| YouTube Channel

अरिष्टकः (ariSTakaH)

 
Apte
English
अरिष्टकः [ariṣṭakḥ],
=
अरिष्टः The soap-berry tree.
Apte 1890
English
अरिष्टकः = अरिष्टः The soap-berry tree.
E Bharati Sampat
Sanskrit
(पु) अरिष्टः एव अरिष्ट+कन्(स्वर्थे) १.फेनिलवृक्षः, रीटाकरञ्जः(रिठा) ‘कौशेयाविकयोरूषैः कुतपानामरिष्टकैः’ मनुः५.१२०। (वि) २.अशुभकारकः। ‘धेनुकारिष्टकोऽनिष्टकृद्द्वेषिणाम्’ अच्युताष्टकम् ६।
Wordnet
Sanskrit
Synonyms:
अरिष्टः, अरिष्टकः, क्षुणः, फेनिलः, रिष्टः, रिष्टकः, वस्तिकर्माढ्यः, वेणीरः, शुभः
noun
वृक्षविशेषः- यस्य फलानि केशवस्त्रादीनां संमार्जनार्थे उपयुज्यन्ते।
"तस्य प्राङ्गणे अरिष्टोऽपि अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
अरिष्टकः,
पुं,
(अरिष्ट एव स्वार्थेक ।) फेनिलवृक्षः, इति शब्दरत्नावली
रीठाकरञ्ज इति ख्यातः ।अरिष्टशब्दार्थोऽप्यत्र
रिठा इति भाषा (अस्यगुणा यथा, --“अरिष्टकस्त्रिदोषघ्नो ग्रहजिद्गर्भपातनः” ।इति एतत्फलचूर्णौर्हि कुतपानां नेपालदेशीय-कम्बलानामित्यर्थः प्रक्षालनात् शुद्धिर्भवतीति शा-स्त्रविदां मतम् यदुक्तं मनुना, “कौषेयाविकयोरूषैः कुतपानामरिष्टकैः ।श्रीफलैरंशुपट्टानां क्षौमाणां गौरसर्षपैः”
इति ।)