अरुणोदयसप्तमी (aruNodayasaptamI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
Englishअरुणोदयसप्तमी - aruNodayasaptamI - - seventh day in the bright half of mAgha
Shabdartha Kaustubha
Kannadaअरुणोदयसप्तमी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಮಾಘ ಶುಕ್ಲ ಸಪ್ತಮಿ /ರಥಸಪ್ತಮಿ
प्रयोगाः - > "माघे मासे सिते पक्षे सप्तमी कोटिभास्करा । दद्यात् स्नानार्घदानाभ्यामायुरारोग्यसम्पदः ॥"
उल्लेखाः - > भविष्यपु०
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
E Bharati Sampat
Sanskrit(स्त्री) अरुणोदयकाले पुण्यविशेषजनिका सप्तमी । माघशुक्लसप्तमी, माकरीसप्तमी, रथसप्तमी । ‘सूर्यग्रहणतुल्या हि शुक्ला माघस्य सप्तमी । अरुणोदयवेलायां तस्यां स्नानं महाफलम्’ भविष्यपु०।
Wordnet
Sanskrit अरुणोदयसप्तमी
माघमासस्य शुक्लपक्षस्य सप्तमी।
"अरुणोदयसप्तम्याम् अरुणोदये कृतं स्नानं शुभं मन्यते।"
शब्दकल्पद्रुमः
Sanskritअरुणोदयसप्तमी, (अरुणोदयकाले पुण्य-विशेषजनिका या सप्तमी ।) माघशुक्लसप्तमी ।माकरी सप्तमी । यथा । भविष्ये ।“सूर्य्यग्रहणतुल्या हि शुक्ला माघस्य सप्तमी ।अरुणोदयवेलायां तस्यां स्नानं महाफलं ॥
माघे मासि सिते पक्षे सप्तमी कोटिभास्करा ।दद्यात् स्नानार्घदानाभ्यामायुरारोग्यसम्पदः ॥
अरुणोदयवेलायां शुक्ला माघस्य सप्तमी ।गङ्गायां यदि लभ्येत सूर्य्यग्रहशतैः समा” ॥
कोटिभास्करा कोटिसप्तमीतुल्या । सूर्य्यग्रहण-फलं स्नानजं सन्निहिते बुद्धिरन्तरङ्गा इतिन्यायात् । तेन बहुशतसूर्य्यग्रहणकालीनगङ्गा-स्नानजन्यफलसमफलप्राप्तिः फलमत्र ज्ञेयं । अत्रबहुशतसूर्य्यग्रहाणां प्रत्येकाधिकरणतासंसर्गे-णान्वयात् कालानां स्नानानां तत्फलानामपि बहु-शतत्वं लभ्यते । अतो नाप्रसिद्धिः ॥
* ॥
पूर्ण-सप्तम्यां पूर्व्वापरयोर्यत्रारुणोदयकाले सप्तमी तत्रपूर्व्वदिने तत्काले स्नानं ।“चतस्रो घटिकाः प्रातरुणोदय उच्यते ।यतीनां स्रानकालोऽयं गङ्गाम्भःसदृशः स्मृतः ॥
त्रियामां रजनीं प्राहुस्त्यक्त्वाद्यन्तचतुष्टयं ।नाडीनां तदुभे सन्ध्ये दिवसाद्यन्तसंज्ञिते” ॥
इति कालमाधवीयधृतब्रह्मवैवर्त्तीयेन पूर्व्वस्य तत्-कालस्य पूर्णतिथिसम्बन्धिदिनकर्त्तव्यकर्म्माङ्गत्वेनइतरस्य चेतराङ्गत्वेनाभिधानात् । अतएव दक्षेणतत्कालमारभ्याह्निककृत्यमभिहितं ॥
* ॥
अत्रा-रुणोदयकाले मुहूर्त्तान्यूनतिथिलाभ एव स्नानं ।“व्रतोपवासस्नानादौ घटिकैका यदा भवेत् ।उदये सा तिथिर्ग्राह्या श्राद्धादावस्तगामिनी” ॥
इति विष्णुधर्म्मोत्तरात् । अत्र घटिका मुहूर्त्तंश्राद्धयोग्यकालानुरोधादिति वक्ष्यते । ब्रह्मवैवर्त्त-वचने घटिका दण्डरूपा । षरवचने नाडीनामा-द्यन्तचतुष्टयमित्येकवाक्यत्वात् ॥
* ॥
