| YouTube Channel

अर्कः (arkaH)

 
Apte Hindi
Hindi
अर्कः
पुं*
- अर्क्+घञ्-कुत्वम्
"प्रकाशकिरण, बिजली की चमक"
अर्कः
पुं*
- अर्क्+घञ्-कुत्वम्
सूर्य
अर्कः
पुं*
- अर्क्+घञ्-कुत्वम्
अग्नि
अर्कः
पुं*
- अर्क्+घञ्-कुत्वम्
स्फटिक
अर्कः
पुं*
- अर्क्+घञ्-कुत्वम्
ताँबा
अर्कः
पुं*
- अर्क्+घञ्-कुत्वम्
रविवार
अर्कः
पुं*
- अर्क्+घञ्-कुत्वम्
"आक का पौधा, मदार"
अर्कः
पुं*
- अर्क्+घञ्-कुत्वम्
इन्द्र
अर्कः
पुं*
- अर्क्+घञ्-कुत्वम्
आहार
अर्कः
पुं*
- अर्क्+घञ्-कुत्वम्
बारह की संख्या।
अर्कः
पुं*
- "अर्च+घञ्, कुत्वम्"
"सूर्य, सूर्यकान्त मणि"
E Bharati Sampat
Sanskrit
(पु) अर्च्यते अर्च(पूजायम्)+कः। ‘कृदाधारार्चि० कः’ उ०३.४०। १.सूर्यः, भास्करः। २.विष्णुः। ३.मघवा, इन्द्रः। ४.स्फटिकः। ५.ताम्रलोहः। ६.भानुवासरः। ७.अर्कवृक्षः, अर्कपादपः। ८.शुक्लसप्तमी ९.पण्डितः। १०.ज्येष्ठभ्राता ११.क्षीरकाण्डकः। १२.उत्तरफल्गुनीनक्षत्रम् १३.द्वादशसङ्ख्या, १२ १४.कषायः। १५.शुभ्रः। ‘अर्कोऽर्कपर्णे स्फटिके रवौ ताम्रे दिवस्पतौ’ मेदिनी ‘अर्को मघोनि स्फटिके ज्येष्ठभ्रातरि भास्करे शुभ्रेऽर्कपादपे’ नानार्थर०। (वि) १६.पूजनयोग्यः।
Wordnet
Sanskrit
Synonyms:
स्फुरणगीतम्, वीरगानम्, समरोद्गीथः, गाथानी, पुरुणीथम्, अर्कः
noun
युद्धे सैनिकानां स्फुर्तिप्राप्त्यर्थे गीयमानं गीतम्।
"युद्धसमये स्फुरणगीतेषु सैनिकानां पराक्रमस्य वर्णनं क्रीयते।"
Synonyms:
सूर्यः, सूरः, अर्यमा, आदित्यः, द्वादशात्मा, दिवाकरः, भास्करः, अहस्करः, व्रध्रः, प्रभाकरः, विभाकरः, भास्वान्, विवस्वान्, सप्ताश्वः, हरिदश्वः, उष्णरश्मिः, विवर्त्तनः, अर्कः, मार्त्तण्डः, मिहिरः, अरुणः, वृषा, द्युमणिः, तरणिः, मित्रः, चित्रभानुः, विरोचन्, विभावसुः, ग्रहपतिः, त्विषाम्पतिः, अहःपतिः, भानुः, हंसः, सहस्त्रांशुः, तपनः, सविता, रविः, शूरः, भगः, वृध्नः, पद्मिनीवल्लभः, हरिः, दिनमणिः, चण्डांशुः, सप्तसप्तिः, अंशुमाली, काश्यपेयः, खगः, भानुमान्, लोकलोचनः, पद्मबन्धुः, ज्योतिष्मान्, अव्यथः, तापनः, चित्ररथः, खमणिः, दिवामणिः, गभस्तिहस्तः, हेलिः, पतंगः, अर्च्चिः, दिनप्रणीः, वेदोदयः, कालकृतः, ग्रहराजः, तमोनुदः, रसाधारः, प्रतिदिवा, ज्योतिःपीथः, इनः, कर्म्मसाक्षी, जगच्चक्षुः, त्रयीतपः, प्रद्योतनः, खद्योतः, लोकबान्धवः, पद्मिनीकान्तः, अंशुहस्तः, पद्मपाणिः, हिरण्यरेताः, पीतः, अद्रिः, अगः, हरिवाहनः, अम्बरीषः, धामनिधिः, हिमारातिः, गोपतिः, कुञ्जारः, प्लवगः, सूनुः, तमोपहः, गभस्तिः, सवित्रः, पूषा, विश्वपा, दिवसकरः, दिनकृत्, दिनपतिः, द्युपतिः, दिवामणिः, नभोमणिः, खमणिः, वियन्मणिः, तिमिररिपुः, ध्वान्तारातिः, तमोनुदः, तमोपहः, भाकोषः, तेजःपुञ्जः, भानेमिः, खखोल्कः, खद्योतनः, विरोचनः, नभश्चक्षूः, लोकचक्षूः, जगत्साक्षी, ग्रहराजः, तपताम्पतिः, सहस्त्रकिरणः, किरणमाली, मरीचिमाली, अंशुधरः, किरणः, अंशुभर्त्ता, अंशुवाणः, चण्डकिरणः, धर्मांशुः, तीक्ष्णांशुः, खरांशुः, चण्डरश्मिः, चण्डमरीचिः, चण्डदीधितिः, अशीतमरीचिः, अशीतकरः, शुभरश्मिः, प्रतिभावान्, विभावान्, विभावसुः, पचतः, पचेलिमः, शुष्णः, गगनाध्वगः, गणध्वजः, खचरः, गगनविहारी, पद्मगर्भः, पद्मासनः, सदागतिः, हरिदश्वः, मणिमान्, जीवितेशः, मुरोत्तमः, काश्यपी, मृताण्डः, द्वादशात्मकः, कामः, कालचक्रः, कौशिकः, चित्ररथः, शीघ्रगः, सप्तसप्तिः
noun
हिन्दूनां धर्मग्रन्थेषु वर्णिता एका देवता।
"वेदेषु सूर्यस्य पूजायाः वारंवारं विधानम् अस्ति"।"
Synonyms:
अर्कः, सारः, रसः, सत्त्वम्
noun
आसवन-संघनके कस्यापि आसवः ऊष्णीकृत्य तस्य बाष्पात् सम्प्राप्तः द्रवः।
"पोदिनायाः अर्कः अन्नविकारे बहुगुणकारी अस्ति।"
Synonyms:
वज्रम्, कुलिशम्, भदुरम्, पविः, शतकोटिः, स्वरुः, शम्बः, दम्भोलिः, अशनिः, कुलीशम्, भिदिरम्, भिदुः, स्वरुस्, सम्बः, संवः, अशनी, वज्रांशनिः, जम्भारिः, त्रिदशायुधम्, शतधारम्, शतारम्, आपोत्रम्, अक्षजम्, गिरिकण्टकः, गौः, अभ्रोत्थम्, मेघभूतिः, गिरिज्वरः, जाम्बविः, दम्भः, भिद्रः, अम्बुजम्, ह्लादिनी, दिद्युत्, नेमिः, हेतिः, नमः. सृकः, वृकः, वधः, अर्कः, कुतसः , कुलिशः, तुजः, तिग्मम्, मेनिः, स्वधितिः सायकः, परशुः
noun
इन्द्रस्य प्रधानं शस्त्रम्।
"एकदा इन्द्रेण हनुमान् वज्रेण प्रहृतः।"
Synonyms:
भानुवारः, रविवारः, रविवासरः, भानुवासरः, अर्कवारः, आदित्यवारः, भट्टारकवारः, अर्कदिनम्, अर्कः
noun
सः दिनः यः मन्दवासरात् अनन्तरम् तथा सोमवासरात् प्राक् अस्ति।
"अस्माकं राष्ट्रे भानुवासरे विद्यालये कार्यालये अवसरः अस्ति।"
Synonyms:
