| YouTube Channel

अरिष्टनेमिः (ariSTanemiH)

 
Hindi
Hindi
गरुड़ के लिए appelation?
E Bharati Sampat
Sanskrit
(पु) अरिष्टस्य नेमिः। १.जिनानां चतुर्विंशत्यन्तर्गतद्वाविंशतीर्थङ्करः, नेमिः, नेमिनाथः। ‘अरिष्टनेमिस्तु नेमिः’ हैमः। २.विनतागर्भसम्भूतः कश्यपमुनिपुत्रः। ‘तार्क्ष्यश्चारिष्टनेमिश्च०। ०विनतायाः सुताः स्मृताः’ हरिवं०। ३.वृष्णेः प्रपौत्रः चित्रकस्य पुत्रः राजा ‘चित्रकस्याभवन्पुत्राः० अरिष्टनेमिरश्वश्च’ हरिवं०। ४.प्रजापतिभेदः। ‘ये प्रजापतयोऽभवन् ०अरिष्टनेमिस्तथैव च’ रामा०।
Wordnet
Sanskrit
Synonyms:
अरिष्टनेमिः, अरिष्टनेमी
noun
जैनानां द्वाविंशतितमः तीर्थङ्करः।
"ऋग्वेदे चतुर्धा अरिष्टनेमिः वर्णितः।"
Synonyms:
अरिष्टनेमिः
noun
पौराणिकः राजा।
"अरिष्टनेमिनः पुत्र्याः सुमत्याः विवाहः राज्ञा सगरेण जातः।"
Synonyms:
नेमिनाथः, अरिष्टनेमिः
noun
जैनधर्मियाणां चतुर्विंशतौ तीर्थङ्करेषु एकः।
"नेमिनाथः जैनधर्मियाणां द्वाविंशतितमः तीर्थङ्करः आसीत्।"
शब्दकल्पद्रुमः
Sanskrit
अरिष्टनेमिः,
पुं,
(अरिष्टस्य नेमिः, षष्ठीतत्पुरुषः ।)जिनानां चतुर्व्विंशत्यन्तर्गतद्वाविंशतितीर्थङ्करः ।इति हेमचन्द्रः
(विनतागर्भसम्भूतः स्वनामख्यातःकश्यपमुनिपुत्त्रः, यथा हरिवंशे, “तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्च महाबलः ।अरुणश्चारुणिश्चैव विनतायाः सुताः स्मृताः”
वृष्णेः प्रपौत्रश्चित्रकस्य पुत्रः स्वनामख्यातो राजा, यथा, हरिवंशे, “चित्रकस्याभवन् पुत्राः पृथुर्विपृथुरेव ।अश्वग्रीवोऽश्ववाहश्च सुपार्श्वकगवेषणौ ।अरिष्टनेमिरश्वश्च सुधर्म्मा धर्म्मभृत्तथा”
स्वनामख्यातः प्रजापतिः यथा रामायणे, आदिकाले महाबाहो ये प्रजापतयोऽभवन् ।दक्षो विवस्वानपरोऽरिष्टनेमिस्तथैव ।कश्यपश्च महाभागस्तेषामासीदपश्चिमः”
)