| YouTube Channel

अरिमर्द्दन (arimarddana)

 
वाचस्पत्यम्
Sanskrit
अरिमर्द्दन
त्रि०
अरिं मृद्नाति मृद--ल्यु--उप० स० शत्रु-तापके गान्दिनीपुत्रे अक्रूरसोदरे श्वफल्कस्य पुत्रे यदुवंश्येक्षत्त्रियभेदे “श्वफल्कः काशिराजस्य सुतां भार्य्याम-विन्दत गान्दिनीं नाम तस्यार्थे गाः सदा प्रददौपिता तस्यां जज्ञे महाबाहुः श्रुतवानिति विश्रुतः ।अक्रूरोऽथ महाभागो यज्वा विपुलदक्षिणः उपमद्-गुस्तथा मद्गुर्मुदरश्चारिमर्द्दनः अरिक्षिपस्तथोपेक्षः शत्रु-घ्नोऽथारिमर्द्दनः धर्म्मधृग्यतिधर्म्मा गृध्रमोजान्तक-स्तथा आवाहाप्रतिवाहौ सुन्दरी वराङ्गना” हरिवं०