इन्द्रः, देवराजः, जयन्तः, ऋषभः, मीढ्वान्, मरुत्वान्, मघवा, विडोजा, पाकशासनः, वृद्धश्रवाः, सुनासीरः, पुरुहूतः, पुरन्दरः, जिष्णुः, लेखर्षभः, शक्रः, शतमन्युः, दिवस्पतिः, सुत्रामा, गोत्रभित्, वज्री, वासवः, वृत्रहा, वृषा, वास्तोस्पतिः, सुरपतिः, बलारातिः, शचीपतिः, जम्भभेदी, हरिहयः, स्वाराट्, नमुचिसूदनः, संक्रन्दनः, दुश्च्यवनः, तुराषाट्, मेघवाहनः, आखण्डलः, सहस्त्राक्षः, ऋभुक्षा, महेन्द्रः, कोशिकः, पूतक्रतुः, विश्वम्भरः, हरिः, पुरुदंशा, शतधृतिः, पृतनाषाड्, अहिद्विषः, वज्रपाणिः, देवराजः, पर्वतारिः, पर्यण्यः, देवताधिपः, नाकनाथः, पूर्वदिक्कपतिः, पुलोमारिः, अर्हः, प्रचीनवर्हिः, तपस्तक्षः, बिडौजाः, अर्कः, उलूकः, कविः, कौशिकः, जिष्णुः
noun
सा देवता या स्वर्गस्य अधिपतिः इति मन्यते।
"वेदेषु इन्द्रस्य सूक्तानि सन्ति।"
Synonyms:
सूर्यः, सविता, आदित्यः, मित्रः, अरुणः, भानुः, पूषा, अर्कः, हिरण्यगर्भः, पतङ्गः, खगः, सहस्रांशुः, दिनमणिः, मरीचि, मार्तण्ड, दिवाकरः, भास्करः, प्रभाकरः, विभाकरः, विवस्वान्, सप्ताश्वः, हरिदश्वः, चित्ररथः, सप्तसप्तिः, दिनमणि, द्युमणिः, दिवामणिः, खमणिः, खद्योतः, प्रद्योतनः, अम्बरीशः, अंशहस्तः, लोकबान्धवः, जगत्चक्षुः, लोकलोचनः, कालकृतः, कर्मसाक्षी, गोपतिः, गभस्तिः, गभस्तिमान्, गभस्तिहस्तः, ग्रहराजः, चण्डांशु, अंशुमानी, उष्णरश्मिः, तपनः, तापनः, ज्योतिष्मान्, मिहिरः, अव्ययः, अर्चिः, पद्मपाणिः, पद्मिनीवल्लभः, पद्मबन्धुः, पद्मिनीकान्तः, पद्मपाणिः, हिरण्यरेतः, काश्यपेयः, विरोचनः, विभावसुः, तमोनुदः, तमोपहः, चित्रभानुः, हरिः, हरिवाहनः, ग्रहपतिः, त्विषाम्पतिः, अहःपतिः, वृध्नः, भगः, अगः, अद्रिः, हेलिः, तरूणिः, शूरः, दिनप्रणीः, कुञ्जारः, प्लवगः, सूनुः, रसाधारः, प्रतिदिवा, ज्योतिपीथः, इनः, वेदोदयः, पपीः, पीतः, अकूपारः, उस्रः, कपिलः
noun
पृथिव्याः निकटतमः अतितेजस्वी खगोलीयः पिण्डः यं परितः पृथ्व्यादिग्रहाः भ्रमन्ति। तथा यः आकाशे सुवति लोकम् कर्माणि प्रेरयति च।
"सूर्यः सौर्याः ऊर्जायाः महीयः स्रोतः।/ सूर्ये तपत्यावरणाय दृष्टैः कल्पेत लोकस्य कथं तमित्स्रा।"
Tamil
Tamil
அர்க: : ஒளிக்கதிர், சூரியன், நெருப்பு, பளிங்கு, ஸ்படிகம், தாமிரம், இருக்கு, இந்திரன், உணவு, ஞாயிற்றுக் கிழமை.
अमरकोशः
Sanskrit
Word: अर्कः
Root: अर्कः
Gender: undefined
Number: undefined
Meaning(s):
named arka
Indian silver fir tree [Pinus Webbiana - Bot.]
Shloka(s):
2|4|80|2 अर्काह्ववसुकास्फोटगणरूपविकीरणाः॥ (वनौषधिवर्गः)
2|4|81|1 मन्दारश्चार्कपर्णोऽत्र शुक्लेऽलर्कप्रतापसौ। (वनौषधिवर्गः)
Synonym(s):
2|4|80|2 अर्काह्वः (अर्काह्व) (पुं) named arka, Indian silver fir tree [Pinus Webbiana - Bot.]
2|4|80|2 वसुकः (वसुक) (पुं)
2|4|80|2 आस्फोटः (आस्फोट) (पुं) shaking, quivering, trembling, species of plant, moving or flapping to and fro, sound of clapping or striking on the arms
2|4|80|2 गणरूपः (गणरूप) (पुं)
2|4|80|2 विकीरणः (विकीरण) (पुं) Crown flower plant [Calotropis Gigantea - Bot.]
2|4|81|1 मन्दारः (मन्दार) (पुं) heaven, coral tree, thorn-apple, Indian coral tree [Erythrina Indica - Bot.], white Crown flower plant [Calotropis Gigantea - Bot.]
2|4|81|1 अर्कपर्णः (अर्कपर्ण) (पुं)
Related word(s):
जातिः ओषधिः
परा_अपरासंबन्धः श्वेतार्कः
शब्दकल्पद्रुमः
Sanskrit
अर्कः,
पुं,
(अर्च + कर्म्मणि घञ्, कुत्वम् ।) सूर्य्यः ।इन्द्रः ताम्रं स्फटिकः इति मेदिनी
पण्डितः ।इति शब्दरत्नावली
ज्येष्ठभ्राता इति दण्डा-दिनाथः
लक्षणया रविवारः इति ज्योतिघं
वृक्षविशेषः आकन्द इति भाषा तत्पर्य्यायः ।क्षीरदलः पुच्छी प्रतापः क्षीरकाण्डकः५ विक्षीरः क्षीरी खर्ज्जुघ्नः शीतपुष्पकः९ जम्भनः १० क्षीरपर्णी ११ विकीरणः १२सदापुष्पः १३ सूर्य्याह्वः १४ आस्फोतकः १५ तूल-फलः १६ शुकफलः १७ इति राजनिर्घण्टः
वसुकः १८ आस्फोतः १९ गणरूपः २० मन्दारः२१ अर्कपर्णः २२ इत्यमरः
*
अथ श्वेता-र्कपर्य्यायः अलर्कः राजार्कः प्रतापसः ३गणरूपी
*
अथ रक्तार्कपर्य्यायः विश्वोरः१ सदापुष्पी रूपिका आदित्यपुष्पिका ४दिव्यपुष्पिका अर्कः इति रत्नमाला
अस्य गुणाः कटुत्वं उष्णत्वं अग्निकारित्वं ।वातशोथव्रणार्शःकुष्ठक्रिमिनाशित्वञ्च इति राज-निर्घण्टः
कफदोषनाशित्वं तीक्ष्णत्वञ्च अस्यक्षीरगुणाः क्रिमिदोषव्रणनाशित्वं कुष्ठार्श-उदररोगेषु हितकारित्वञ्च इति राजवल्लभः
तस्य पर्य्यायगुणाः ।“श्वेतार्को गणरूपः स्यान्मन्दारो वसुकोऽपि ।श्वेतपुष्पः सदापुष्पः बालार्कः प्रतापसः
रक्तोऽपरोऽर्कनामा स्यादर्कपर्णो विकीरणः ।रक्तपुष्पः शुक्लफलस्तथास्फोतः प्रकीर्त्तितः
अर्कद्वयं सरं वातकुष्ठकण्डूविषव्रणान् ।निहन्ति प्लीहगुल्मार्शःश्लेष्मोदरयकृत्कृमीन्
