| YouTube Channel

अरुन्तुदः (aruntudaH)

 
E Bharati Sampat
Sanskrit
(वि) अरून् मर्माणि तुदति अरुस्+तुद(व्यथने)+खच्+मुम् ‘विध्यरुषोस्तुदः’ ३.२.३५। ‘संज्ञायां भृ०दमः’ ३.२.४६। ‘अरुर्द्विषदजन्तस्य मुम्’ ६.३.६७। ‘अरुन्तुदं तु मर्मस्पृक्’ अमरः। ‘अरुन्तुदमिवालानमनिर्वाणस्य दन्तिनः’ रघुः१.७१।
शब्दकल्पद्रुमः
Sanskrit
अरुन्तुदः, त्रि, (अरूंषि मर्म्माणि तुदति, तुद् +खश् + मुम् ।) मर्म्मपीडकः तत्पर्य्यायः ।मर्म्मस्पृक् इत्यमरः
(परुषः कठोरः ।श्रवणकटुः “माकन्दं मकरन्दतुन्दिलममुं गा-हस्व काकः स्वयं कर्णारुन्तुदमन्तरेण रुणितंत्वां मन्महे कोकिलं” इति भामिनीविलासे ।मर्म्मपीडाकरः हृदयग्रन्थिरूपमर्म्मस्थानस्पर्श-कारी यथा, “नारुन्तुदः स्यादार्त्तोऽपि परद्रोहकर्म्मधीः” ।इति मनुः ।“तीक्ष्णा नारुन्तुदा बुद्धिः कर्म्म शान्तं प्रतापवत्” ।इति माघः“अरुन्तुदमिवालानमनिर्व्वाणस्य दन्तिनः” ।इति रघुवंशे ।)