अरोचक (arocaka)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte
Englishअरोचक [arōcaka], (-चिका )
Not shining or bright.
Causing loss of appetite, producing loathing or disgust.-कः Loss of appetite
disgust, loathing.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishApte Hindi
Hindiअरोचक
"वि*, न* त*" - -
जो चमकीला न हो
अरोचक
"वि*, न* त*" - -
भूख मंद करने वाला
अरोचकः
- -
"भूख का कम लगना, अरुचिकर, जुगुप्सा।"
Shabdartha Kaustubha
Kannadaअरोचक
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಅಜೀರ್ಣ ರೋಗವುಳ್ಳ
Schmidt Nachtrage zum Sanskrit Worterbuch
GermanWordnet
Sanskrit अरोचक, नीरस, निस्सार, असार, रसहीन, अमनोज्ञ, श्रोत्रविकल
यद् रोचकं नास्ति।
"एषा कथा भवतां कृते अरोचिका स्यात् किन्तु मह्यं बहु रोचते।"
शब्दकल्पद्रुमः
Sanskritअरोचकः, (न रोचयति प्रीणयति, रुच् +णिच् + ण्वुल्, नञ्समासः ।) रोगविशेषः ।अरुचिरोग इति भाषा । तस्य निदानरूपे ।“वातादिभिः शोकभयातिलोभ-क्रोधैर्मनोघ्नाशनरूपगन्धः ।अरोचकाः स्युः परिशिष्टदन्तःकषायवक्त्रोऽस्य मतोऽनिलेन ॥
कद्वम्लमुष्णं विरसञ्च पूतिपित्तेन विद्याल्लवणञ्च वक्त्रं ।माधुर्य्यपैच्छिल्यगुरुत्वशैत्य-विबद्धसम्बन्धयुतं कफेन” ॥
इति माधवकरः ॥
अरोचकाः न भोजने रुचिमुत्पादयन्तीत्यरोचकाव्याधयः पञ्च वातजादिभेदैः ॥
* ॥
वातिकस्य ल-क्षणमाह । परिहृष्टदन्तः अम्लभक्षणेनेव परि-हृष्टो दन्तो यत्र सः । तथा कषायवक्त्रः । कषाय-रसं वक्त्रं यत्र सः ॥
* ॥
पैत्तिकमाह ।“कट्वम्लमुष्णं विरसञ्च पूतिपित्तेन विद्याल्लवणञ्च वक्त्रं” ।कट्वम्लमित्यादिना विद्यादित्यन्तेन पैत्तिकस्य ल-क्षणं ॥
* ॥
श्लैष्मिकमाह । लवणञ्च वक्त्रं कफज-लक्षणेन पठनीयः । यतो विदग्धः श्लेष्मा लवण-भावमुपैति ।“माधुर्य्यपैच्छिल्यगुरुत्वशैत्य-स्निग्धत्वदौर्गन्धयुतं कफेन” ।पैच्छिल्यं मुखस्याभ्यन्तरे । स्निग्धत्वं वहिः ॥
* ॥
आगन्तुजमाह ।“अरोचके शोकभयातिलोभात्क्रोधाद्यहृद्याशुचिगन्धजे स्यात् ।स्वाभाविकं चास्यमथारुचिश्चत्रिदोषजे नैकरसम्भवेच्च” ॥
क्रोधादित्यादिशब्देनाहृद्ययोरशनरूपयोर्ग्रहणं ।स्वाभाविकं । अविकृतरसं ॥
* ॥
त्रिदोषजमाह ।नैकरसं अनेकरसमास्यं स्यात् । वातजादिभेदेनमुखे विकृतिमभिधायान्यदेशे विकृतिमाह ।“हृच्छ्रलपीडनयुतं पवनेन पित्तात्तृड्दाहचोषबहुलं सकफप्रसेकं ।श्लेष्मात्मकं बहुरुजं बहुभिश्च विद्यात्वैगुण्यमोहजडताभिरथापरञ्च” ॥