शुक्लार्ककुसुभं वृष्यं लघु दीपनपाचनं ।अरोचकप्रसेकार्शःकासश्वासनिवारणं
रक्तार्कपुष्पं मधुरं सतिक्तंकुष्ठकृमिघ्नं कफनाशनञ्च ।अर्शो विषं हन्ति रक्तपित्तंसंग्राहि गुल्मे श्वयथौ हितं तत्
क्षीरमर्कस्य तिक्तोष्णं स्निग्धं सलवणं लघु ।कुष्ठगुल्मोदरहरं श्रेष्ठमेतद्विरेचनं”
इति भावप्रकाशः
*
निर्यासविशेषः आरकइति आरवीभाषा तस्य विधिर्यथा, --“द्रव्यकल्पः पञ्चधा स्यात् कल्कचूर्णं रसस्तथा ।तैलमर्कः क्रमाज्ज्ञेयं यथोत्तरगुणं प्रिये
पृथक् द्वन्द्वे सन्निपाते सङ्करेऽसाध्यरोगिणि ।क्रमादेते प्रयोक्तव्या अन्यथा नु विनाशकाः
आद्ये गुणा गुणाः सर्व्वे द्वितीयञ्च ततो लघु ।तृतीयं शीघ्रकारि स्यात् चतुर्थं नातिदोषकृत्
पञ्चमं दोषरहितं गुणसद्यःप्रकाशकं ।पञ्चमस्य तु सामर्थ्यं स्वयं पञ्चाननोऽब्रवीत् ।वर्षाणान्तु सहस्राणि कथ्यतेऽहर्निशं मया ।सम्पूर्णो नैव जायेत कल्पोऽर्कस्य दशानन
*
पुंवारे पुरुषर्क्षे दिवार्को यस्तु निर्म्मितः
रमणीषु प्रदातव्यो विलोमात् पुंसु योजयेत्
लोहचूर्णं गौरिकञ्च खटिका भृष्टमृत्तिका ।मृत्तिकास्थिभवं चूर्णं काचं कीकसजं रजः
एतानि समभागानि सर्व्वतुल्या मृत्तिका ।भ्रंशनीया पञ्चमूत्रैः खराश्वमहिषोद्भवैः
गजाजसम्भवाभ्याञ्च शटितं तद्विशोषयेत् ।यथा गन्धविनाशः स्यात् तथा संमर्दयेत्ततः
लघुहस्तः कुलालोऽस्य कुर्य्याद्यन्त्रं सुनिर्म्मलं ।यथेष्टां स्थालिकां कुर्य्यात् अङ्गुलप्रान्तसारिकां
पृथुबुध्नोदराकारां द्व्यङ्गुलोत्सेधवेष्टनीं ।सारिकान्ते तु परिधिं त्र्यङ्गुलोत्सेधशोभितां
विनिर्मायाथ सार्य्यन्ते यथा शिल्पविनिर्म्मितां ।छिद्रं कृत्वा नलं दद्याद्गजशुण्डसमं बुधः
सारिकापरिधेरन्तस्तस्य कुर्य्यात् पिधानकं ।अर्द्धनिम्बफलसमं परिधिं तस्य चान्ततः
वेदाङ्गुलं मस्तकोर्द्ध्वं कार्य्यं तोयस्य धारणे ।समर्थां तत्र नलिकां कुर्य्यात्तोयविमोचनीं
तस्यैवान्तरतो लेप्या जीर्णास्थ्नां मृत्तिकाम्बुना ।अथवा श्वेतकाचं तु सर्व्वदोषापनुत्तये
*
अथ वक्ष्ये तु जीर्णास्थिमृत्तिकाकरणं प्रिये ।शिलाजतुस्थले कुर्य्यात् दीर्घगर्त्तं मनोहरं
निक्षिपेत्तत्र नानास्थिसञ्चयं द्विचतुष्पदां ।सर्जिक्षारं महाक्षारं मृत्क्षारं लवणानि
गन्धकोष्णजलं क्षेप्यं नानामूत्राणि तत्र वै ।एवं कृत्वा मासषट्कं दद्यात् पाषाणमृत्तिकां
कङ्कास्थ्यूर्द्ध्वं तदूर्द्ध्वन्तु कुर्य्याद्वह्नीष्टिकां शुभां ।त्रिवर्षाज्जायते सर्व्वमेकीभूतं दृशत्समं
ततो निष्काश्य तच्चूर्णं कृत्वा पात्राणि निर्ममेत् ।प्रशस्तं भोजनं तत्र सूचयेदन्नदूषणं
महाविषस्य संयोगात्तस्य भङ्गं प्रजायते ।सूचीविषादिसंयोगात् यत्र स्फोटा भवन्ति
तत्र क्षिप्तं क्षुद्रविषं पात्रं कृष्णं प्रजायते ।एवं ज्ञात्वा तत्र दद्यान्न कदाचिद्विषादिकं
विषादीनामर्कसिद्ध्यै कुर्य्यात् पात्रन्तु लोहजं ।स्वर्णजं रौप्यजं वापि कुर्य्यात् पात्रमकल्मषं
अथवा ताम्रजं कुर्य्यादन्तर्व्वङ्गविलेपितं ।पात्रन्तु बुद्ध्वा कुर्व्वीत कषायो भवेद्रसः
द्रव्यान्तरस्य संयोगादर्कं तैलञ्च गर्भतः ।सर्व्वेषां निःसरत्येव पाषाणस्यापि किं पुनः
अनग्न्यर्कस्तथा तैलं गन्धतालादिसम्भवं ।बेधकं सर्व्वधातूनां देहस्यापि सिद्धिदं
यस्तैलकरणे दक्षश्चार्कनिःसारणे क्षमः ।तत्तत्सेवाकरो नित्यं रोगैर्नैव बाध्यते
*
कुत्सितार्कस्तु यामेन द्वियामाभ्यान्तु मध्यमः ।त्रिभिर्यामैर्भवेच्छ्रेष्ठः एवार्कस्तु सिद्धिदः
द्रव्यादधिकसौगन्ध्यं यस्मिन्नर्के प्रदृश्यते ।जीर्णास्थिपात्रसङ्क्षिण्णो द्रव्यवर्णः प्रदृश्यते
शङ्खकुन्देन्दुधवलोऽन्यथा पात्रान्तरे स्थितः ।जिह्वोपरिगतः स्वादं दद्याद्द्रव्यभवन्तु यः
तमेवार्कं विजानीयादन्यज्ज्ञेयं रसादिवत् ।कृत्वा सुगन्धं दुर्गन्धमर्कं पुष्पादिभिः सुधीः
गुणार्थं पश्चात् सेवेत ह्यन्यथापगुणो भवेत् ।दुर्गन्धं भक्षयेदर्कं यदि मोहात् कथञ्चन
तदास्य जायते ग्लानिर्व्वान्तिरालस्यकं तृषा ।तद्दोषस्य विनाशाय कुर्य्याद्वान्तिमतन्द्रितः
द्वीपोद्गमप्रसूनानां पिबेदर्कपलं जनः ।चम्बेल्यर्कपलं वापि शीतार्त्तो मालतीभवं
*
अर्कनिष्काशनार्थाय क्रमाज्ज्ञेयाः षडग्नयः ।धूमाग्निश्चैव दीपाग्निर्मन्दाग्निर्मध्यमस्तथा
खराग्निश्च भडाग्निश्च तेषां वक्ष्यामि लक्षणं ।विज्वालो यो धमशिखो धूमाग्निः उदाहृतः
ससारमतिशुष्कं यत् मुष्टिमध्ये समेष्यति ।तत्काष्ठं काष्ठमित्याहुः खदिरादिसमुद्भवं
द्वाभ्यां तस्य चतुर्थाभ्यां योऽग्निर्दीपाग्निरुच्यते ।चतुरंशेन तेनैव मन्दाग्निः परिकीर्त्तितः
अर्द्धीकृताभ्यां द्वाभ्यान्तु मध्यमाग्निरुदाहृतः ।अर्द्धैस्तैः पञ्चभिः प्रोक्तः खराग्निः सर्व्वकर्म्मसु
मस्तकावधिपात्रस्यं चतुर्दिक्षु क्रमेण ।प्रसरन्ति यदा ज्वालाः भडाग्निरुदीरितः
