| YouTube Channel

अरिमेदः (arimedaH)

 
E Bharati Sampat
Sanskrit
(पु) अरेः विट्खदिरस्य इव मेदः सारः यस्य विट्खदिरवृक्षः। ‘खदिरारिमेदजम्बाम्रयष्टीमधुकोत्पलानाम्’ सुश्रुतः।
Wordnet
Sanskrit
Synonyms:
अरिमेदः, इरिमेदः, रिमेदः, गोधास्कन्दः, अरिमेदकः, अहिमारः, पूतिमेदः, अहिमेदकः, विट्खदिरः
noun
खैरवृक्षविशेषः।
"अरिमेदस्य काष्ठेन गृहं निर्मितव्यम्।"
Synonyms:
अरिमेदः, इरिमेदः, रिमेदः, गोधास्कन्दः, अरिमेदकः, अहिमारः, पूतिमेदः, विट्खदिरः
noun
खदिरविशेषः।
"अरिमेदः दुर्गन्धितः भवति।"
शब्दकल्पद्रुमः
Sanskrit
अरिमेदः,
पुं,
(अरेर्विट्खदिरस्येव मेदः सारःयस्य सः ।) वृक्षविशेषः गुइया वावला इतिभाषा तत्पर्य्यायः इरिमेदः रिमेदः ३गोधास्कन्दः अरिमेदकः अहिमारः पूति-मेदः अहिमेदकः विट्खदिरः अस्यगुणाः कषायत्वं उष्णत्वं तिक्तत्वं भूत-विनाशित्वं शोथातिसारकासविषवैसर्पनाशि-त्वञ्च इति राजनिर्घण्टः
(अस्य व्यवहारो यत्र तदौषधं यथा, --“तुलां धृतां नीलसहाचरस्य, द्रोणेऽम्भसः संश्रपयेद्थथावत् ।पूर्त्त्वा चतुर्भागरसे तु तैलं, पचेच्छनैरर्द्धपलप्रयुक्तैः
कल्कैरनन्ताखदिरारिमेद-जम्बाम्रयष्टीमधुकोत्पलानां ।तत्तैलमाश्वेव धृतं मुखेन, स्थैर्य्यं द्विजानां विदधाति सद्यः”
*
महासहचरं तैलं
इति वैद्यकचक्रपाणिसंग्रहः
)