| YouTube Channel

अर्च (arca)

 
शब्दसागरः
English
अर्च r. 1st cl. (अर्चति) Also 1st and 10th cls. (अर्चति-ते अर्चयति-ते) To wor-
ship, to honour or treat with respect: with सम् prefixed, to worship.
This root and its derivatives are also read अर्च्च, &c. doubling the con-
sonant after र.
Yates
English
अर्च (ञ) अर्चयति ते 10.
c. Idem.
Wilson
English
अर्च r. 1st cl. (अर्चति) Also 1st and 10th cls. (अर्चति-ते
अर्चयति-ते) To worship, to honour or treat with respect: with सम्
prefixed, to worship. This root and its derivatives are also read अर्च्च, &c.
doubling the consonant after र.
Apte
English
अर्च [arca],
a.
Ved.
Shining
अस्मा एतद् दिव्यर्चेव मासा
Rv.*
6.34.4.
Apte 1890
English
अर्च a. Ved. Shining.
Monier Williams 1872
English
अर्च, अस्, आ, अम्, Ved. shining. See also अर्चा below.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
अर्च्
मूलधातुः:
अर्च
धात्वर्थः:
पूजायाम्
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
अर्चति
धातुः:
अर्च्
मूलधातुः:
अर्च
धात्वर्थः:
पूजायाम्
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
अर्चयति-ते
धातुप्रदीपः
Sanskrit
अर्चँ अर्च पूजायाम्
- अर्चति आनर्च अर्चिशुचि (उण्, 1/27) इत्यादिना इस्-अर्चिः युजादिष्वप्ययं पठ्यते ततस्तु कर्त्त्रभिप्राये क्रियाफले विवक्षिते आत्मनेपदमस्ति परस्मैपदार्थमिह पठ्यते युजादिषु हि कतिपये धातवः कर्त्त्रभिप्राये क्रियाफले आत्मनेपदिनो वक्ष्यन्ते तत्र चेदमेव लिङ्गम् पूर्वे चकारान्ता ह्रस्वोकारयुक्ता इति पृथगस्य निर्द्देशः ।। 201 ।।
अर्चँ अर्च पूजायाम्
- अर्चयति अर्चति युजादिषु ञितां तावत् कर्त्त्रभिप्राये क्रियाफले आत्मनेपदित्वम् केवलानामप्यर्चिकथ्यर्दिशुन्धच्छदिमृषीणां स्वरितेत्त्वं मन्यन्ते तेनाञ्चते इत्यपि भवति अत्र भ्वादावर्च पूजायामिति लिङ्गमुक्तम् अन्यत्रार्चति 253
Wordnet
Sanskrit
Synonyms:
पूज्, अभिपूज्, सम्पूज्, अर्च, उपास्, आराध्, भज्, अब्यर्च्, समर्च्, समभ्यर्च्, सेव्, सभाज्, पूजां कृ, अर्चनां कृ, आराधनां कृ
verb
ईश्वर-प्रसीदनहेतुकः ईश्वर-विषये श्रद्धायाः प्रकटनात्मकः व्यापारः
"मुनयः सदा ईश्वरं पूजयन्ति।"
शब्दकल्पद्रुमः
Sanskrit
अर्च्च, क, पूजे (चुरादि -- सक -- सेट् ।) इतिकविकल्पद्रुमः
अर्च्चयति गोवर्द्धनस्त्विम-मात्मनेपदिनं मत्वा विभ्राजसे मकरकेतनमर्च्च-यन्तीत्यादि स्खलितमित्याह इति दुर्गादासः
अर्च्च, ञ, पूजे (भ्वादि -- सक -- सेट् ।) इति कवि-कल्पद्रुमः
