| YouTube Channel

अर्चिष्मान् (arciSmAn)

 
E Bharati Sampat
Sanskrit
(पु) (अर्चिष्मत्) अर्चिः अस्य अस्ति अर्चिस्+मतुप् ‘तदस्यास्ति०मतुप्’ ५.२.९४। १.विष्णुः। ‘अर्चिष्मानर्चितः कुम्भः’ वि०स०। २.सूर्यः। ३.कृष्णवर्त्मा, अग्निः। ‘कृष्णवर्त्माऽर्चिष्मच्छमीगर्भतमोघ्नशुक्राः’ हैमः।(वि) ४.प्रकाशमानः, दीप्तः। ५.देवर्षिभेदः। ‘’ हरिवं०।
Wordnet
Sanskrit
Synonyms:
अग्निः, वैश्वानरः, वीतहोत्रः, अग्निहोत्रः, हुरण्यरेताः, सप्तार्चि, विभावसुः, वृषाकपिः, स्वाहापतिः, स्वाहाप्रयः, स्वाहाभुक्, अग्निदेवः, अग्निदेवता, धनञ्जयः, जातवेदः, कृपीटयोनिः, शोचिष्केशः, उषर्बुधः, बृहद्भानुः, हुतभुक्, हविरशनः, हुताशः, हुताशनः, हविर्भुक्, हव्यवाहनः, हव्याशनः, क्रव्यवाहनः, तनुनपात्, रोहिताश्वः, आशुशुक्षणिः, आश्रयाशः, आशयाशः, आश्रयभुक्, आश्रयध्वंसी, पावकः, पावनः, तेजः, वह्निः, ज्वलनः, अनलः, कृशानुः, वायुसखा, वायुसखः, दहनः, शिखी, शिखावान्, कृष्णवर्त्मा, अरणिः, घासिः, दावः, पचनः, पाचनः, पाचकः, जुहुवान्, वाशिः, अर्चिष्मान्, प्रभाकरः, छिदिरः, शुन्ध्युः, जगनुः, जागृविः, अपाम्पितः, जलपित्तः, अपित्तम्, हिमारातिः, फुत्करः, शुक्रः, आशरः, समिधः, चित्रभानुः, ज्वालाजिह्वा, कपिलः, विभावसुः, तमोनुद्, शुचिः, शुक्रः, दमुनः, दमीनः, अगिरः, हरिः, भुवः
noun
देवताविशेषः-हिन्दुधर्मानुसारम् अग्नेः देवतास्वरूपम्।
"अग्नेः पत्नी स्वाहा।"
Synonyms:
अग्निः, पावकः, पावनः, तेजः, वह्निः, ज्वलनः, अनलः, कृशानुः, वायुसखा, वायुसखः, दहनः, शिखी, शिखावान्, कृष्णवर्त्मा, अरणिः, घासिः, दावः, पचनः, पाचनः, पाचकः, जुहुवान्, वाशिः, अर्चिष्मान्, प्रभाकरः, छिदिरः, शुन्ध्युः, जगनुः, जागृविः, अपाम्पितः, जलपित्तः, अपित्तम्, हिमारातिः, फुत्करः, शुक्रः, आशरः, समिधः, चित्रभानुः, ज्वालाजिह्वा, कपिलः, विभावसुः, तमोनुद्, शुचिः, शुक्रः, दमुनः, दमीनः, अगिरः, हरिः, कविः
noun
तेजःपदार्थविशेषः।
"पर्वते दृश्यमानः धूमः अग्नेः सूचकः।"
शब्दकल्पद्रुमः
Sanskrit
अर्च्चिष्मान्, [त्]
पुं,
(अर्च्चिर्विद्यतेऽस्य, अर्च्चिस् +मतुप् ।) अग्निः इति हेमचन्द्रः
सूर्य्यः अर्च्चिः-शब्दात् अतिशये मतुप्रत्ययः
(त्रि, दीप्तः तेजो-विशिष्टः प्रभावान् ।) (स्वनामख्यातो देवर्षिभेदः ।यदुक्तं, हरिवंशे, “अर्च्चिष्मांस्तम्बरुश्चैव भारिश्च वदतां वरः ।नेतारो देवदेवानामेते हि तपसान्विताः” ।)