| YouTube Channel

अरिष्टं (ariSTaM)

 
शब्दकल्पद्रुमः
Sanskrit
अरिष्टं,
क्ली,
(रिष हिंसायां कर्त्तरि क्त, नञ्-समासः ।) सूतिकागृहं (“अरिष्टशय्यां परितोविसारिणा सुजन्मनस्तस्य निजेन तेजसा” इतिरघुवंशे ।) अशुभं तक्रं मरणचिह्नं (यदुक्तम्, “रोगिणो मरणं यस्मादवश्यम्भावि लक्ष्यते ।तल्लक्षणमरिष्टं स्याद् रिष्टमप्यभिधीयते”
)शुभं इति मेदिनी
उपद्रवः तत्पर्य्यायः उप-लिङ्गः उपसर्गः अजन्यं ईतिः उत्पातः ।इति हेमचन्द्रः
(मद्यं यथा द्राक्षारिष्टं ।दशसूलारिष्टं वव्वूलारिष्टं ।“अरिष्टं लघुपाकेन सर्व्वतश्च गुणाधिकम् ।अरिष्टस्य गुणा ज्ञेया वीजद्रव्यगुणैः समाः”
इति वैद्यके ।)(“मरणचिह्नार्थे लक्षणं यथा नियतमरणा-ख्यापकलिङ्गं
इति माधवसंगृहीतरोगविनि-श्चयग्रन्थटीकाकृद्विजयरक्षितः
*
तत्र प्रकृत-वर्णोऽर्द्धशरीरे विकृतवर्णोऽर्द्धशरीरे द्वावपि वर्णौमर्य्यादाविभक्तौ दृष्ट्वा यद्येवं सव्यदक्षिणविभा-गेन यद्येवं पूर्व्वपश्चिमविभागेन यद्युत्तराधर-विभागेन यद्यन्तर्वहिर्विभागेनातुरस्यारिष्टमितिविद्यात्”
इति चरकः ।“शरीरशीलयोर्यस्य प्रकृतेर्विकृतिर्भवेत् ।तत्त्वरिष्टं समासेन व्यासतस्तु निबोध मे”
इति सुश्रुतः
)