सार्द्धयामञ्च यामञ्च याममेकं मुहूर्त्तकं ।मुहूर्त्तमात्रमित्येवमर्कार्थं वह्नयः स्मृताः
*
जीर्णास्थिपात्रे गृह्णीयादर्कं वा काचसम्भवे ।पाषाणसम्भवे पात्रे कांस्यजेऽथ हिमस्थले
पिबेदर्कमनिर्व्वापं पीत्वा ताम्बू लभक्षणं ।कुर्य्यादनुक्तताम्बू ले लवङ्गं भक्षयेत्ततः
मर्दनादिषु सर्व्वत्र द्रव्यतैलं प्रयोजयेत् ।अर्क एव प्रयोक्तव्यो भक्षणे तु मर्दने
ये ये द्रव्यगुणाः प्रोक्ताः सर्व्वे तेऽर्कसमाश्रिताः ।सेवेतार्कं प्रिये तस्माद्राजा परमधार्म्मिकः
स्वस्थेऽपि वा रोगिणे वा याच्यतेऽर्केस्तु येन वा ।ज्ञात्वा तल्लक्षणं दद्यादन्यथा ब्रह्महा भवेत्
*
वर्णस्वराणां प्रमितिं दूतोक्तस्य तु कारयेत् ।शकैर्युक्ता विगुणिता त्रिभिर्भागं समाहरेत्
एकशेषे गुणाः शीघ्रं द्विशेषे वर्द्धते गदः ।त्रिशेषे मरणं वाच्यं स्वार्थं वाचयते यदि
अर्कं तदैतत् विज्ञाय दद्यादर्कं चान्यथा ।गदिना तु यदा दूतः प्रेषितश्चेद्विचार्य्यते
नपुंसकान्त्यैरूणास्तु स्वरा एकादश प्रिये ।वर्णास्तत्सङ्ख्यका लेख्याः कठवाद्याश्च तत्तले
एकादशसु कोष्ठेषु क्रमादङ्कान् प्रविन्यसेत् ।रसास्त्रयो द्वयं वेदाः पर्ब्बता ऋतवः कृताः
वह्नयः पृथिवी शून्यं चन्द्रमा इति क्रमात् ।विहाय जीवं दूतस्य नामाङ्काक्षरयोजनं
एवमेवातुरे कृत्वा द्वयोरष्टावशेषितं ।कृत्वाङ्कयोगं गदिनोऽधिके शेषे शुभं भवेत्
समशेषे दीर्घरोगः न्यूनशेषे तन्मृतिः ।एतद्विचार्य्य दातव्यमन्यदप्यौषधं बुधैः
चक्रद्वयन्तु योऽज्ञात्वा दद्यादर्कं विमोहितः ।जायते त्वयशस्तस्य यथा मम मृते सति”
इति श्रीलङ्कानाथकृतार्कचिकित्सायां यन्त्रविधि-शतकं प्रथमं
*
“अथातः संप्रवक्ष्यामि निर्गमोऽर्कस्य भामिनि ।पञ्चप्रकारद्रव्यस्य कुर्य्यान्निष्काशनं भिषक्
अत्यन्तकठिनं चाद्यं कठिनञ्च द्वितीयकं ।आर्द्रं तृतीयमुद्दिष्टं चतुर्थं वुल्वुलं भवेत्
पञ्चमञ्च द्रवद्रव्यं तेषां विधिरथोच्यते
*
रसवच्चूर्णयेत् द्रव्यमत्यन्तकठिनन्तु यत्
द्विगुणे निःक्षिपेत्तोये छायायां स्थापयेच्च तत् ।यावच्छुष्कं भवेत्तोयं द्रव्यञ्च शिथिलं यथा
ततः पुनः क्षिपेत्तोयं पूर्व्वद्रव्यसमं भिषक् ।कृत्वाष्टप्रहरं तत्तु सूर्य्यचन्द्रकरैरलं
संपूज्य गणपतिं सूर्य्यं भैरवं कुलदेवतां ।निःक्षिपेदर्कयन्त्रे तत् क्षिप्त्वास्यार्कं समाहरेत्
वर्षाधिकन्तु यत् द्रव्यमत्यन्तकठिनन्तु तत् ।चन्दनादीनि सर्व्वाणि अत्यन्तकठिनानि
कीटैर्भुक्तं घुणैर्युष्टं यच्च गन्धविवर्ज्जितं ।रहितं स्वरसेनापि नार्ककर्म्मणि योजयेत्
यथार्केसंस्थितं द्रव्यं कुर्य्याद्भोक्तुस्तथा वपुः ।अर्के तरुणभैषज्यं तस्मात् संयोजयेत् प्रिये
*
यवान्यजाजीत्रिकटुभूनिम्बादिकमौषधं ।ज्ञेयं तत् कठिनं द्रव्यं तदर्कस्य विधिं शृणु
द्विगुणं निःक्षिपेत्तोयं द्रव्ये तु कठिने मते ।अष्टप्रहरिकं तच्च कुर्य्यात् पर्य्यायमेककं
रक्षेत् द्रव्यं द्विगुणितं दृष्ट्वा देशे तु कौतुकं ।पश्चात् दत्त्वार्कयन्त्रे तत् अर्कंनिष्काशयेच्छनैः
*
आर्द्रद्रव्यं द्विधाप्रोक्तं सरसं नीरसं तथा ।सदुग्धं गुप्तरसकं द्विधा नीरसमुच्यते
वास्तूकं सार्षपं शाकं निर्गुण्ड्येरण्डमार्षकं ।धत्तूराद्यमिदं सर्व्वमार्द्रं सरसमुच्यते
एषां नालान् चूर्णयित्वा विंशांशं निःक्षिपेज्जलं ।मुहूर्त्तमुष्णे संस्थाप्य ग्राह्योऽर्को विबुधोत्तमैः
पत्राणान्तु शतांशेन तुल्यतोयेन सेचयेत् ।दद्यात् घटीमर्ककरां ततोऽर्कं कलयेच्छनैः
वटाश्वत्थकरीराद्यमार्द्रद्रव्यन्तु नीरसं ।विंशांशं निःक्षिपेत्तोयं जलं घर्म्मे धारयेत्
ततो निष्काशयेदर्कं क्रमवृद्ध्याग्निनोक्तवत् ।सदुग्धन्तु द्विधा प्रोक्तं मृदु तीक्ष्णमिति क्रमात्
सातलावज्रसेहुण्डसौरिण्याद्यास्तु तीक्ष्णकाः ।खण्डानि तेषां कृत्वाथ निःक्षिपेत् पुष्कले जले
दिनत्रयञ्च निष्काश्य तोयादीषच्च कुट्टयेत् ।तदा दृश्यते दुग्धं दद्य्नात्तोयं रदांशकं
निष्काशयेच्छनैरर्कं तु तीक्ष्णार्कसंज्ञकः ।दुग्धिकार्कक्षीरिण्याद्या मृदुदुग्धाः प्रकीर्त्तिताः
जले चतुर्गुणे दद्यात्तान् घर्म्मे विनिवेशयेत् ।यावज्जलस्योष्णता स्यात् ततो यन्त्रे विनिःक्षिपेत्
आदावीषच्चूर्णयित्वा षष्ठांशजलसंयुतं ।एवं द्रव्यं लक्षयित्वा स्वयुक्त्यार्कं विनिर्हरेत्
खण्डीकृत्य आमानां फलानां मृदुकायिनां ।सरसानाञ्च गृह्णीयादर्कं तोयेन वर्ज्जितं
*
काष्ठोडम्बरिकादीनां आमानां दार्य्यभागिनां ।कृत्वा स्वल्पानि खण्डानि अशीत्यंशं प्रदापयेत्
पृथक् पृथक् तुवरीं सर्जिक्षारञ्च सैन्धवं ।दत्त्वा विमर्दयेत् सर्व्वं चत्वारिंशांशकं जलं
क्षिप्त्वा तत्कलसं धर्म्मे यामार्द्धेनोष्णता भवेत्ततो यन्त्रे तु तद्दत्त्वा गृह्णीयादर्कमुत्तमं
अतिपक्वफलानान्तु वीर्य्यतश्चार्कमाहरेत् ।पुष्पार्कार्थं षोडशांशं जलं पुष्पेषु दापयेत्