अर्च्चति अर्च्चते इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
अर्च पूजायाम्
उभ०
भ्वादि०
सक०
सेट् अर्चति ते आर्चीत्आर्च्चिष्ट आनर्च--र्चे “पितॄश्चैवाष्टकास्वर्च्चेत्” मनुः ।“एवं हि सर्वभूतानि ब्राह्मणोनित्यमर्चति” मनुः ।“रत्नपुष्पोपहारेण छायामानर्च पादयोः” रघुः“वृन्दिष्ठमार्च्चीद्वसुधाधिपानाम्” “समीहे मर्त्तुमानर्चेतेन वाचाऽखिलं बलम्” “आर्च्चीत् द्विजातीन् पर-मार्थविन्दान्” “प्रानर्च्चुरर्च्यं जगदर्चनीयम्” “विप्रानर्चं-स्तथा स्तुवन्” इति भट्टिः अर्चिः अर्चकः अर्चितःअर्चितवान् अर्चितुम् अर्चित्वा
अर्च पूजायां चुरा०
उभ०
सक०
सेट् अर्चयति ते आर्चि-चत् अर्चयामास “दूरस्थमार्चयेदेनम् मनुः ।“स्वर्गौकसामर्चितमर्चयित्वा” कुमा०
क्षीरतरङ्गिणी
Sanskrit
अर्चँ अर्च पूजायाम्
- अर्चति, आनर्च अर्चितः अर्चा यजयाचरुचप्रवचर्चश्च (7366) इति कुत्वाभावः, आर्च्यः येषां मतेऽत्र ऋचेर् (धा0 623) ग्रहणम्, तत्पक्षे अर्क्यः अर्चिशुचिहुसृपि (उ0 2109) - इतीस्-अर्चिः अर्चत इत्यर्कः चुरादौ (10232) अर्चयति 201
अर्चँ अर्च पूजायाम्
- अर्चयति, अर्चति 255
धातुवृत्तिः
Sanskrit
अर्चँ अर्च (अर्थः) पूजायाम्
( अर्चति आनर्चं अर्चितेत्यादि ) अयं युजादौ स्वरितेत् पठिष्यतितत एवार्चतीति सिद्धे क्रियाफलस्य कर्तृगामित्वे परस्मैपदार्थ इह पाठः अयमात्मनेपदीति शाकटायनः, प्रयोजनं तु तन्मते क्रियाफलस्याकर्तृगामित्वेपि तङ् "यः पूर्णादुदर्चति अविरघ्नीमुदचन्त्वाप' इत्यादिदर्शनात्, अञ्च इत्येकइत्याभरणोक्तं युक्तम् 202
अर्चँ अर्च (अर्थः) पूजायाम्
( अर्चयति ) अर्चतीति भौवादिकेन स्वरितेता ऽर्चिनैव सिद्धे णिज्विकल्पनं कर्तृगामिफले अर्चतीति यथा स्यादिति शाकटायनस्त्वयमात्मनेपदीति तन्मते णिज्विकल्पस्य फलमकर्त्रभिप्रायेऽपि तङ्सिद्धिरिति बोद्धव्यम् 268
कृदन्तरूपमाला
Sanskrit
1 {@“अर्च पूजायाम्”@} 2 ‘पूजायां णौ विभाषाऽर्चेरर्चयत्यर्चतेऽर्चति।
भूवादौ पाठ- सामर्थ्यात् कर्तृगामिफलेऽर्चति।।’ 3 इति देवः।
अर्चकः-र्चिका, अर्चकः-र्चिका, 4 अर्चिचिषकः-षिका
अर्चिता-त्री, अर्चयिता-त्री, अर्चिचिषिता-त्री
अर्चन्-न्ती, अर्चयन्-न्ती, अर्चिचिषन्-न्ती
अर्चिष्यन्-न्ती-ती, अर्चयिष्यन्-न्ती-ती, अर्चिचिषिष्यन्-न्ती-ती
-- अर्चयमानः, अर्चयिष्यमाणः
5 र्क्-अर्चौ-अर्चः
-- -- अर्चितम्- 6 तः- 7 तवान्, अर्चितः, अर्चिचिषितम्-तः-तवान्
अर्चः, अर्चः, अर्चिचिषुः, अर्चिचयिषुः
अर्चितव्यम्, अर्चयितव्यम्, अर्चिचिषितव्यम्
अर्चनीयम्, अर्चनीयम्, अर्चिचिषणीयम्
8 अर्च्यम् 9, अर्च्यम्, अर्चिचिष्यम्
