अरिष्टः (ariSTaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiअरिष्टः
- -
बगुला
अरिष्टः
- -
जंगली कौवा
अरिष्टः
- -
शत्रु
अरिष्टः
- -
नाना प्रकार के पौधों के नाम
अरिष्टः
- -
लहसुन
E Bharati Sampat
Sanskrit(पु) न रिष्टः। न+रिष(हिंसायाम्)+क्तः(कर्तरि) । ‘गत्यर्थाकर्मक०’ ३.४.७२। १.लशुनः। २.निम्बः। ३.फेनिलवृक्षः। ४.काकः। ५.बाणोपयोगिपत्रः कङ्कपक्षी(कंकहड) । ६.वृषभासुरः। ७.श्रीकृष्णहतः राक्षसभेदः। ‘धेनुकारिष्टहानिष्टकृद्द्वेषिणाम्’ अच्युताष्टकम् ६। (न) ८.अशुभम् । ‘अरिष्टमाशङ्क्य विपाकदारुणम्’ कुमा०१५.२६। ९.तक्रम् । १०.प्रसवगृहम्, सूतिकागारः। ‘अरिष्टशय्यां परितो विसारिणा’ रघुः३.१५। ११.मद्यम्, आसवः। ‘अरिष्टं मधुपाकेन सर्वतश्च गुणाधिकम्’ वैद्यकम् । १२.शुभम् । १३.मरणचिह्नम् । ‘रोगिणो मरणं यस्मादवश्यम्भावि लक्ष्यते । तल्लक्षणमरिष्टं स्यात्’ । ‘अरिष्टो लशुने निम्बे फेनिले काककङ्कयोः। अरिष्टमशुभे तक्रे सूतिकागार आसवे । शुभे मरणचिह्ने च’ मेदिनी । १४.उत्पातः, उपद्रवः। ‘अरिष्टं स्यादुसर्ग उपद्रवः’ हैमः। (वि) १५.क्षेमकरः, निरपायः। ‘अरिष्टं गच्छ पन्थानम्’ रामा०।
Wordnet
Sanskrit अरिष्टः
औषधानि क्लेदयित्वा आतपे किण्वं कृत्वा निर्मितः मद्यविशेषः।
"अरिष्टः पौष्टिकः तथा मादकः अस्ति।"
अरिष्टः
एकः दैत्यः।
"अरिष्टः दैत्यराजस्य बलेः पुत्रः आसीत्।"
रीठा, करञ्जकः, अरिष्टः, मङ्गल्यः, कुम्भबीजकः, प्रतीर्यः, सोमवल्कः, फेणिलः, गुच्छकः, गुच्छपुष्पकः, गुच्छफलः
फलविशेषः, स्वनामख्यातस्य वृक्षस्य फलम् आयुर्वेदे अस्य वातकफकुष्ठकण्डूतिविषविष्फोटनाशित्वादि गुणाः प्रोक्ताः।
"रीठया वस्त्रान् प्रक्षालयेत्"
लशुनम्, रशुनम्, लशूनम्, लसुनम्, रसुनम्, रसोनः, रसोनकः, गृञ्जनः, महौषधम्, महाकन्दः, अरिष्टः, सोनहः, उग्रगन्धः, दीर्घपत्रः, ग्रन्थमूलम्, श्रीमस्तकः, मुखदूषणः, राहूच्छिष्टम्, तरिता
कन्दविशेषः- यः उपस्करे उपयुज्यते।
"सीता सागार्थे मरिचलशुनादीनां खण्डनं करोति।"
लशुनम्, रसुनः, महौषधम्, गृञ्जनः, अरिष्टः, महाकन्दः, रसोनकः, रसोनः, म्लेच्छकन्दः, भूतघ्नः, उग्रगन्धः
एकः क्षुपः यद् व्यञ्जनरूपेण उपयुज्यते अस्य गुणाः ऊनत्वम्, गुरुत्वम्, उष्णत्वम्, कफवातनाशित्वम्, अश्रुचित्वम्, क्रिमिहृद्रोगशोहघ्नत्वम् रसायनत्वञ्च ।
"तिक्तिकां निर्मातुं सः क्षेत्रात् हरितं लशुनं औन्मूलयत्।"
