इति लिङ्गात् तस्यानित्यत्वात्। एवं सन्नन्ते सर्वत्र बोध्यम्।]]
05
=>
[[३। ‘तनादिकृञ्भ्य डः’ (३-१-७९) इति उः विकरणप्रत्ययः। विकरणनिमित्तके गुणे, उवङि रूपम्। आत्रेयादयस्तु ‘संज्ञापूर्वको विधिरनित्यः’ इत्यङ्गीकृत्य ‘ऋण्वन्-ण्वती’ इति गुणरहिततया रूपं साधयन्ति। तत्र भाष्यानुग्रहो नास्ति।]]
06
=>
[[आ। ‘तन्वन् मञ्चभुवि सातरसः स्वबन्धून् अक्षण्वतां क्षितिकरो मुदमर्णुवानः। कंसस्तृणीकृतरिपुर्धृणिमान् वताप्तिं मन्वान एकमथ मञ्चमलञ्चकार।।’ धा। का। ३। ४।]]
07
=>
[[४। ‘अनुदात्तोपदेशवनतितनोत्यादीनाम्--’ (६-४-३७) इति अनुनासिकलोपे तुक्।]]
08
=>
[[५। उदित्त्वात् क्त्वायामिड्विकल्पात् ‘यस्य विभाषा’ (७-२-१५) इति निष्ठायां इण्णि- षेधः। अनुनासिकलोपः। एवं क्तिनि, इडभावपक्षे क्त्वाप्रत्यये बोध्यम्।]]
09
=>
[[६। ‘इगुपधज्ञा--’ (३-१-१३५) इति कर्तरि कः।]]
10
=>
[[७। ‘ऋदुपधाच्चाकॢपि--’ (३-१-११०) इति क्यप्।]]
11
=>
[पृष्ठम्०१२५+ २३]
12
=>
[[१। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्। ‘लिङ्गमशिष्यं, लोकाश्रयत्वाल्लिङ्गस्य’ इति न्यायात् नपुंसकलिङ्गत्वम्।]]
13
=>
[[२। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इट्पक्षे ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधाद् गुणः।]]
14
=>
[[३। ‘वा ल्यपि’ (६-४-३८) इत्यत्र व्यवस्थितविभाषाश्रयणात् अनुनासिकलोपो नित्यः। तुक्।]]
15
=>
[[४। ‘उपसर्गादृति धातौ’ (६-१-९१) इति वृद्धिरेकादेशः।]]