| YouTube Channel

अरण्यषष्ठी (araNyaSaSThI)

 
Monier Williams Cologne
English
अरण्य—षष्ठिका or अरण्य—षष्ठी,
f.
N.
of a festival celebrated by females on the sixth day of the light half of the month Jyaiṣṭha.
Shabdartha Kaustubha
Kannada
अरण्यषष्ठी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಜ್ಯೇಷ್ಠ ಶುದ್ಧ ಷಷ್ಠಿ
प्रयोगाः - > "ज्येष्ठे मासे सिते पक्षे षष्ठी याऽरण्यसञ्ज्ञिता व्यजनैककरास्तस्यामटन्ति विपिने स्त्रियः ॥"
E Bharati Sampat
Sanskrit
(स्त्री) अरण्याय गन्तुं षष्ठी ज्यैष्ठशुक्लषष्ठी ‘ज्यैष्ठे मासि सिते पक्षे षष्ठी चारण्यसञ्ज्ञिता अनैककरास्तस्यामटन्ति विपिने स्त्रियः’ तिथ्यादित०।
Wordnet
Sanskrit
Synonyms:
अरण्यषष्ठी
noun
ज्येष्ठमासस्य शुक्लषष्ठी।
"अरण्यषष्ठ्यां स्त्रियः सन्ततिवर्धनस्य कामनया उपवासं कुर्वन्ति।"
शब्दकल्पद्रुमः
Sanskrit
अरण्यषष्ठी,
स्त्री,
(अरण्याय गन्तुं षष्ठी, चतुर्थीतत्-पुरुषः ।) ज्यैष्ठशुक्लषष्ठी वाँटाषष्ठी इति भाषा ।यथा राजमार्त्तण्डे, --“ज्यैष्ठे मासि सिते पक्षे षष्ठी चारण्यसंज्ञिता ।व्यजनैककरास्तस्यामटन्ति विपिने स्त्रियः
तां विन्ध्यवासिनीं स्कन्धषष्ठीमाराधयन्ति ।कन्दमूलफलाहारा लभन्ते सन्ततिं शुभां”
कन्दं शूरणादि मूलं तदितरत् इति तिथ्या-दितत्त्वं
वाचस्पत्यम्
Sanskrit
अरण्यषष्ठी स्त्री अरण्याय गन्तुं षष्ठी ज्यैष्ठशुक्लषष्ठ्याम् ।“ज्यैष्ठे मासि सिते पक्षे षष्ठी यारण्यसंज्ञिता व्यजनैक-करास्तस्यामटन्ति विपिने स्त्रियः” इतिः राजमा०