हृच्छलपीडनयुतं हृदि शूलेन पीडनं तेन युतं ।चोषः पार्श्वस्थिताग्निनेव सन्तापः । बहुभिस्त्रिभि-र्दोषैः । बहुरुजं उक्तवातादिरोगयुक्तं । वैगुण्यंमनसो व्याकुलत्वं । जडता शून्याङ्गता । अपरंआगन्तुजं । भक्तद्वेषाभक्तच्छन्दौ चरकसुश्रुताभ्या-मरोचकत्वेनैव संगृहीतौ ॥
* ॥
वृद्धभोजस्त्वेषांलक्षणानि पृथगाह ।“प्रक्षिप्तन्तु मुखे चान्नं यत्र नास्वादते नरः ।अरोचकः स विज्ञेयो भक्तद्वेषमतः शृणु” ॥
आस्वादते अन्नस्य मिष्टतां न प्राप्नोति । तदन्नंमिष्टं न लगति इति यावत् ।“चिन्तयित्वा तु मनसा दृष्ट्वा स्पुष्ट्वा च भोजनं ।द्वेषमायाति योजन्तुर्भक्तद्वेषः स उच्यते ॥
कुपितस्य भयार्त्तस्य तथा भक्तनिरोधतः ।यत्र नान्ने भवेच्छुद्धः सोऽभक्तच्छन्द उच्यते” ॥
* ॥
अथारोचकस्य चिकित्सा ।“भोजनाग्रे सदा पथ्यं लवणार्द्रकभक्षणं ।रोचनं दीपनं वह्नेर्जिह्वाकण्ठविशोधनं ॥
१ ॥
शृङ्गवेररसञ्चापि मधुना सह योजयेत् ।अरुचिश्वासकासघ्नं प्रतिश्यायकफापहं ॥
२ ॥
पक्वाम्लिका सिता शीतवारिणा वस्त्रगालिता ।एलालवङ्गकर्पूरमरिचैरवधूलिता ॥
पानकस्यास्य गण्डूषं धारयित्वा मुखे मुहुः ।अरुचिं नाशयत्येव पित्तं प्रशमयेत्तथा” ॥
अम्लिकापानं ॥
३ ॥
“राजिका जीरको भृष्टो भृष्टं हिङ्गु सनागरं ।सैन्धवं दधि गोः सर्व्वं वस्त्रपूतं प्रकल्पयेत् ॥
तावन्मात्रं क्षिपेत्तत्र यथा स्याद्रुचिरुत्तमा ।तक्रमेतद्भवेत् सद्व्यो रोचनं वह्निवर्द्धनं” ॥
तक्रं ॥
४ ॥
“गव्यमावर्त्तितं दुग्धं निबद्धं दधि माहिषं ।एकीकृत्य पटे घृष्टं शुभ्रशर्क्करया समं ॥
एलालवङ्गकर्पूरमरिचैश्च समन्वितं ।नाम्ना शिखरिणी कुर्य्यात् रुचिं सकलवल्लभा ॥
शिखरिणी ॥
५ ॥
द्वे पले दाडिमादष्टौ खण्डाद्व्योषंपलत्रयं ।त्रिसुगन्धिपलञ्चैकं चूर्णमेकत्र कारयेत् ॥
तच्चूर्णं मात्रया भुक्तमरोचकहरं परं ।दीपनं पाचनञ्च स्यात् पीनसज्वरकासजित्” ॥
दाडिमादिचूर्णं ॥
६ ॥
“लवङ्गकक्कोलमुशीरचन्दनंनतं सनीलोत्पलकृष्णजीरकं ।जलं सकृष्णागुरुभृङ्गकेसरंकणा सविश्वा नलदं सहैलया ॥
तुषारजातीफलवंशरोचना-सिताभ्रभागाः सकलं विचूर्णितं ।सुरोचनं तर्पणमग्निदीपनंबलप्रदं वृष्यतमन्त्रिदोषजित् ॥
उरोविबन्धं तमकं गलग्रहंसकासहिक्कारुचियक्ष्मपीनसं ।ग्रहण्यतीसारमुरक्षतं तृषांतथा प्रमेहान्निखिलान्निहन्ति हि” ॥
कक्कोलं फलं सुगन्धविशेषः । नतं तगरं । जलंबालकं । भृङ्गं त्वक् । नलदमुशीरं । तुषारः कर्पूरः ।लवङ्गादिचूर्णं ॥
७ ॥
इत्यरोचकाधिकारः । इतिभावप्रकाशः ॥