काकः, वायसः, ध्माक्षः, ध्वांक्षः, ध्वांक्षरावी, करटः, बलिभुक्, बलिभुज्, गृहबलिभुज्, गृहबलिभुक्, बलिपुष्टः, बलिपुष्टा, बलिपुष्टम्, चिरञ्जीवी, काणः, काणूकः, मौकुलिः, दिवाटनः, शक्रजः, सकृत्प्रजः, मलभुक्, मलभुज्, प्रातर्भोक्ता, कारवः, अन्यभृत्, यूकारिः, अरिष्टः, आत्मघोषः
खगविशेषः- कृष्णवर्णीयः खगः यस्य ध्वनिः कर्कशः।
"काकः शाखायां स्थित्वा काकध्वनिं करोति।"
अरिष्टः, अरिष्टकः, क्षुणः, फेनिलः, रिष्टः, रिष्टकः, वस्तिकर्माढ्यः, वेणीरः, शुभः
वृक्षविशेषः- यस्य फलानि केशवस्त्रादीनां संमार्जनार्थे उपयुज्यन्ते।
"तस्य प्राङ्गणे अरिष्टोऽपि अस्ति।"
निम्बः, अरिष्टः, सर्वतोभद्रः, हिङ्गुनिर्यासः, मालकः, पिचुमर्दः, अर्कपादपः, कैटर्यः, वरत्वचः, छर्दिघ्नः, प्रभद्रः, पारिभद्रकः, काकफलः, कीरेष्टः, नेता, सुमनाः, विशीर्णपर्णः, यवनेष्टः, पीतसारकः, शीतः, पिचुमन्दः, तिक्तकः, कीकटः, शूकमालकः
वृक्षविशेषः अस्य गुणाः तिक्तत्वशीतत्वकफव्रणक्रिमिवमिशोफशान्तिकारित्वादयः।
"निम्बः अतीव उपयोगी वृक्षः अस्ति।"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritअरिष्टः, (रिष हिंसायां कर्त्तरि क्त, नञ्समासः ।)लशुनः । निम्बः । फेनिलवृक्षः । काकः । कङ्क-पक्षी । इति मेदिनी । वृषभासुरः । इत्यनेकार्थ-ध्वनिमञ्जरी ॥
मद्यविशेषः । इक्षुविकारसहिता-भयाचित्रकदन्तीपिप्यल्यादिभूरिभेषजक्वाथादिसं-स्कारवान् अरिष्टोऽभिधीयते । इति सुश्रुतटीका ॥
अस्य गुणः । अर्शःशोथग्रहणीकफरोगनाशित्वं ।इति राजवल्लभः ॥
(“द्रवेषु चिरकालस्थं द्रव्यं यत्संहितं मवेत् ।आसवारिष्टभेदैस्तत् प्रोच्यते भेषजोचितं ॥
यदपक्वौषधाम्बुभ्यां सिद्धं मद्यं स आसवः ।अरिष्टः क्वाथसिद्धः स्यात्तयोर्मानिं पलोन्मितं” ॥
इति शार्ङ्गधरः ॥
गुणोऽस्य यथा चरकेणोक्तः ॥
“शोकार्शोग्रहणीदोषपाण्डुरोगारुचिज्वरान् ।हन्त्यरिष्टः कफकृतान्रोगान् रोचनदीपनः ॥
* ॥
दन्तीचित्रकमूलानामुभयोः पञ्चमूलयोः ।भागान् पलांशानापोथ्य जलद्रोणे विपाचयेत् ॥
त्रिफलाया दलानाञ्च प्रक्षिप्य त्रिपलं ततः ।रसे चतुर्थशेषे तु पूते शीते समावपेत् ॥
तुलां गुडस्य तत्तिष्ठेत् मासार्द्धं घृतभाजने ।तन्मात्रया पिबेन्नित्यं अर्शोभ्योऽपि प्रमुच्यते ॥
ग्रहणीपाण्डुरोगघ्नं वातवर्ञ्चोऽनुलोमनं ॥
दीपनञ्चारुचिघ्नञ्च दन्त्यरिष्टमिदं विदुः” ॥
इति दन्त्यरिष्टः । इति चरकः ॥
“अरिष्टो द्रव्यसंयोगसंस्कारादधिको गुणैः ।बहुदोषहरश्चैव दोषाणां शमनश्च सः ॥
दीपनः कफवातघ्नः सरः पित्तविरोधनः ।शूलाध्मानोदरप्लीहज्वराजीर्णार्शसां हितः” ॥
इति सुश्रुतश्च ॥
)
कृदन्तरूपमाला
Sanskrit1 {@“रिष हिंसार्थः”@} 2 रेषकः-षिका, रेषकः-षिका, 3 रिरिषिषकः-रिरेषिषकः-षिका, रेरिषकः-षिका
