| YouTube Channel

अर्ज्ज (arjja)

 
शब्दकल्पद्रुमः
Sanskrit
अर्ज्ज, अर्ज्जने (भ्वादि -- परं -- सकं सेट् ।) इतिकविकल्पद्रुमः
अर्ज्जनमलब्धस्य लाभः यश-श्चार्ज्जति यः स्थिरमिति हलायुधः इतिदुर्गादासः
अर्ज्ज, संस्कारे (चुरादि -- उभं -- सकं -- सेट् ।)इति कविकल्पद्रुमः
अर्ज्जयति किमपिलोकः संस्करोतीत्यर्थः प्रतियत्ने प्राञ्चः अर्ज्जयति धनं परिजनः इति रमानाथः इतिदुर्गादासः
वाचस्पत्यम्
Sanskrit
अर्ज्ज संस्कारे चुरा०
उभ०
सक०
सेट् अर्ज्जयति ते आर्जि-जत् “अनुपघ्नन् पितृद्रव्यं श्रमेण यदुपार्ज्जयेत्”स्मृतिः “परस्वान्यर्जयन्नारीरन्यदीयाः परामृशन्”भट्टिः अर्ज्जयितुम् अर्ज्जयित्वा