ईषदर्चः-दुरर्चः-स्वर्चः
-- -- अर्च्यमानः, अर्च्यमानः, अर्चिचिष्यमाणः
अर्चः, अर्चः, अर्चिचिषः
अर्चितुम्, अर्चयितुम्, अर्चिचिषितुम्
अर्चा, अर्चना, अर्चिचिषा, अर्चिचयिषा
अर्चनम्, अर्चनम्, अर्चिचिषणम्
अर्चित्वा, अर्चयि 10 त्वा, अर्चिचिषित्वा
11 समर्च्य, समर्च्य, समर्चिचिष्य
अर्चम् २, अर्चित्वा २, अर्चम् २, अर्चयित्वा २, अर्चिचिषम्
अर्चिचिषित्वा
12 अर्क्कः
प्रासङ्गिक्यः
01
=>
(३६)
02
=>
(१-भ्वादिः-२०४-सक। से। पर।)
03
=>
(श्लो-४९।)
04
=>
[[१। ‘न न्द्राः संयोगादयः’ (६-१-३) इति रेफस्य द्वित्वनिषेधः।]]
05
=>
[[१। आ। ‘रात्सस्य’ (८-२-२४) इति निय- मात् चकारस्य लोपो न।]]
06
=>
[[आ। ‘सुरार्चिते म्लेच्छजनैर्दुरासदे श्री- लाञ्छिताङ्गे स्मितपुष्पलाञ्छिते’ धा। का। १-२८।]]
07
=>
[[२। ‘मतिबुद्धिपूजार्थेभ्यश्च’ (३-२-१८८) इति वर्तमाने क्तः। राज्ञामर्चितः ‘क्तस्य वर्तमाने’ (२-३-६७) इति षष्ठी।]]
08
=>
[[३। निष्ठायां सेट्त्वात् ‘चजोः’ -(७-३-५२) इति कुत्वं न।]]
09
=>
[[B। “अथार्ध्यं मधुपर्काद्यमुपनीयाऽऽ- दरादसौ। अर्चयित्वा फलैरर्च्यौ सर्वत्राख्यदनामयम्” भ। का। ६-७१।]]
10
=>
[[B। “अथार्ध्यं मधुपर्काद्यमुपनीयाऽऽ- दरादसौ। अर्चयित्वा फलैरर्च्यौ सर्वत्राख्यदनामयम्” भ। का। ६-७१।]]
11
=>
[पृष्ठम्००३५+ २६]
12
=>
[[१। औणादिकः कः प्रत्ययः। अर्च्यते, अर्चयन्ति वा तं इति व्युत्पत्तिः-- (द। उ। ३-१८) भास्करो पुष्पजा- तिश्च।]]
1 {@‘अर्च पूजायाम्’@} 2 ‘पूजायां णौ विभाषाऽर्चेरर्चयत्यर्चतेऽर्चति।
भूवादौ पाठसामर्थ्यात् कर्तृगामिफलेऽर्चति।।’ 3 इति देवः।
अर्चकः-र्चिका इत्यादिकानां ण्यन्ताण्यन्तसाधारण्येन लिखितत्वात् पूर्वोक्त 4 पूजार्थकार्चतिवद्रूपाणि ज्ञेयानि।
ण्यन्तात् सनि तु अर्चिचयिषकः-षिका, अर्चिचयिष्यम्
अर्चिचयिषिता-त्री, अर्चिचयिष्यमाणः
अर्चिचयिषन्-न्ती, अर्चिचयिषः
अर्चिचयिषिष्यन्-न्ती-ती, अर्चिचयिषितुम्
अर्चिचयिषमाणः, अर्चिचयिषा
अर्चिचयिषिष्यमाणः, अर्चिचयिषणम्
अर्चिचयिषितम्-तः-तवान्, अर्चिचयिषित्वा, समर्चिचयिष्य
अर्चिचयिषुः, अर्चिचयिषम् २, अर्चिचयिषितव्यम्
अर्चिचयिषित्वा २, अर्चिचयिषणीयम्
इमानि रूपाणि--इति विशेषः।
^आ।
‘आधृषाद्वा’ 5 इति णिचो वैकल्पिकत्वम्।
‘शेषात् कर्तरि परस्मैपदम्’ 6 इति णिजभावपक्षे परस्मैपदी।
शाकटायनस्तु अनुदात्तेत्त्वमस्य धातोरङ्गीकृत्यात्मनेपदित्वं ब्रूते।
तत्पक्षे शानचि ‘अर्चमानः’ इति रूपम्।
7
प्रासङ्गिक्यः
01
=>
(३७)
02
=>
(१०-चुरादिः-१८०९। से। उ। ^आ आधृषीयः।)
03
=>
(श्लो। ४९।)
04
=>
(३६)
05
=>
(ग। सू।)
06
=>
(१-३-७८)
07
=>
[पृष्ठम्००३६+ २६]