4 5 रेषिता-त्री- 6 रेष्टा-रेष्ट्री, रेषयिता-त्री, रिरिषिषिता-रिरेषिषिता-त्री, रेरिषिता-त्री
रेषन्-न्ती, रेषयन्-न्ती, रिरिषिषन्-रिरेषिषन्-न्ती
-- रेषिष्यन्-न्ती-ती, रेषयिष्यन्-न्ती-ती, रिरिषिषिष्यन्-रिरेषिषिष्यन्-न्ती-ती
-- -- रेषयमाणः, रेषयिष्यमाणः, रेरिष्यमाणः, रेरिषिष्यमाणः
रिट्-रिड्-रिषौ-रिषः
-- -- -- 7 रिष्टम्-ष्टः, रेषितः, रिरिषिषितः-रिरेषिषितः, रेरिषितः-तवान्
रेषः, 8 रेषणः, 9 अरिष्टः, 10 रेट्-रेषौ-रेषः, रेषः, रिषिषिषुः-रिरेषिषुः, रेरेषः
रेषितव्यम्-रेष्टव्यम्, रेषयितव्यम्, रिरिषिषितव्यम्-रिरेषिषितव्यम्, रेरिषितव्यम्
रेषणीयम्, रेषणीयम्, रिरिषिषणीयम्-रिरेषिषणीयम्, रेरिषणीयम्
रेष्यम्, रेष्यम्, रिरिषिष्यम्-रिरेषिष्यम्, रेरिष्यम्
ईषद्रेषः-दूरेषः-सुरेषः
-- -- -- रिष्यमाणः, रेष्यमाणः, रिरिषिष्यमाणः-रिरेषिष्यमाणः, रेरिष्यमाणः
रेषः, रेषः, रिरिषिषः-रिरेषिषः, रेरिषः
रेषितुम्-रेष्टुम्, रेषयितुम्, रिरिषिषितुम्-रिरेषिषितुम्, रेरिषितुम्
रिष्टिः, रेषणा, रिरिषिषा-रिरेषिषा, रेरिषा
रेषणम्, रेषणम्, रिरिषिषणम्-रिरेषिषणम्, रेरिषणम्
11 रिषित्वा-रेषित्वा-रिष्ट्वा, रेषयित्वा, रिरिषिषित्वा-रिरेषिषित्वा, रेरिषित्वा
प्ररिष्य, प्ररेष्य, प्ररिरिषिष्य-प्ररिरेषिष्य, प्ररेरिष्य
12 रेषम् २, रिषित्वा २, रेषित्वा २, रिष्ट्वा २, रेषम् २ रेषयित्वा २ रिरिषिषम् २ -रिरेषिषम् २, रिरिषिषित्वा २ -रिरेषिषित्वा २, रेरिषम् २
रेरिषित्वा २।
01 (१४०८)
02 (१-भ्वादिः-६९४। सक। सेट्। पर।)
03 [[३। ‘रलो व्युपधाद्धलादेः संश्च’ (१-२-२६) इति सनः कित्त्वविकल्पः। तेन रूपद्वयम्।]]
04 [पृष्ठम्११२०+ २४]
05 [[१। ‘तीषसहलुभरुषरिषः’ (७-२-४८) इति तकारादावार्धधातुके इड्विकल्पः। इडभाव- पक्षे ‘ष्टुना ष्टुः’ (८-४-४१) इति ष्टुत्वेन टकारः।]]
06 [[आ। ‘रेष्टारं रेषितुं व्यास्यत् रोष्टाऽक्षः शस्त्रसंहतीः।।’ भ। का। ९। ३१।]]
07 [[२। ‘यस्य विभाषा’ (७-२-१५) इति निष्ठायामिण्निषेधः।]]
08 [[३। बाहुलकेन नन्द्यादित्वकल्पनात् कर्तरि ल्युप्रत्ययः।]]
09 [[४। ‘क्तिच्क्तौ च--’ (३-३-१७४) इति संज्ञायां क्तः। अरिष्टः = अनिष्टादिकम्।]]
10 [[५। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति विच्। गुणः।]]
11 [[६। ‘रलो व्युपधात्--’ (१-२-२६) इति कित्त्वविकल्पः। ‘तीषसहलुभरुषरिषः’ (७-२-४८) इति इड्विकल्पश्च। तेनात्र रूपत्रयम्।]]
12 [पृष्ठम्११२१+ २५]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
