| YouTube Channel

अर्ज (arja)

 
शब्दसागरः
English
अर्ज r. 1st cl. (-अर्जति) To earn, to gain or acquire, (commonly used with
उप prefixed.) 10th cl. (अर्जयति)
1. The same, and: 2. To work or
manufacture.
3. To make or prepare. This root and its derivatives
are also read अर्ज्ज, &c. doubling the consonant after र.
Wilson
English
अर्ज r. 1st cl. (अर्जति) To earn, to gain or acquire, (commonly used
with उप prefixed.) 10th cl. (अर्जयति)
1 The same, and:
2 To work or manufacture.
3 To make or prepare. This root and its derivatives are also read अर्ज्ज,
&c. doubling the consonant after र.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
अर्ज्
मूलधातुः:
अर्ज
धात्वर्थः:
अर्जने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
अर्जति
धातुः:
अर्ज्
मूलधातुः:
अर्ज
धात्वर्थः:
प्रतियत्ने
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
अर्जयति-ते
धातुप्रदीपः
Sanskrit
अर्जँ अर्ज
मानकरूपान्तरम् - षर्जँ
षर्ज अर्जने
- अर्जति आनर्ज स्वर्गः ऋजुः (42) अर्जिजिषति सर्जति सिसर्जिषति सिषर्जयिषति ।। 221, 222 ।।
अर्जँ अर्ज प्रतियत्ने
- अर्जयति आर्जिजत् अन्यत्रार्जति 186
शब्दकल्पद्रुमः
Sanskrit
अर्ज्ज, अर्ज्जने (भ्वादि -- परं -- सकं सेट् ।) इतिकविकल्पद्रुमः
अर्ज्जनमलब्धस्य लाभः यश-श्चार्ज्जति यः स्थिरमिति हलायुधः इतिदुर्गादासः
अर्ज्ज, संस्कारे (चुरादि -- उभं -- सकं -- सेट् ।)इति कविकल्पद्रुमः
अर्ज्जयति किमपिलोकः संस्करोतीत्यर्थः प्रतियत्ने प्राञ्चः अर्ज्जयति धनं परिजनः इति रमानाथः इतिदुर्गादासः
वाचस्पत्यम्
Sanskrit
अर्ज प्रतियत्ने भ्वादि०
पर०
सक०
सेट् अर्ज्जति, आर्ज्जीत्आनर्ज अर्जकः अर्जितः अर्जितवान् अर्जित्वा उपार्ज्यअर्जन् “अर्जकोद्व्यंशमाहारेत् दाय० स्मृ० “न तत्पुत्रै-र्भजेत्सार्द्धमकामः स्वयमर्जितम्” मनुः “आनर्जु-र्नृभुजोऽस्त्राणि” भट्टिः
अर्ज्ज संस्कारे चुरा०
उभ०
सक०
सेट् अर्ज्जयति ते आर्जि-जत् “अनुपघ्नन् पितृद्रव्यं श्रमेण यदुपार्ज्जयेत्”स्मृतिः “परस्वान्यर्जयन्नारीरन्यदीयाः परामृशन्”भट्टिः अर्ज्जयितुम् अर्ज्जयित्वा
क्षीरतरङ्गिणी
Sanskrit
अर्जँ अर्ज
मानकरूपान्तरम् - सर्जँ
सर्ज अर्जने
- अर्जति आनर्ज अर्जिजिषति अर्जिदृशिकम्यमि (उ0 128) इत्युः-ऋजुः अर्जेर्णिलुक् (उ0 358 ) इत्युनन्-अर्जुनः अर्जेरृज (दश0 911) इतीषन् ऋजीषम् पिष्टपचनम् सर्जति सर्जिका कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः (उ0 182) सर्जूः 219, 220
अर्जँ अर्ज प्रतियत्ने
- (अर्थविवरणम्) प्रतियत्नः संस्कारः
अर्जयति भ्वादौ अर्ज सर्ज अर्जने (1138) -अर्जति 191
धातुवृत्तिः
Sanskrit
अर्जँ अर्ज
मानकरूपान्तरम् - षर्जँ
षर्ज (अर्थः) अर्जने
( आनर्ज अर्जितेत्यादि अर्जिजिषति अर्जयति आर्जिजत् स्वर्गः ) वार्त्तिककारमते न्यङ्क्वादित्वात् कुत्वम् ( ऋजुः ) "अर्जिदृश्'' इत्यादिना कुप्रत्ययः, ऋजादेशश्च अर्ज प्रयत्न इति चुरादौ ( सर्जति ससर्ज सर्जिता सिसर्जिषति ) "स्तौतिण्योरेव'' इतिनियमान्न षत्वम् ( सासर्ज्यते सासर्क्तीत्यादि सर्जयति अससर्जत् ) 223
अर्जँ अर्ज (अर्थः) प्रतियत्ने
( अर्जयति ) द्रव्यमर्जयतीत्यादिप्रयोगदर्शनादयमर्थान्तरेऽपि 190
कृदन्तरूपमाला
Sanskrit
1 {@‘अर्ज अर्जने’@} 2 पूजार्थक-भौवादिकार्चति 3 वद्रूपाणि सर्वाण्यप्यस्य ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(३८)
02
=>
(१-भ्वादिः-२२४-सक। सेट्। पर।)
03
=>
(३६)
1 {@‘अर्ज प्रतियन्ते’@} 2 ‘प्रतियत्नेऽर्जयेदर्जेरर्जतीत्यर्जने पदम्’ इति 3 देवः।
प्रतियत्नः = गुणाधानमिति कौमुदी।
अर्जकः-र्जिका, अर्जिजयिषकः-षिका
अर्जयिता-त्री, अर्जिजयिषिता-त्री
अर्जयन्-न्ती, अर्जिजयिषन्-न्ती, अर्जयिष्यन्-न्ती-ती, अर्जिजयिषिष्यन्-न्ती-ती
अर्जयमानः, अर्जिजयिषमाणः
अर्जयिष्यमाणः, अर्जिजयिषिष्यमाणः
अर्जितम्, तः, अर्जिजयिषितम्-तः-तवान्
अर्जः, अर्जिजयिषुः
अर्जयितव्यम्, अर्जिजयिषितव्यम्
अर्जनीयम्, अर्जिजयिषणीयम्
अर्ज्यम्, अर्जिजयिष्यम्
ईषदर्जः-दुरर्जः-स्वर्जः
अर्ज्यमानः, अर्जिजयिष्यमाणः
अर्जः, अर्जिजयिषः
अर्जयितुम्, अर्जिजयिषितुम्
अर्जना, अर्जिजयिषा
अर्जनम्, अर्जिजयिषणम्
अर्जयित्वा, अर्जिजयिषित्वा
समर्ज्य, समर्जिजयिष्य
अर्जम् २, अर्जयित्वा २, अर्जिजिषम्
अर्जिजयिषित्वा
4 अर्जुनः
5
प्रासङ्गिक्यः
01
=>
(३९)
02
=>
(१०-चुरादिः-१७२६-सक। से। उभ।)
03
=>
(६३)
04
=>
[[१। औणादिकः उनन् प्रत्ययो णिलुक् च। वृक्षः पार्थश्च।]]
05
=>
[पृष्ठम्००३७+ ३५]