बहुवारफलादीनि चिल्लिकादीनि यानि ।क्षेप्याण्युक्तोदके तानि वुल्वुलत्वस्य शान्तये
ततश्चत्वारिंशदंशं जलं दत्त्वा समाहरेत् ।तेषामर्कमथ द्रावद्रव्यार्कोपाय उच्यते
द्रवद्रव्योत्क्षेपशान्त्यै प्रोच्यते वापकल्पना
*
पिधानानि विचित्राणि तेषामन्तो विद्यते
शतपत्रप्रसूनैर्व्वा जात्युत्थैर्मालतीभवैः ।गुलावपारिजातैश्च केतकीजैः समाचरेत्
दुग्धे दध्नि रसे तक्रे क्षौद्रे तैले सर्पिषि ।मूत्रादौ देहतोये चम्बेल्यादिपिधानकं
*
कान्तपाषाणसत्वस्य कृतं यन्त्रमनुत्तमं ।निष्काशयेत् सर्व्वथार्कं द्रवद्रव्यस्य नान्यथा
अथवा स्तम्भकं द्रव्यं दध्नस्तु नवनीतकं ।वर्षदल्लीजलस्योक्ता मधूच्छिष्टन्तु सर्पिषः
गोकण्ठकन्तु दुग्धस्य तथा मद्यस्य किण्वकं ।तैलस्य तस्य पिण्याकं सर्व्वं घृतसमन्वितं
यन्त्र दत्त्वा द्रवद्रव्यं ययोस्थालोनिवेशनं ।तथा स्थलं स्थापयित्वा द्रवैर्यन्त्रं प्रपूरयेत्
आच्छाद्यं सारकैः पूर्णं स्थालीं दद्यादधोमुखीं ।तथा चाकर्षितः सर्व्वो द्रवः फेनं परित्यजेत्
*
दुर्गन्धिर्य्यो भवेदर्कन्तं कुर्य्यात् शुचिगन्धकं ।मर्व्वेषामेव मांसानां दुर्गन्धानाञ्च सर्व्वशः
घृताभ्यक्ता हिङ्गुजीरमेथिका राजिका कृता ।नवीनायां हण्डिकायां दद्यात् द्रव्यं पुनः पुनः
तत्र दद्यात्तदर्कस्तु यथा दुर्गन्धतां व्रजेत् ।तथा पुनः पुनः काय्यं जायते गन्धबारणं
आयाति रोचको गन्धो भवेत्तद्वह्णिदीपनं
*
सर्व्वेष्वर्कप्रयोगेषु गन्धपाषाणवासना
अर्काणान्तु प्रदातव्या ते भवन्त्यर्कसम्भवाः ।सर्व्वत्र वातरोगेषु महिषाक्षादिवासना
महिषाक्षस्तथा रालं निर्य्यासः सर्ज्जकस्य ।कृष्णागुरुः कदम्बञ्च महिषाक्षादिपञ्चकं
सर्व्वेषु पित्तरोगेषु चन्दनादिकवासना ।सर्व्वेषु कफरोगेषु जटामांस्यादिवासनं
चन्दनञ्च तथोशीरं कर्पूरो गन्धवाकुची ।एलाकर्चूरगोहूलाः सप्तैते चन्दनादयः
जटामांसी नखं पत्री लवङ्गं तगरं रसः ।शिलाया गन्धपाषाणः सप्त मांस्यादिका अमी
वासयेद्वा दशाङ्गेन त्रिदोषाप्तेन चार्ककं ।नश्यन्ति यस्य धूपेन अवग्रहपिशाचकाः
पञ्चाशद्गन्धपाषाणात् तावन्महिषगुग्गुलुः ।चतुरंशं चन्दनञ्च जटामांसी तावती
त्रिभागः सर्ज्जकः सारस्तावदेव हि रालकं ।उशीरं तु द्विभागं स्यात् घृतभृष्टं नखं समं
कर्पूरो मृगनाभिश्च एकभागौ प्रकीर्त्तितौ ।एष दशाङ्गधूपस्तु रुद्रस्यापि मनो हरेत्
*
पलाण्डुलशुनादीनां निर्गन्धीकरणं शृणु ।उत्पाद्यान्तर्व्विषं सम्यक् तक्रमध्ये विनिःक्षिपेत्
पर्य्यायमेकमत्यम्लमध्येऽस्मिन् विरसे सति ।दद्यान्निष्काश्यान्यतक्रं कुर्य्यात्तच्चाष्टमांशकं
द्रोणपुष्पीरसेऽप्येवं मूर्व्वापत्ररसेऽपि वा ।त्रिपर्य्यायोत्तरं तत्तु रसोनं क्षालयेत् सुधीः
हरिद्राराजिकातोये स्थाप्यं पर्य्यायमेककं ।उष्णोदकेन संक्षाल्य पर्य्यायं वासयेत्ततः
सहस्रपत्रीपुष्पैर्व्वा अभावे पल्लवैरपि ।आलोडयेद्दशांशेन पञ्चांशेन मस्तुना
युक्तं कृत्वा याममात्रं स्थापयेत् प्रकटातपे ।ततो निष्काशयेदक जात्यादिकपिधानितं
अस्यार्कस्य सुगन्धेन एकदा मोहितो हरः ।को जानाति रसोनस्य ह्यर्कोऽयमिति भूतले
एकतः सर्व्व एवार्का मासार्कस्तु तथैकतः ।मया स्वर्गे गृहीतस्तु प्राप्तं तत्र नामृतं
तदा प्रोक्तं शिवस्याग्रे मम धिग् जीवितं प्रभो ।नीता वाथ प्रभुक्ता वा सुधा देवैर्मया श्रुतं
दृष्टा तत्र देवेश शिरश्छेदं करोम्यहं ।ततः प्रसन्नो गिरिशो वाक्यं मां प्रति सोऽव्रवीत्
दत्तं मया समस्तं ते देवाबध्यत्वमेव ।किन्ते कार्य्यन्तु सुधया सुधातोऽधिकरोचनं
*
संप्रवक्ष्यामि मांसार्कं मद्यस्यार्कं तथैव ।द्रव्याणां विजयादीनां लभ्यते यैः सुखं महत्
मांसन्तु त्रिविधं ज्ञेयं मृदुलं कठिनं घनं ।तेषामर्कं यथा प्रोक्तं यन्त्रान्निष्काशयेच्छनैः
मृदुलं यद्भवेन्मांसं चत्वारिंशांशकं पटुः ।स्थूलखण्डीकृते तस्मिन् दत्त्वा तत् क्षालयेच्छनैः
षष्ट्यंशेनाष्टगन्धेन तद्विलोड्य निःक्षिपेत् ।रसमिक्षोरष्टमांशं तदभावे पयः क्षिपेत्
जातीपत्रं लवङ्गञ्च त्वगेला नागकेशरं ।मरिचं मृगनाभिश्च विदुर्गन्धाष्टकं त्विदं
कार्य्यं पुष्पपिधानाद्यमर्कं निष्काशयेत्ततः ।जायतेऽसौ महास्वादुः सुधासमरसः प्रिये
दृढमांसस्य खण्डानि लघून्येव प्रकल्पयेत् ।दद्याच्च तुवरीं तत्र लवङ्गं प्रोक्तया द्विशा
क्षालयेदारनालेन त्रिवारं कोष्णवारिणा ।क्षलयेत् सप्तवाराणि हरेदर्कन्तु पूर्व्ववत्
दृढमांसस्य खण्डानि कुर्य्यादतिलघूनि ।आलोड्य शङ्खद्रावेण क्षालयेत् पयसा पुनः
सप्तवाराणि लवणं चयेत् पूर्व्ववदेव हि ।तद्दत्त्वा यन्त्रमध्ये तु हरेत् पूर्व्ववदर्ककं
सर्ज्जिक्षारं यवक्षारं श्वेतक्षारञ्च टङ्कणं ।सौभाग्यक्षारकं सौरक्षारं शङ्खभवं तथा
अर्कसेहुण्डपालाशक्षारञ्च तुवरी तथा ।अपामार्गभवं क्षारं तथाष्टौ लवणानि
लवणाष्टकमेतच्च सैन्धवञ्च सुवर्च्चलं ।विडं समुद्रसंजातं उद्भिदं रोमकं गडं
