| YouTube Channel

अरुष्करः (aruSkaraH)

 
E Bharati Sampat
Sanskrit
(पु) अरुः वृणं करोति अरुस्+डु कृञ्(करणे)+टः। ‘दिवा०धनुरुष्षु’ ३.२.२१। १.भल्लातकवृक्षः। (वि) २.वृणकरः, क्षतकारकः। (न) भल्लातकफलम् ‘अरुष्करं वृणकरे भल्लातकफलेऽपि च’ हैमः।१.जअ
शब्दकल्पद्रुमः
Sanskrit
अरुष्करः,
पुं,
(अरुः करोति, अरुः + कृ + ट, षत्वंउपपदसमासः ।) भल्लातकवृक्षः इति शब्द-रत्नावली
अरुष्करः, त्रि, (अरुः करोति, अरुः + कृ + ट, षत्वं, उपपदसमासः ।) व्रणकरः क्षतकारकः ।इति मेदिनी