| YouTube Channel

अराजकः (arAjakaH)

 
E Bharati Sampat
Sanskrit
(पु) नास्ति राजा यत्र १.राजरहितः देशादिः। ‘चौरप्रायं जनपदं हीनसत्त्वमराजकम्’ श्रीभाग०। २.नियन्तृहीनः, शासकरहितः। ‘अराजके जनपदे दोषा जायन्ति वै सदा’ महाभा०।
शब्दकल्पद्रुमः
Sanskrit
अराजकः, त्रि, (नास्ति राजा यत्र सः, कप् ।)राजशून्यदेशादिः यथा, --“चौरप्रायं जनपदं हीनसत्वमराजकं” ।इति श्रीभागवतं
(नियन्तृहीनः शासनकर्तृ-रहितः ।“अराजके जनपदे दोषा जायन्ति वै सदा ।उद्वृत्तं सततं लोकं राजा दण्डेन शास्ति वै”
इति महाभारते ।)
अराजकः,
पुं,
(नास्ति राजा यत्र सः कप् ।) राज-शून्यदेशादिः यथा, --“अराजके हि लोकेऽस्मिन् सर्व्वती विद्रुते भयात् ।रक्षार्थमस्य सर्व्वस्य राजानमसृजत् प्रभुः”
इति मानवे अध्याये श्लोकः