| YouTube Channel

अर्गलं (argalaM)

 
शब्दकल्पद्रुमः
Sanskrit
अर्गलं,
क्ली,
स्त्री,
(अर्ज + कलच्, कुत्वम् ।) कपाट-बन्धककाष्ठविशेषः इत्यमरः
हुड्का तसलाइत्यादि भाषा ।(“ससम्भ्रमेन्द्रद्रुतपातितार्गलानिमिलिताक्षीव भियामरावती” ।इति काव्यप्रकाशे ।“तां सत्यनाम्नीं दृढतोरणार्गलांग्टहैर्विचित्रैरुपशीभितां शिवां” ।इति रामायणे ।“अथानपोढार्गलमप्यगारं” इति रघुः प्रति-बन्धः प्रत्यवायः अन्तरायः ।“ईप्सितं तदवज्ञानात् विद्धिसार्गलमात्मनः” ।इति रघुवंशे ।)कल्लोले त्रि इति मेदिनी
देवीमाहात्म्यपाठ-स्यादौ पाव्यस्तोत्रविशेषः
यथामार्कण्डेय उवाच ।“ब्रह्मन् केन प्रकारेण दुर्गामाहात्म्यमुत्तमं ।शीघ्रं सिद्ध्यति तत्सर्व्वं कथयस्व महाप्रभो
ब्रह्मोवाच ।अर्गलं कीलकञ्चादौ पठित्वा कवचं पठेत् ।जपेत् सप्तशतीं पश्चात् क्रम एष शिवोदितः
अर्गलं दुरितं हन्ति कीलकं फलदं तथा ।कवचं रक्षते नित्यं चण्डिका त्रितयं दिशेत्
अर्गलं हृदये यस्य चानर्गलवाक् सदा ।कीलकं हृदये यस्य वशकीलितमानसः
कवचं हृदये यस्य वज्रहृदयः खलु ।ब्रह्मणा निर्म्मितं पूर्व्वं विनिश्चित्यापि चेतसा”
इत्यादि तदाद्यश्लोको यथा, --“जय त्वं देवि चामुण्डे जय भूतापहारिणि ! ।जय सर्व्वगते देवि ! कालरात्रि नमोऽस्तु ते”
तस्य शेषश्लोको यथा, --“इदं स्तोत्रं पठित्वा महास्तोत्रं पठेन्नरः ।सप्तशतीं समाराध्य वरमाप्नोति सम्पदं”
इत्यर्गलास्तोत्रं