| YouTube Channel

अयोमलं (ayomalaM)

 
शब्दकल्पद्रुमः
Sanskrit
अयोमलं,
क्ली,
(अयसो मलमिव ।) लौहमलं ।इति राजनिर्घण्टः
लोहार गु इति भाषा ।तत्पर्य्यायः मण्ड्ररं लौहकिट्टं तस्य गुणाः ।“शतोर्द्ध्वमुतमं किट्टं मध्यञ्चाशीतिवर्षकं ।अधमं षष्टिवर्षीयं ततो हीनं विषोपमं
यल्लौहं यद्गुणं प्रोक्तं तत्किट्टञ्चापि तद्गुणं” ।इति वैद्यकं
(अस्य शोधनमारणं यथा, --“दग्ध्वाक्षकाष्ठैर्मलमायसन्तु, गोमूत्रनिर्व्वापितमष्टवारान् ।विचूर्ण्य लीढं मधुना चिरेण, कुम्भाह्वयं पाण्डुगदं निहन्ति”
इति वैद्यकरसेन्द्रसारसङ्ग्रहः
)