(“यवागूः पञ्चकोलस्य कुलत्थाढक्ययूषकं ।मुद्गयूषेण वा सम्यक् भक्तानां भोजनं हितं ॥
सहिङ्गुत्र्युषणाढ्यञ्च व्यञ्जनं संप्रशस्यते ।अगस्तिघृतवत् श्रेष्ठं भोजनारोचकेष्वपि ॥
कारवेल्लं पटोलञ्च पलाण्डुः शुरणं शठी ।लवणं धान्यकं श्रेष्ठं प्रलेहञ्च कटुत्रिकं ॥
शठीसर्षपवास्तूकं शतपुष्पा यमानिका ।तुण्डीरकस्य मूलानां शाकं श्रेष्ठं प्रशस्यते ॥
गोधूमपुलिका श्रेष्ठा भृष्ट्वाङ्गारैररोचके ।जाङ्गलानि च मांसानि भोजयेद्भिषगूत्तमः” ॥
इति हारीतोक्तपथ्यादिनियमः ॥
* ॥
“अरुचौ कवलो ग्राह्यो धूमाः समुखधावनाः ।मनोज्ञमन्नपानञ्च हर्षणाश्वासनानि च ॥
कुष्ठसौवर्च्चलाजाजी शर्करामरिचं विडं ।धात्रेलापद्मकोशीरपिप्पल्युत्पलचन्दनं ॥
लोध्रं तेजोवती पथ्या त्र्यूषणं सयवाग्रजं ।आर्द्रा दाडिमनिर्य्यासाश्चाजाजी शर्करायुतः ॥
सतैलमाक्षिकास्त्वेते चत्वारः कवलग्रहाः ।चतुरोऽरोचकान् हन्युर्व्वाताद्येकजसर्व्वजान् ॥
कारवी मरिचाजाजी द्राक्षावृक्षाम्लदाडिमं ।सौवर्ञ्चलं गुडं क्षौद्रं सर्व्वारोचकनाशनं ॥
वस्तिः समीरणे पित्ते विरेकं वमनं कफे ।कुर्य्याद्धृद्यानुकूलानि हर्षणञ्च मनोघ्नजे” ॥
इति चरकोक्तास्यचिकित्सा । सनिदानलक्षणां चि-कित्साञ्चाह ॥
* ॥
सुश्रुतः ।“दोषैः पृथक् सह च चित्तविपर्य्ययाञ्च, भक्तायनेषु हृदि चावतते प्रगाढं ।नान्नेऽरुचिर्भवति तं भिषजो विकारं, भक्तोपघातमिह पञ्चविधं वदन्ति ॥
हृच्छूलपीडनयुतं विरसाननत्वं, वातात्मके भवति लिङ्गमरोचके तु ।हृद्दाहचोषबहुता मुखतिक्तता च, मूर्च्छा सतृड् भवति पित्तकृते तथैव ॥
कण्डूगुरुत्वकफसंस्रवसादतन्द्राः, श्लेष्मात्मके मधुरमास्यमरोचके तु ।सर्व्वात्मके पवनपित्तकफा बहूनि, रूपाण्यथास्य हृदये समुदीरयन्ति ॥
संरागशोकभयविप्लुतचेतसस्तु, चिन्ताकृतो भवति सोऽशुचिदर्शनाच्च” ॥
* ॥
चिकित्सा यथा, --“वाते वचाम्बु वमनं कृतवान् पिबेच्च, स्नेहैः सुराभिरथवोष्णजलेन चूर्णं ।कृष्णाविडङ्गयवभस्महरेणुभार्गी, रास्नैलहिङ्गुलवणोत्तमनागराणां ॥
पित्ते गुडाम्बुमधुरैर्वमनं प्रशस्तं, स्नेहः ससैन्धवसितामधुसर्पिरिष्टः ।निम्बाम्बुवामितवतः कफजेऽनुपानं, राजद्रुमाम्बुमधुना तु सदीप्यकं स्यात् ॥
चूर्णं यदुक्तमथवानिलजे तदेव, सर्व्वैश्च सर्व्वकृतमेवमुपक्रमेत ॥
द्राक्षापटोलविडवेत्रकरीरनिम्ब-मूर्व्वाभयाक्षवदरामलकेन्द्रवृक्षैः ।वीजैः करञ्जनृपवृक्षभवैश्च पिष्टै-र्लेहं पचेत् सुरभिमूत्रयुतं यथावत् ॥
मुस्तां वचां त्रिकटुकं रजनीद्वयञ्च, भार्गीञ्च कुष्ठमथ निर्दहनीञ्च पिष्ट्वा ।मूत्रेऽविजे द्विरदमूत्रयुते पचेद्वा, पाठान्तगामतिविषां रजनीञ्च मुख्यां ॥