कृत्वा सर्व्वाणि चैकत्र निम्बुनीरेण भावयेत् ।एकविंशतिवाराणि काचकूप्यां विनिःक्षिपेत्
नखांशनिम्बुरसकैः सर्व्वमार्द्रीकृतञ्च तत् ।अधःसच्छिद्रपीठरीं मध्ये कूप्यां निवेशयेत्
मृत्कर्पटसमायुक्तां सहेदग्निं यथाविधि ।तस्याग्रे कूपिका योज्या दीर्घकण्ठा मनोहरा
सा कूपिका तले स्थाप्या मेलयेच्च द्वयोर्म्मुखं ।जलमुष्णं यथा स्यात् तथा चापरकूपिका
अग्नयः क्रमतो देया यामं यामञ्च पञ्च ।अनेनैव प्रकारेण क्षारार्काणां समुद्भवः
दद्यादस्थीनि मांसानि शङ्खशुक्त्यादिकान्यपि ।सर्व्वाण्यपि विलीयन्ते शङ्खद्रावे संशयः
*
पारावताजचटकशशशूकरटिट्टिभाः ।क्षुद्रमत्स्यादिकाः सर्व्वे मांसेषु मृदुलाः स्मृताः
मृगरोहितकाद्याश्च मत्स्याः शल्लकिसम्बराः ।एते कठिनमांसाः स्युः पक्षिणो जलचारिणः
गजकुम्भीरघण्टाद्याः सुगन्धा वर्करादयः ।गोधा गोऽश्वा लुलापाद्याः घनमांसाः प्रकीर्त्तिताः
अन्नादिसम्भवो योऽर्कस्तन्मद्यं परिकीर्त्तितं ।तस्य भेदान् प्रवक्ष्यामि शटितं तत् समुद्धरेत्
तद्वासनानिवृत्यर्थमष्टगन्धं प्रयोजयेत् ।पूर्व्वोक्तैर्धूपयेद्धूपैर्ज्जायते गन्धपर्ज्जितं
अर्द्धं तत्र जलं देयं सिद्धे देयोऽष्टगन्धकः ।तुषोदकैर्यवैरामैः सतुषैः सकलीकृतैः
सौवीरन्तु यवैरामैः सतुषैः सकलीकृतैः ।गोधूमैरपि सौवीरं जायते स्वल्पमादकं
आरनालन्तु गोधूमैरामैः स्यान्निस्तषीकृतैः ।धान्याम्लं शालिचूर्णादिकोद्रवादिकृतं भवेत्
शण्डाकीराजिकायुक्तैः स्यान्मूलकदलद्रवैः ।सर्षपस्वरसैर्व्वापि शालिपिष्टकसंयुतैः
कन्दमूलफलादींश्च सस्नेहलवणानि ।एकीकृत्य कृतोऽर्को यस्तत्सूक्तमभिंधीयते
पक्वौषधाम्बुसंसिद्धो योऽर्कस्तत् स्यादरिष्टकं ।अरिष्टलघुपाकेन सर्व्वतश्च गुणाधिकं
शालिपिष्टकपिष्टादिकृतौ योऽर्कः सुरा तु सा ।पुनर्नवाशिवापिष्टैर्विहिता वाहनी स्मृता
इक्षोः पक्वैरसैः सिद्धः सीधुः पक्वरसस्य ।आमैस्तैरेव यः सिद्धः शीतरसः स्मृतः
पर्य्यायावाम्भवेन्मद्यं तामस्यं राक्षसप्रियं ।मण्डलावाग्राजसन्तु तटूर्द्ध्वं सात्विकं भवेत्
सात्विके गीतहास्यादि राजसे साहसादिकं ।तामसे निन्द्यकर्म्माणि निद्राञ्च मदिरा चरेत्
भङ्गादिमत्तद्रव्याणां यवानीपादयोगतः ।अर्कं निष्काशयेद्धीमान् बोधकः स्यान्मदस्य सः
धुस्तूरादिकवीजानि तक्रं पयसि निःक्षिपेत् ।कण्ठशोषविबन्धादिरहितोऽर्को भवेत् सहि”
इति श्रीलङ्कानाथकृतार्कचिकित्सायां यन्त्रशतकंद्वितीयं
*
“अथातः संप्रवक्ष्यामि केवलार्कगुणान् प्रिये ।हरीतक्याः शूलकृच्छ्रकामलानाहनाशनः
विभीतकस्य तृट्छर्द्दिकफकासविनाशनः ।आमलस्य त्रिदोषास्रपित्तमेहान् विनाशयेत्
पिप्पल्याः श्वासकासामवातार्शोज्वरशूलहृत् ।मरीचस्य कृमीन् श्वासं हरेत् सर्व्वान् गदानपि
ग्रन्थिकस्य प्लीहगुल्मकफवातोदरापहः ।चव्यार्कोऽत्यन्तरुचिकृत् विशेषाद्गुदजापहः
अर्कस्तु गजपिप्पल्या वातश्लेष्माग्निमान्द्यनुत् ।चित्रकस्याग्निकृत् कासग्रहणीकृमिशोथहा
यवान्याः पाचनो रुच्यो दीपनः शुक्रशूलहृत् ।अजमोदोद्भवो वातकफहा वस्तिशोधनः
पारसीकयवान्यास्तु ग्राही पाचनमादनः ।जीरकस्य तु संग्राही गर्भाशयविशुद्धिकृत्
कृष्णजीरस्य चक्षुष्यो गुल्मच्छर्द्यतिसारजित् ।कारव्या बलकृत् ह्यर्को ज्वरघ्नः पाचनः सरः
धान्यार्कस्य तृषादाहवमिश्वासत्रिदोषहृत् ।शोथज्वरानिलश्लेष्मव्रणशूलाक्षिरोगहृत्
मिश्रेयाया वह्निमान्द्ययोनिशूलकृमीन् हरेत् ।ज्वालामरीचकस्यापस्मारभूतत्रिदोषहृत्
मेथिकायाः श्लेष्मवातज्वरामकफनाशनः ।वनमेथ्याः सर्व्वरोगान् हरेत् कुञ्जरवाजिनां
चन्द्रशूरस्य हिक्कासृग्वातहृत् पुष्टिवर्द्धनः ।हिङ्गुनः पाचनो रुच्यः कृमिशूलोदरापहः
वचाया वह्निवमिकृत् विबन्धाध्मानशूलहृत् ।पारसीकवचायास्तु भूतोन्मादबलं हरेत्
कुलिञ्जनस्य स्वरकृत् हृत्कण्ठमुखशोधनः ।स्थूलग्रन्थिभवश्चार्को विशेषात् कफकासनुत्
द्वीपान्तरवचायास्तु हरेच्छूलं फिरङ्गकं ।हपुषाया हरेत् प्लीहं विषं मोहञ्च दारुणं
हपुषायाः समीरार्शोग्रहणीगुल्मशूलहृत् ।विडङ्गस्योदरश्लेष्मकृमिवातविबन्धनुत्
तुम्बुरोर्गुरुताश्वासकासप्लीहकृमीन् हरेत् ।वंशरोचनजस्तृष्णाक्षयकासज्वरान् हरेत्
समुद्रफेनजः शीतो लेखनः कफहृत् सरः ।जीरकोत्थः शुक्रकफबलकृच्छीतलः समः
आर्षभः पित्तदाहास्रकासवातक्षयापहः ।महामेदोद्भवोऽर्कस्तु वृष्यस्तन्यः कफावहः
महामेदोद्भवः शीतो रक्तपित्तज्वरप्रणुत् ।काकोल्याः शुक्रलः शीतः पित्तशोषज्वरापहः
क्षीरकाकोलिकाजातो वृंहणो दाहवातहा ।ऋद्ध्या बल्यस्त्रिदोषघ्नो रक्तपित्तविनाशनः ।वृद्ध्या गर्भप्रदः शीतः क्षतकासक्षयापहः
मधुयष्ट्याः केशकरः स्वर्य्यः पित्तानिलास्रजित् ।जलयष्ट्या विषच्छर्दितृष्णाग्लानिक्षयापहः
कम्पिल्लस्य विरेकी स्यात् मेहानाहविकारनुत् ।आरम्बधस्य पित्ताम्लवातोदावर्त्तशूलहृत्
