| YouTube Channel

अरणीसुतः (araNIsutaH)

 
E Bharati Sampat
Sanskrit
(पु) शुकमहर्षिः। घृताचीम् अप्सरसं दृष्ट्वा काममोहितस्य ब्रह्मर्षिव्यासस्य रेतः अरण्याम् अपतत् तदरणीमथनेन शुकः अजनि ‘ऋषिरप्सरसं दृष्ट्वा सहसा काममोहितः। अरण्यामेव सहसा तस्य शुक्रमवापतत् अरणीं ममन्थ ब्रह्मर्षिस्तस्यां जज्ञे शुको नृप शुक्रे निर्मथ्यमाने सः’ महाभा०१२.३३२.३, ७, ८, ९।