ये तु सूर्य्यो-दयात् प्रागपि प्रातःस्नानविधानात् तत्रैव माघ-सप्तम्याख्यगुणफलविधिर्लाघवादित्याहुस्तच्चिन्त्यं ।प्रकरणान्यत्वे प्रयोजनान्यत्वं इति जैमिनिसूत्रेणप्रकरणमेदे गुणविध्यसिद्धेः । अतएव कल्पतरु-रत्नाकरयोः ।“य इच्छेद्विपुलान् भीगान् चन्द्रसूर्य्यग्रहोपमान् ।प्रातःस्नायी भवेन्नित्यं द्वौ मासौ माघफाल्गुनौ” ॥
इति । विष्णुस्मृतौ । “यथाहनि तथा प्रातर्नित्यंस्नायादनातुरः” । इति नित्यस्नानप्रकरणात् प्रक-रणान्तरास्नानात् प्रकरणान्तराधिकरणन्यायेनकाम्यस्नानान्तरमिदमप्युक्तं । न तु गुणफलविधिः ।किन्तु काम्यकरणे प्रसङ्गान्नित्यसिद्धिरिति ॥
* ॥
अत्र माघमासनिमित्तकमाघसप्तमीनिमित्तक-काम्यस्नानयोः प्रातर्विधानात् नैमित्तिकत्वेन प्राय-श्चित्तवत् सकृदनुष्ठानं । “प्रधानस्याक्रिया यत्रसाङ्गं तत् क्रियते पुनः । तदङ्गस्याक्रियायान्तुनावृत्तिर्न च तत्क्रिया” ॥
इति कात्यायनवचनात् ।“न स्नानमाचरेद्भुक्त्वा नातुरो न महानिशि ।न वासोमिः सहाजस्रं नाविज्ञाते जलाशये” ॥
इति मनुवचनेनैकदाजस्रस्नाननिषेधात् ।“धर्म्मविन्नाचरेत् स्नानमाह्निकञ्च पुनः पुनः” ॥
इति मनुवचनाच्च । अतएव नान्दीमुखप्रकरण-शेषे प्रधानानामपि काम्यानां तत्तद्देशकाल-विहितानां तन्त्रेणैव सिद्धिरिति श्राद्धचिन्ता-मणिः ॥
निष्कामविष्णुप्रीतिकामयोः सुतरां सकृ-दनुष्ठानं । गुणतारतम्यात् फलतारतम्यं इतिन्यायेन फलं बोध्यं । तत्तु इक्षुक्षीरगुडादिमाधुर्य्य-भेदवन्निर्द्देष्टुमशक्यं ।“पक्षान्तरेऽपि कन्यास्थे रवौ श्राद्धं प्रशस्यत ।कन्यागते पञ्चमे तु विशेषेणैव कारयेत्” ॥
इति हेमाद्रिधृतादित्यपुराणोक्तवत् । एतद्वचन-प्रागर्द्धं कार्त्तिकमलमासाब्दविषयं ।“देशकालाश्रमक्षेत्रद्रव्यदातृमनोगुणाः ।सुकृशस्यापि दानस्य फलातिशयहेतवः” ॥
इति ब्रह्मपुराणोक्तवच्च ॥
* ॥
तीर्थभेदे त्वेकदापिनानास्नानं ।“विषुवद्दिवसे प्राप्ते पञ्चतीर्थी विधानतः” ।इति ब्रह्मपुराणादिवचनात् । “तीर्थभेदे तन्त्र-प्रसङ्गयोरसम्भवाच्च” । अतएव गङ्गावाक्यावली-तीर्थचिन्तामण्योः । यत्तु प्रयागे त्र्यहस्नाने क्रोडी-कृतेऽपि माघसप्तमीस्नानादावसाधारणसङ्कल्पेनपुनस्तथैव प्रातःस्नानाचरणं तद्युक्तं तदा सकृत्-स्नानस्यैव विहितत्वात् । अन्यथा तत्त्र्यहफल-कामनायां तदानन्त्यापत्तेरित्युक्तं ॥
* ॥
स्नानेपरिपाटीमाह कृत्यकल्पलतायां विष्णुः । सप्त-वदरपत्राणि सप्तार्कपत्राणि च शिरसि निधाय ।“यद्यज्जन्मकृतं पापं मया सप्तसु जन्मसु ।तन्मे रोकञ्च शोकञ्च माकरी हन्तु सप्तमी” ॥
इत्युच्चार्य्य स्नायादितिशेषः । रोकं छिद्रं । तिथि-कृत्यस्य पौर्णमास्यन्तमासाङ्गकत्वात् माकरीपदंमकरार्कारब्धचान्द्रमासीयतिथिपरं ।“तिथिकृत्ये च कृष्णादिं व्रते शुक्लादिमेव च ।विवाहादौ च सौरादिं मासं कृत्ये विनिर्द्दिशेत्” ॥