कट्व्या मेहश्वासकासकृमिकुष्ठज्वरापहः ।भूनिम्बस्य तृषाकुष्ठज्वरव्रणकृमिप्रणुत्
भद्राया वस्तुपित्तास्रकृमिवीसर्पकुष्ठनुत् ।मदनोत्थः छर्द्दनेन चातुर्थज्वरकादिहृत्
रास्रोद्भवः समीरास्रवातशूलोदरापहः ।नागभिन्नोद्भवो भोगिलुताद्याखुविकारहृत्
माचिकाजस्तु पित्तास्रपक्वातीसारहा लघुः ।तेजस्विन्याः श्वासकासकफहृद्वह्निदीपनः
ज्योतिष्मत्या वान्तिकरो वह्निबुद्धिस्मृतिप्रदः ।कुष्ठस्य हन्ति वातास्रकासकुष्ठमहत्कफान्
पौष्करस्यारुचिश्वासान् विशेषात् पार्श्वशूलनुत् ।हेमाह्वाया रेकवान्तिकरः कण्डूविनाशनः
शृङ्ग्या हरेदूर्द्ध्ववातहिक्कातृष्णाक्षयस्वरान् ।कट्फलोत्थः श्वासकासप्रमेहार्शोऽरुचोन् हरेत्
भार्ग्या हरेत् कफश्वासपीनसज्वरमारुतान् ।पाषाणभेदजो योनिरोगकृच्छ्रास्मगुल्महा
धातकीजस्तृषासारविषक्रिमिविसर्पजित् ।मञ्जिष्ठाजो विषश्लेष्मरक्तातीसारकुष्ठहा
कुसुम्मजो वर्णकरो रक्तपित्तकफापहः ।लाक्षाजः कृमिवीसर्पव्रणोरक्षतकुष्ठहा
हरिद्राया मेहशोथत्वग्दोषव्रणपाण्डुनुत् ।आरण्यकहरिद्रायाः कुष्ठवातास्रनाशनः
कर्पूरकहरिद्रायाः सर्व्वकण्डूविनाशनः ।दार्व्या विशेषतो लेपात् नेत्रकर्णास्यरोगनुत्
रसाञ्जनोद्भवो नेत्रविकारव्रणदोषहृत् ।वाकुच्याः कृमिविष्टम्भपाण्डुशोथकफापहः
प्रपुन्नाटस्य हन्त्येव कण्डूदद्रुविषानिलान् ।विषाजो दीप्तिकृत् पाके कफपित्तातिसारहा
लोध्रजः शीतलो ग्राही चक्षुष्यः कफपित्तनुत् ।वृहत्पत्रोद्भवो नेत्र्योदरातीसारशोथहृत्
भल्लातकोद्भवो हन्यात् ज्वरोदरकृमिव्रणान् ।गुडूच्या दीपनो ग्राही कासपाण्डुज्वरापहः
ताम्बूल्या मुखदौर्गन्ध्यमलवातश्रमापहः
वैल्वः श्लेष्महरो बल्यो लघुरुष्णश्च पाचनः
गम्भारीजो भ्रमतृष्णाशूलार्शोविषदाहहृत् ।पाटल्याश्छर्द्दिशोथास्रतृट्श्लेष्मारुचिदाहहा
अग्निमन्थोद्भवः शोथकृमिपाण्डुबलासनुत् ।श्येनाकजस्तु गुल्मार्शःकृमिहृद्रुचिदीप्तिकृत्
शालिपर्ण्याः क्षतकृमिज्वरच्छर्द्यतिसारहा ।पृश्निपर्ण्या ज्वरश्वासरक्तातीसारदाहजित्
वार्त्ताक्या ज्वरवैरस्यमलारोचकशूलहा ।कण्टकार्य्या गर्भकरः पाचनः कफकासहा
गोक्षुरस्याश्मरीमेहकृच्छ्रहृद्रोगवातहा ।जीवन्त्याः सारहृन्नेत्रदोषत्रितयनाशनः
मुद्गपर्ण्याः शोथदाहग्रहण्यर्शोऽतिसारहृत् ।माषपर्ण्याः शुक्रकरो वातपित्तज्वरास्रजित्
पञ्चाङ्गुलोद्भवः शूलशिरःपीडोदरापहः ।रुवुकोत्थो व्रध्नश्वासकासकुष्ठाममारुतान्
मन्दारजो वातकुष्ठकण्डूव्रणविषापहः ।अर्कार्कः प्लीहगुल्मार्शःश्लेष्मोदरकृमीन् हरेत्
वज्रीजो लेपतो हन्याद्व्रणशोथोदरव्रणान् ।सातलोत्थः कफानाहपित्तोदावर्त्तशोथहा
लाङ्गल्या लेपतो हन्यात् शोफास्रव्रणरुग्जितः ।करवीरोद्भवो नेत्रकोपकुष्ठव्रणापहः
चण्डालोत्थस्तु विषवत् भक्षणे लेपने सुहृत् ।धत्तुरजो हरेत् क्लेशयूकाकृमिविषादिकं
वासोद्भवी ज्वरच्छर्द्दिमेहकुष्ठक्षयापहः ।पार्पटो हन्ति पित्तास्रभ्रमतृष्णाकफज्वरान्
निम्बजो भ्रमतृट्कासज्वरारुचिवमिप्रणुत् ।महानिम्बोद्भवो गुल्ममूषिकाविषनाशनः
पारिभद्रोऽनिलश्लेष्मशोथमेदकृमिप्रणुत् ।काञ्चनारो गण्डमालागुदभ्रंशव्रणापहः
कोविदारस्तु पित्तास्रप्रदरक्षयकासहा ।शौभाञ्जनार्को रुचिकृत् शुक्रलो ग्राहिदीपनः
मधुशिग्रूद्भवो हन्यात् विद्रधिश्वयथुक्रिमीन् ।शिग्रुजो विषहृन्नेत्र्यो नस्येनाश्वक्षिरोगहृत्
गिरिकर्ण्याः कुष्ठशूलशोथव्रणविषापहः ।सिन्धुवारोद्भवो हन्ति शूलशोथाममारुतान्
निर्गुण्ड्यर्को हरेज्जन्तुव्रणकुष्ठारुचीन् लघुः ।कौटजो दीपनः शीतः कफतृष्णामकुष्ठजित्
कारञ्जः कफगुल्मार्शोव्रणक्रिमिविषापहः ।घृतकारञ्जको भेदी वातार्शःकृमिकुष्ठजित्
करञ्ज्या वमिवातार्शःकृमिकुष्ठप्रमेहजित् ।उच्चटार्कः केशकरो वातपित्तकफापहः
गुञ्जाया हरते श्वासमुखशोषभ्रमज्वरान् ।कपिकच्छूद्भवो वृष्यो वृंहणो वाजिकर्म्मकृत्
मांसरोहिण्युद्भवस्तु वृष्यो दोषत्रयापहः ।चिह्लः कुर्य्याद्धातुपुष्टिं तत्फलान्मारयेज्जनान्
पुस्तकान्तरे चेल्हुरिति पाठः
कण्टकार्य्या दीपनः श्लेष्मशोथोदररुजं हरेत् ।वैतसो हरते दाहं शोथार्शोयोनिरुग्व्रणान्
जलवेतसजो ग्राही शीतो वातप्रकोपनः
इज्जलार्कस्तु हरते चराचरविषं स्फुटं
अङ्कोठकस्य शूलामशोथग्रहविषापहः ।बलार्को ग्राही वातास्रपित्तास्रक्षतनाशनः
अतिपूर्व्वबलार्कस्तु मूत्रातीसारनाशनः ।महाबलार्को हरते कृच्छ्रं वातानुलोमनः
नागपूर्व्वबलार्कस्तु मूर्च्छामोहहरः परः ।लक्ष्मणार्कन्तु सेवेत बन्ध्यापि लभते सुतं
स्वर्णवल्ल्याः शिरःपीडात्रिदोषान् हन्ति टुग्धदःकार्पासार्कः कर्णसंस्थः कर्णरोगान् विनाशयेत्
वंशजः कफपित्तघ्नः कुष्ठास्रव्रणशोथजित् ।नलार्को वस्तियोन्यर्त्तिदाहपित्तविसर्पहृत्
पाट्या जयेत् ज्वरच्छर्द्दिकुष्ठतीसारहृद्रुजः ।श्वेतवृक्षोद्भवो रेकी पित्तजार्शोदरापहः
शरपुङ्खोद्भवः प्लीहान् गुल्मव्रणविषापहः ।जवासजो मदभ्रान्तिपित्तासृक्कुष्ठकासजित्