मण्डूकिमर्कममृताञ्च सलाङ्गलाख्यां, मूत्रे पचेत्तु महिषस्य विधानविद्वा ।एतान्न सन्ति चतुरो लिहतस्तु लेहान्, गुल्मारुचिश्वसनकण्ठहृदामयाश्च ॥
सात्म्यान् स्वदेशरचितान् विविधांश्च भक्ष्यान्, पानानि मूलफलषाडवरागयोगान् ।अद्याद्रसांश्च विविधान् विविधैः प्रकारै-र्भुञ्जीत वापि लघुरूक्षमनःसुखानि ॥
आस्थापनं विधिवदत्र विरेचनञ्च, कुर्य्यान्मृदूनि शिरसश्च विरेचनानि ।त्रीण्यूषणानि रजनीत्रिफलायुतानि, चूर्णीकृतानि यवशूकविमिश्रितानि ॥
क्षुद्रायुतानि वितरेन्मुखधावनार्थ-मन्यानि तिक्तकटुकानि च भेषजानि ।मुस्तादिराजतरुवर्गदशाङ्गसिद्धैः, क्वाथैर्जयेन्मधुयुतैर्विविधैश्च लेहैः ॥
मूत्रासवैर्गुडकृतैश्च तथात्वरिष्टैः, क्षारासवैश्च मधुमाधवतुल्यगन्धैः ।स्यादेषएव कफवातहते विधिश्च, शान्तिं गते हुतभुजि प्रशमाय तस्य ॥
इच्छाभिघातभयशोकहतेऽन्तरग्नौ, भावान् भवाय वितरेत् खलु शक्यरूपान् ।अर्थेषु चाप्यपचितेषु पुनर्भवाय, पौराणिकैः श्रुतिपथैरनुमानयेत्तं ॥
दैन्यं गते मनसि बोधनमत्र शस्तं, यद्यत् प्रियं तदुपसेव्यमरोचके तु ॥
* ॥
रसगन्धौ समौ शुद्धौ दन्तीक्वाथेन भावयेत् ।जम्बीरस्य रसैर्वापि आर्द्रकस्य रसेन वा ॥
मातुलुङ्गस्य तोयेन तस्य मज्जरसैर्बुधः ।पश्चाद्विशोष्य सर्व्वांस्तान् टङ्गणञ्चावचारयेत् ॥
देवपुष्पं बाणमितं रसपादं मृतामृतं ।मासमात्रञ्च तत् सर्व्वं नागरेण गुडेन वा ॥
सर्व्वारोचकशूलार्त्तिमामवातं सुदारुणं ।सोऽयं निवारयत्याशु केशरी करिणं यथा” ॥
सुधानिधिरसः ॥
* ॥
इति वैद्यकरसेन्द्रसार-संग्रहः ॥
)
वाचस्पत्यम्
Sanskritअरोचक न रोचयति प्रीणयति ऋच + णिच्--ण्वुल् त० ।रोगभेदे यत्र क्वचिदपि द्रव्ये भोजनादौ न प्रीतिस्तादृशेरोगे स च सुश्रुतोक्तः । ‘दोषैः पृथक् सहजचित्तविपर्य्य-याच्च भक्तायनेषु हृदि चावतते प्रगाढम् । नान्ने रुचि-र्भवति तं भिषजो विकारं भक्तोपघातमिह पञ्चविधंवदन्ति । हृच्छूलपीडनयुतं विरसाननत्वं वातात्मके भवतिलिङ्गमरोचके तु । हृद्दाहशोषबहुता मुखतिक्तता चमूर्च्छा सतृड् भवति पित्तकृते तथैव । कण्डू गुरुत्वकफ-संस्रवसादतन्द्राः श्लेष्मात्मके मधुरमास्यमरोचके तु ।सर्व्वात्मके पवनपित्तकफा बहूनि रूपाण्यथास्य हृदयेसमुदीरयन्ति । संरागशोकभयविप्लुतचेतसस्तु चिन्ताकृतेभवति सोऽशुचिदर्शनाच्च” इति । “गुल्मान् प्लीहोदरंकालं हलीसकमरोचकम्” इति सुश्रुतः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