इति ब्रह्मपुराणान्मन्वन्तरादित्वेन तथा युक्त-त्वाच्च । यथा मत्स्यपुराणे ।“यस्मान्मन्वन्तरादौ तु रथमापुर्द्दिवाकराः ।माघमासस्य सप्तम्यां तस्मात् सा रथसप्तमी ॥
अरुणोदयवेलायां तस्यां स्नानं महाफलं” ।अतएव नारसिंहे रथ्याख्यायामित्युक्तं । यथा, --“महानवम्यां द्वादश्यां भरण्यामपि चैव हि ।तथाक्षयतृवीयायां शिष्यान्नाध्यापयेद्बुधः ॥
माघमासे तु सप्तम्यां रथ्याख्यायान्तु वर्ज्जयेत्” ।द्वादश्यां शयनोत्थानद्वादश्यां । भरण्यां शक्रध्वज-पातभरण्यामिति कल्पतरुः ॥
अत्र महानवम्यादि-साहचर्य्याच्चान्द्रत्वं प्रतीयते । अतएव चतुर्द्दश-मन्वन्तरादिगणने क्वापि न राश्युल्लेखः । यथा ।भविष्यमत्स्ययोः ।“अश्वयुक् शुक्लनवमी द्वादशी कार्त्तिकी तथा ।तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥
फाल्गुनस्याप्यमावास्या पौषस्यैकादशी तथा ।आषाढस्यापि दशमी तथा माघस्य सप्तमी ॥
श्रावणस्याष्टमी कृष्णा तथाषाढस्य पूर्णिमा ।कार्त्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी सिता ॥
मन्वन्तरादयस्त्वेता दत्तस्याक्षयकारिकाः” ।अत्र अमावास्याष्टमीव्यतिरिक्ताः शुक्लाः पुनः-पुनस्तथापदोपाकीर्त्तनादानात् । उपक्रमोपसंहा-रयोः शुक्लत्वकीर्त्तनाच्च ॥
अत्र कामधेनौ तृतोयाचैव माघस्येति । कल्पतरौ तु तृतीया चैत्रमास-स्येति लिखितं । अत्र पाठद्वैधे श्रीपतिरत्नमा-लायां । “अश्वयुजि शुक्लनवमी द्वादश्यूर्ज्जे मधौतृतीया च” । इति पाठाच्चैत्रतृतीयैव ग्राह्या ।श्रीदत्तोऽप्येवं । माघसप्तम्याश्चान्द्रत्वं सौरागमेऽपि ।“अर्कपत्रैः सवदरैर्दूर्व्वाक्षतसचन्दनैः ।अष्टाङ्गविधिना चार्घ्यं दद्यादादित्यतुष्टये ॥
माघेऽथ फाल्गुने वापि भवेद्वै माघसप्तमी ।माकरीति च यत्प्रोक्तं तत्प्रायोवृत्तिदर्शनात्” ॥
अष्टाङ्गविधिना ।“योऽष्टाङ्गमर्घ्यमापूर्य्य भानोर्मूर्ध्नि निवेदयेत् ।ताम्रपात्रार्घ्यदानेन पुण्यं दशगुणं स्मृतं” ॥
इति भविष्यपुराणीयेन । आदित्यपुराणे ।“ऋक्षराशिविशेषेण यत्कर्म्म विहितं नरैः ।दैवं वाप्यथवा पैत्र्यं तदन्यत्रापि दृश्यते” ॥
* ॥
अर्घ्यमन्त्रस्तु ।“जननी सर्व्वभूतानां सप्तमी सप्तसप्तिके ।सप्तव्याहृतिके देवि ! नमस्ते रविमण्डले” ॥
प्रणाममन्त्रस्तु ।“सप्तसप्तिवहप्रीत सप्तलोकप्रदीपन ।सप्तम्यां हि नमस्तुभ्यं नमोऽनन्ताय वेधसे” ॥
सप्तिरश्वः । इति तिथ्यादितत्त्वं ॥
वाचस्पत्यम्
Sanskritअरुणोदयसप्तमी स्त्री अरुणोदयकाले पुण्यविशेषसाधनंसप्तमी । माघशुक्लसप्तम्याम् । “सूर्य्यग्रहेण तुल्या हि शुक्लामाघस्य सप्तमी । अरुणोदयवेलायां तस्यां स्नानं महाफलम् ।माघे मासि सिते पक्षे सप्तमी कोटिभास्करा । दद्यात् स्ना-नार्घदानाभ्यामायुरारोग्यसम्पदः । अरुणोदयवेलायां शुक्लामाघस्य सप्तमी । गङ्गायां यदि लभ्येत सूर्य्यग्रहशतैःसमेति” ति० त० भविष्य ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