मण्डिजोऽत्यन्तबलकृत् प्लीहमोहानिलार्त्तिजित् ।अपामार्गभवश्छर्द्दिकफमेदोऽनिलापहः
आरक्तापामार्गभवो धातुस्तम्भनकारकः ।कोकिलाक्षभवः शीघ्रं सेकाच्छोफान्निवारयेत्
अस्थिसंहारिकायास्तु भग्नसन्धानकृच्छिवे ।कुमारिकाया उत्थोऽग्रिदग्धविस्फोटकान् जयेत्
पुनर्नवायाः श्वेतायाः सर्व्वनेत्रामयापहः ।पुनर्नवाया रक्ताया ग्राही पित्तास्रनाशनः
प्रसारिण्या वातहरो वृष्यः सन्धानकृत् सरः ।सारिवाया वह्निमान्द्यकासामविषनाशनः
भृङ्गराजस्य दत्तोऽर्कः केश्यस्त्वच्यः शिरोऽर्त्तिहृत् ।शणपुष्पीलतायास्तु अर्कः पित्तकफान्तकः
त्रायन्त्यर्कः शूलविषविलेपीज्वरनाशनः ।मूर्व्वाया मोहहृद्रोगकण्डूकुष्ठज्वरापहः
काकमाच्या नेत्रहितश्छर्दिहृद्रोगनाशनः ।काकनासाभवो वामी शोथार्शश्चित्रकुष्ठहृत्
काकजङ्घोद्भवो हन्यात् ज्वरकण्डूविषक्रिमीन् ।नागिन्यास्तु हरेच्छूलयोनिदोषवमिक्रिर्मीन्
मेषशृङ्ग्याः श्वासकासव्रणश्लेष्माक्षिशूलहा ।हंसपाद्या हन्ति शूलभूतरक्तविषव्रणान्
सोमवल्ल्यास्त्रिदोषघ्नः क्षीरहृच्च रसायनः ।आकाशवल्ल्याः शीतोऽर्कः पित्तश्लेष्मामनाशनः
पातालगरुडीजातोऽर्को वृष्यः पवनापहः ।वृन्दावृक्षोद्भवोऽर्कस्तु विषरक्षोव्रणापहः
वटपत्रीभवश्चोष्णो योनिमूत्रगदापहः ।हिङ्गुपत्र्या विबन्धार्शःश्लेष्मगुल्मानिलापहः
वंशपत्र्याः पाचनोष्णो हृद्वस्तिगदसंघहृत् ।मत्स्याक्ष्यर्को ग्राहिशीतकुष्ठपित्तकफास्रजित्
सर्पाक्ष्या रोपणः सर्पवृश्चिकोन्दुरदंशहृत् ।शङ्खपुष्प्या विषहरः स्मृतिकान्तिबलाग्निदः
अर्कपुष्प्याः कृमिश्लेष्ममेहपित्तविकारजित् ।लज्जालुकाया भगरुग्रक्तपित्तातिसारहृत्
अलम्बु षासम्भवोऽर्कः कृमिपित्तकफापहः ।दुग्धिकायाः कफहरो वृष्यस्तम्भी क्रिमिप्रणुत्
भूम्यामल्याः कासतृष्णाकफपाण्डुक्षतापहः ।ब्राह्म्या बुद्धिप्रदश्चार्कः षण्मासाभ्यासतः कविः
ब्रह्ममण्डुकिका पाण्डुविषशोथज्वरान् हरेत् ।द्रोणपुष्प्या ज्वरश्वासकामलाशोथजन्तुजित्
सूर्य्यमुख्या हरेत् स्फोटयोनिरुक्कृमिपाण्डुताः ।बन्ध्याकर्कोटिकाजातः सर्पदर्पव्रणापहः
मार्कण्डिकाया दुर्गन्धविषगल्मोदरापहः ।देवदाल्याः शूलगुल्मश्लेष्मार्शोवातजित् परः
धत्तूरजो ग्राहिहिमो वह्निकृद्व्रणदाहहा ।गोजिह्वाया मेहकासव्रणसारज्वरापहः
नागपुष्प्याः सर्पविषसर्व्वग्रहनिवारणः ।वेल्लन्तरो मूत्रघातास्मरीयोन्यनिलार्त्तिजित्
छिक्कन्या वह्निरुचिकृदर्शःकुष्ठकृमिप्रणुत् ।कौकुन्दरो ज्वरं रक्तं मुखशोषं कफं हरेत्
सुदर्शनार्कश्चात्युष्णः कफशोथास्रवातजित्” ।इति श्रीलङ्कानाथकृतार्कचिकित्सायामौषध्यर्क-विधानं तृतीयशतकं
*
अतःपरं नानौषध-विधानं चतुर्थशतकं नानारोगनिवारणार्थंपञ्चमशतकं विस्फोटकनिवारणार्थं षष्ठशतकं ।क्षुद्ररोगादेर्निवारणं सप्तमशतकं कार्म्मणं ना-माष्टमशतकं गणसंख्या नवमशतकं धातु-शुद्धिर्दशमशतकं एतत् सर्व्वं अर्कप्रकाशेरावणमन्दोदरीसंवादे अस्ति बाहुल्यभिया नलिखितं
(“अर्कक्षीरं सुधाक्षीरं तिक्ततुम्ब्याश्च पल्लवाः ।करञ्जो वस्तमूत्रञ्च लेपनं श्रेष्ठमर्शसां”
इति चक्रपाणिसङ्ग्रहः
*
“अर्कानर्ककरञ्जद्वयनागदन्तीमयूरकभार्गीरास्ने-न्द्रपुष्पीक्षद्रश्वेतामहाश्वेतावृश्चिकाल्यलवणा स्तापसवृक्षश्चेति” इति अर्कादिगणः
“अर्कादिको गणो ह्येष कफमेदोविषापहः ।क्रिमिकुष्ठप्रशमनो विशेषाद्व्रणशोधनः”
इति सुश्रुतः
)
कृदन्तरूपमाला
Sanskrit
1 {@“अर्क स्तवने”@} 2 ‘तपने’ इत्येके।
अर्ककः-र्किका, अर्चि 3 कयिषकः-षिका
अर्कयिता-त्री, अर्चिकयिषिता-त्री
अर्कयन्-न्ती, अर्चिकयिषन्-न्ती
अर्कयिष्यन्-न्ती-ती, अर्चिकयिषिष्यन्-न्ती-ती
अर्कयमाणः, अर्चिकयिषमाणः
अर्कयिष्यमाणः, अर्चिकयिषिष्यमाणः
4 अर्क्-अर्कौ-अर्कः
अर्कित 5ः- तम्-तवान्, अर्चिकयिषितम्-तः-तवान्
अर्कः, अर्चिकयिषुः
अर्कयितव्यम्, अर्चिकयिषितव्यम्
अर्कणीयम्, अर्चिकयिषणीयम्
अर्क्य 6म्, अर्चिकयिष्यम्
ईषदर्कः, दुरर्कः, स्वर्कः
अर्क्यमाणः, अर्चिकयिष्यमाणः
अर्कः, अर्चिकयिषः
अर्कयितुम्, अर्चिकयिषितुम्
अर्कणा 7, अर्चिकयिषा
अर्कणम्, अर्चिकयिषणम्
अर्कयित्वा, अर्चिकयिषित्वा
समर्क्य, समर्चिकयिष्य
अर्कम् २, अर्कयित्वा २, अर्चिकयिषम्
अर्चिकयिषित्वा
8
प्रासङ्गिक्यः
01
=>
(३५)
02
=>
(१०-चुरादिः-१६४४। सक। सेट्। उभ।)
03
=>
[[१। ‘न न्द्राः संयोगादयः’ (६-१-३) इति रेफस्य द्वित्वनिषेधः।]]
04
=>
[[२। ‘रात्सस्य’ (८-२-२४) इति नियमात् ककारस्य संयोगान्तलोपो न।]]
05
=>
[[३। ‘निष्ठायां सेटि’ (६-४-५२) इति णेर्लोपः।]]
06
=>
[[आ। ‘सौधे विटङ्कजुषि पश्यति धूसितो- ऽयं राजारिकीटबलचूर्णनयातिपूज्यः। अर्क्येण तेन समरेष्वविशोठितस्त्वं संशुण्ठिताहितमदेन विजोडितोऽसि।।’ धा। का। ३-२७।]]
07
=>
[[४। ‘ण्यासश्रन्थो युच्’ (३-३-१०७) इति युच्।]]
08
=>
[पृष्ठम्००३४+ ३९]