| YouTube Channel

अरन्धनं (arandhanaM)

 
शब्दकल्पद्रुमः
Sanskrit
अरन्धनं,
क्ली,
(न रन्धनं, अत्र अभावे नञ् ।) पाका-भावः तत्तु कन्यासंक्रान्त्यां कृतञ्चेत् वृद्धारन्धनंकथ्यते सौरभाद्रस्य यस्मिन् कस्मिन् दिने कृत-ञ्चेत् इच्छारन्धनमित्युच्यते इति लोकप्रसिद्धं ।तत्र प्रमाणं ।“कर्कान्नमद्यात् सिंहाहे सिंहान्नं सिंहकन्ययोः ।मनसाशेषनागेभ्यो दत्त्वा सर्व्वं निशोधितं”
इत्याचारमार्त्तण्डधृतवचनं