| YouTube Channel

अरिषडष्टक (ariSaDaSTaka)

 
वाचस्पत्यम्
Sanskrit
अरिषडष्टक
न०
षट् अष्टौ द्व० ततः परिमाणार्येकन् षडष्टकम् अरिस्वामिकं षडष्टकं शाक० त० ।विवाहे वर्जनीये योगविशेषे, तथाहि दम्पत्योः परस्प-रराश्यपेक्षया परस्परस्य राशेः षष्ठत्वेऽष्टमत्वे वा अशुर्भतयोः राश्योर्मित्रस्वामिकत्वे पुनर्न दोषः शत्रुस्वामिक-त्वेऽतीव दोषः यथोक्तं “मकरः करिकुलरिपुणा कन्यामेषेण सह झषस्तुलया कर्किघटौ वृषधनुपीवृश्चिकमिथुने चारिविधौ यदि कन्याष्टमेभर्त्तुर्भर्त्तुः षष्ठे कन्यका षडष्टकं विजानीयात्वर्ज्जितं त्रिदशैरपि” ज्यो० त० तत्र प्रतिप्रसवः ।“सौहृद्ये ह्युभयोर्द्व योरपि तयोरैकाधिपत्येऽपि वा ताराष-ट्सु सुमित्रमित्रसुखदक्षेमार्थसम्पद्यदि षट्काष्टे नवपञ्चमेव्ययधने योगे पुंयोषितोः प्रोत्यायुःसुखवृद्धिपुष्टिजननंकार्य्यो विवाहः शुभः” भुज० भी० अत्यन्तापद्विषयेव्यासः “मैत्रादियोगेऽपि षडष्टकादौ ताराविपतप्रत्य-रिनैधनाख्याः वर्ज्या विवाहे पुरुषोडुता हि प्रीतिःपरा जन्मसु तारकासु” तत्रदानमुक्तम् तत्रैव ।“षडष्टके गोमिसुनं प्रदेयमिति”