| YouTube Channel

अर्जुनः (arjunaH)

 
Hindi
Hindi
अर्जुन
Apte Hindi
Hindi
अर्जुनः
पुं*
- "अर्ज+उनन्, णिलुक् च"
श्वेत रंग
अर्जुनः
पुं*
- "अर्ज+उनन्, णिलुक् च"
मोर
अर्जुनः
पुं*
- "अर्ज+उनन्, णिलुक् च"
गुणकारी छाल वाला अर्जन नामक वृक्ष
अर्जुनः
पुं*
- "अर्ज+उनन्, णिलुक् च"
इन्द्र द्वारा कुन्ती से उत्पन्न तृतीय पांडव
अर्जुनः
पुं*
- "अर्ज+उनन्, णिलुक् च"
कार्तवीर्य
अर्जुनः
पुं*
- "अर्ज+उनन्, णिलुक् च"
अपनी माता का एक मात्र पुत्र
E Bharati Sampat
Sanskrit
(पु) अर्ज(अर्जने)+उनन् ‘अर्जेर्णिलुक्च’ उ०२.५८। १.पार्थः, पाण्डुराजस्य तृतीयपुत्रः इन्द्रात् कुन्तीगर्भे जातः। ‘एवमुक्ता ततः शक्रमाजुहाव यशस्विनी अथाजगाम देवेन्द्रो जनयामास चार्जुनम्’ ‘कार्तवीर्यसमः कुन्ति शिवतुल्यपराक्रमः। एष शक्र इवाजय्यो यशस्ते प्रथयिष्यति’ ‘तथा विष्णुसमः प्रीतिं वर्धयिष्यति तेऽर्जुनः’ महाभा०१प०। शुद्धचरितत्वात् तस्य अर्जुनत्वम् ‘पृथिव्यां चतुरन्तायां वर्णो मे दुर्लभः समः। करोमि कर्म शुद्धं तेन मामर्जुनं विदुः’ महाभा०४प०। २.हैहयाधिपः कार्तवीर्यार्जुनः। ‘एतस्मिन्नेव काले तु कृतवीर्यसुतो बली अर्जुनो नाम तेजस्वी क्षत्रियो हैहयाधिपः’ हरिवं०। ३.ककुभवृक्षःकरवीरः। ४.मयूरः। ५.मातुः एकमात्रकसुतः।‘अर्जुनः ककुभे पार्थे कृतवीर्यमयूरयोः। मातुरेकसुतेऽपि स्यात् पुंल्लिङ्गो धवलेऽन्यवत्’ मेदिनी (न) ६.नेत्रगदः, नेत्ररोगः। ७.तृणम् (वि) ८.धवलः, शुभ्रः। (स्त्री) अर्जुनी अर्जुन+ङीष् ‘अन्यतो ङीष्’ ४.१.४०। ९.गवी, गौः। १०.उषादेवी, अनिरुद्धस्य पत्नी ११.करतोया, बाहुदानदी १२.५.कुट्टिनी, नार्या सह अन्यपतिसंयोगकारिणी(कुटनी) ‘नपुंसकं तृणे नेत्रगदे चात्यर्जुनी गवि उषायां बाहुदानद्यां कुट्टिन्यामपि क्वाचित्’ मेदिनी
Wordnet
Sanskrit
Synonyms:
कार्तवीर्यः, हैहयः, दोःसहस्त्रभृत्, अर्जुनः, कार्तवीर्यार्जुनः
noun
हैहयवंशोत्पन्नः राजा यं परशुरामः जघान।
"कार्तवीर्यः ख्यातः आसीत्।"
Synonyms:
अर्जुनः
noun
एकः उन्नतः वृक्षः यस्य उच्चता प्रायः षष्ठीतः अशीतिः पदं यावत् वा भवति।
"अर्जुनस्य काष्ठम् अतीव उपयुक्तम् तस्य वल्कस्य प्रयोगः ओषधीरूपेण भवति।"
Synonyms:
अर्जुनः, धनञ्जयः, पार्थः, शक्रनन्दनः, गाण्डिवी, मध्यमपाण्डवः, श्वेतवाजी, कपिध्वजः, राधाभेदी, सुभद्रेशः, गुडाकेशः, बृहन्नलः, ऐन्द्रिः, फाल्गुनः, जिष्णुः, किरीटी, श्वेतवाहनः, बीभत्सुः, विजयः, कृष्णः, सव्यसाची, कृष्णः, जिष्णुः
noun
कुन्तेः तृतीयः पुत्रः।
"अर्जुनः महान् धनुर्धरः आसीत्।"
Synonyms:
अर्जुनः
noun
यः पित्रोः एकाकी पुत्रः अस्ति।
"श्यामः मम अर्जुनः अस्ति।"
Tamil
Tamil
அர்ஜுன : : வெண்மை நிறம், மருத மரம், அர்ஜுனன், மயில்.
शब्दकल्पद्रुमः
Sanskrit
अर्जुनः,
पुं,
(अर्ज + उनन् ।) पाण्डुराजस्य तृतीय-पुत्रः नु इन्द्रात् कुन्तीगर्भे जातः तत्पर्य्यायः ।फाल्गुनः जिष्णुः किरीटी श्वेतवाहनः ५बीभत्सुः विजयः कृष्णः सव्यसाची ९धनञ्जयः १० इति विराटपर्ब्ब पार्थः ११शक्रनन्दनः १२ गाण्डीवी १३ मध्यमपाण्डवः १४श्वेतवाजी १५ कपिध्वजः १६ राधाभेदी १७सुभद्रेशः १८ गुडाकेशः १९ वृहन्नलः २० इतिजटाधरः
ऐन्द्रिः २१ इति भूरिप्रयोगः
*
स्वनामख्यातवृक्षविशेषः आजन इति भाषा ।तत्पर्य्यायः नदीसर्जः वीरतरुः इन्द्रद्रुः ४ककुभः इत्यमरः
शम्बरः पार्थः ७चित्रयोधीः धनञ्जयः वैरातङ्कः १० किरीटी११ गाण्डीवी १२ शिवमल्लकः १३ सव्यसाची १४कर्णारिः १५ करवीरकः १६ कौन्तेयः १७ इन्द्र-सूनुः १८ वीरद्रुः १९ कृष्णसारथिः २० पृथाजः२१ फाल्गुनः २२ धन्वी २३ इति राजनिर्घण्टः
तत्पर्य्यायगुणाः ।“ककुभोऽर्जुननामाख्यो नदीसर्जश्च कीर्त्तितः ।इन्द्रद्रुर्वीरवृक्षश्च वीरश्च धवलः स्मृतः
ककुभः शीतलो भग्नक्षतक्षयविषास्रजित् ।मेदोमेहव्रणान् हन्ति तुवरः कफपित्तहृत्”
इति भावप्रकाशः
अस्य गुणाः क्षतभग्नरक्त-स्तम्भनमूत्रकृच्छ्ररोगे पथ्यत्वं इति राजवल्लभः
कषायत्वं उष्णत्वं व्रणशोधनत्वं कफपित्तश्रम-तृष्णार्त्तिनाशित्वं वायुरोगप्रकोपकारित्वञ्च ।इति राजनिर्घण्टः
*
(अस्य व्यवहारोयथा, --“अर्ज्जुनस्य त्वचा सिद्धं क्षीरं दद्याद्धृदामये”
इति वैद्यकचक्रपाणिसंग्रहः
)कार्त्तवीर्य्यार्ज्जुनः माहिष्मती नाम पुरी तस्यराजधान्यासीत्, खलु भुजवीर्य्येण सप्तद्वीपांधरामजयत् योगाद् बाहुसहस्रञ्च लब्धवान् ।“तस्य बाहुसहस्रन्तु युध्यतः किल भारतः ! ।योगात् योगेश्वरस्येव प्रादुर्भवति मायया
तेनेयं पृथिवी सर्व्वा सप्तद्वीपा सपर्ब्बता ।ससमुद्रा सनगरा उग्रेण विधिना जिता
तेन सप्तसु द्वोपेषु सप्तयज्ञशतानि वै ।प्राप्तानि विधिना राज्ञा श्रूयन्ते जनमेजय”
“योऽज्जुनेनार्ज्जनस्तुल्यो द्विबाहुर्ब्बहुबाहुना” ।इति महाभारते ।) मयूरः मातुरेकसुतः इतिमेदिनी
श्वेतवर्णः तद्वति त्रि इत्यमरः
कृदन्तरूपमाला
Sanskrit
1 {@‘अर्ज प्रतियन्ते’@} 2 ‘प्रतियत्नेऽर्जयेदर्जेरर्जतीत्यर्जने पदम्’ इति 3 देवः।
प्रतियत्नः = गुणाधानमिति कौमुदी।
अर्जकः-र्जिका, अर्जिजयिषकः-षिका
अर्जयिता-त्री, अर्जिजयिषिता-त्री
अर्जयन्-न्ती, अर्जिजयिषन्-न्ती, अर्जयिष्यन्-न्ती-ती, अर्जिजयिषिष्यन्-न्ती-ती
अर्जयमानः, अर्जिजयिषमाणः
अर्जयिष्यमाणः, अर्जिजयिषिष्यमाणः
अर्जितम्, तः, अर्जिजयिषितम्-तः-तवान्
अर्जः, अर्जिजयिषुः
अर्जयितव्यम्, अर्जिजयिषितव्यम्
अर्जनीयम्, अर्जिजयिषणीयम्
अर्ज्यम्, अर्जिजयिष्यम्
ईषदर्जः-दुरर्जः-स्वर्जः
अर्ज्यमानः, अर्जिजयिष्यमाणः
अर्जः, अर्जिजयिषः
अर्जयितुम्, अर्जिजयिषितुम्
अर्जना, अर्जिजयिषा
अर्जनम्, अर्जिजयिषणम्
अर्जयित्वा, अर्जिजयिषित्वा
समर्ज्य, समर्जिजयिष्य
अर्जम् २, अर्जयित्वा २, अर्जिजिषम्
अर्जिजयिषित्वा
4 अर्जुनः
5
प्रासङ्गिक्यः
01
=>
(३९)
02
=>
(१०-चुरादिः-१७२६-सक। से। उभ।)
03
=>
(६३)
04
=>
[[१। औणादिकः उनन् प्रत्ययो णिलुक् च। वृक्षः पार्थश्च।]]
05
=>
[पृष्ठम्००३७+ ३५]