| YouTube Channel

अयोध्या (ayodhyA)

 
Spoken Sanskrit
English
अयोध्या ayodhyA
f.
capital of ancient Kosala kingdom [ Uttar Pradesh ]
अयोध्या ayodhyA
f.
ancient city of India [ birthplace of Rama ]
अयोध्या ayodhyA
f.
capital of RAma
Monier Williams Cologne
English
अ-योध्या (आ),
f.
the capital of Rāma (the modern Oude on the river Sarayu described in
R.
i, 5).
Apte Hindi
Hindi
अयोध्या
वि*न* त* - -
"सरयू नदी के तट पर स्थित वर्तमाना अयोध्या नगरी, रघुवंश मे उत्पन्न सूर्यवंशी राजाओं की राजधानी"
Shabdartha Kaustubha
Kannada
अयोध्या
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಅಯೋಧ್ಯಾನಗರ /ಇಕ್ಷ್ವಾಕುವಂಶದ ದೊರೆಗಳ ರಾಜಧಾನಿ
प्रयोगाः - > "अयोध्या मधुरा माया काशी काञ्ची अवन्तिका पुरी द्वारावती चैव सप्तैता मोक्षदायिकाः ॥"
L R Vaidya
English
ayoDyA {% f. %} The capital of Rāma situated on the river Sarayū, अद्यायोध्या महाबाहो अयोध्या प्रतिभाति नः Ram.
E Bharati Sampat
Sanskrit
(स्त्री) अयोध्यानगरी, इक्ष्वाकुवंशनृपाणां राजधानी, सप्तसु मोक्षप्रदनगरीषु प्रथमा ‘अयोध्या मधुरा माया काशी काञ्ची अवन्तिका पुरी द्वारवती चैव सप्तैता मोक्षदायिकाः’
Bopp
Latin
अयोध्या f. (non impugnanda, ex priv. et योध्य im-
pugnandus in fem.) nomen urbis (Oude).
Wordnet
Sanskrit
Synonyms:
अयोध्या
noun
उत्तरप्रदेशे शरयूनदीतटे वर्तमानं हिन्दूनां तीर्थस्थानम्।
"प्रभू-रामचन्द्रस्य जन्मस्थानम् अयोध्या अस्ति।"
अभिधानचिन्तामणिः
Sanskrit
--source--
साकेतं कोशलायोध्या विदेहा मिथिला समे
-wordlist-
साकेत (क्ली), कोशला (स्त्री), अयोध्या (स्त्री), विदेहा (स्त्री), मिथिला (स्त्री)
Mahabharata
English
Ayodhyā (a city, i.e. Oude, v. VP.). § 225 (Vāsishṭha): I, 177, 6780 (khyātāṃ purīm imāṃ lokeshv Aºāṃ), 6783 (Aºvāsino janāḥ), 6784.--§ 280 (Bhīmasena): II, 29, 1076 (here Bhīm. vanquished Dīrghayajña).--§ 346 (Nalop.): III, 60, 2295.--§ 348 (do.): III, 66, 2628 (nagarīṃ ramyāṃ
the city of Ṛtuparṇa).--§ 351 (do.): III, 70, 2745, 2761, 2766 (ºvāsinaṃ nṛpaṃ Ṛtuparṇaṃ)
71, 2795 (Aºādhipatiḥ).--§ 353 (do.): III, 74, 2906.--§ 383 (ParaśuRāma): III, 99, 8657 (Aºyāṃ jātaṃ Dāśarathiṃ), 8659.-§ 425 (Hanūmad-Bhīmas.): III, 148, 11215 (the capital of Rāma Dāśarathi).--§ 461 (Vāmadevacarita): III, 192, ††13145 (king Parikshit of the Ikshvāku race).--§ 475 (Dhundhumārop.): III, 202, 13515 (kings Ikshvāku, Śaśāda, etc.).--§ 534 (Hanūmatpratyāgam.): III, 282, 16231 (at the return of Hanūmat, Rāma again hopes to rule at A.).--§ 543 (Rāmābhisheka): III, 291, 16567 (purīṃ ramyāṃ), 16568, 16590.--§ 565 (Gālavacarita): V, 115, 3934 (king Haryaśva Ikshvāku).
पुराणम्
English
अयोध्या / AYODHYĀ. A city in North india which enjoyed great importance and reputation for many years as the capital of the Kings of the solar dynasty. (See ikṣvāku dynasty). All the Kings of this dynasty ruled the country from this city as their capital. vasiṣṭha, the great preceptor of the ikṣvāku Rājas, came to ayodhyā during the period of the reign of kalmāṣapāda, who was the thirtyfifth ruler in succession to ikṣvāku. A quarrel broke out between kalmāṣapāda and vasiṣṭha during a hunting expedition, and vasiṣṭha cursed the King and as the result the latter became a rākṣasa. After regaining his former form as King, he apologised to vasiṣṭha and they became friends again. At the request of the King in the interests of his dynasty vasiṣṭha came to ayodhyā, and the people were greatly elated. A son was born to vasiṣṭha by Kalmāṣapāda's wife and that son was aśmaka. After that vasiṣṭha used to go to ayodhyā frequently and was installed as family preceptor of the Ikṣvākus. Till the time of śrī rāma the city of ayodhyā maintained its pomp and glory, and after that gradually its decay and fall set in. Laudatory references to the city are found in most of the Purāṇas like the mahābhārata, brahmāṇḍa purāṇa etc. (See kosala).
शब्दकल्पद्रुमः
Sanskrit
अयोध्या,
स्त्री,
(योद्धुमशक्या, युध + ण्युत्, नञ्-समासः ।) श्रीरामनगरी पश्चिमदेशे अओद्इति प्रसिद्धा तत्पर्य्यायः साकेतं कोशला३ इति हेमचन्द्रः
उत्तरकोशला इतित्रिकाण्डशेषः
सा तु मोक्षदा पुरी यथा, --“अयोध्या मथुरा माया काशी काञ्ची अवन्तिका ।पुरी द्वारवती चैव सप्तैता मोक्षदायिकाः
एतास्तु पृथिवीमध्ये गण्यन्ते कदाचन ।श्रीरामधनुरग्रस्था अयोध्या सा महापुरी”
इति भूतशुद्धितन्त्रं
*
तद्वर्णनं यथा, --“कोशलो नाम मुदितः स्फीतो जनपदो महान् ।निविष्टः सरयूतीरे प्रभूतधनधान्यवान्
अयोध्या नाम नगरी तत्रासील्लोकविश्रुता ।मनुना मानवेन्द्रेण या पुरी निर्म्मिता स्वयम्
आयता दश द्वे योजनानि महापुरी ।श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा
राजमार्गेण महता सुविभक्तेन शोभिता ।मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः
तान्तु राजा दशरथो महाराष्ट्रविवर्द्धनः ।पुरीमावासयामास दिवि देवपतिर्यथा
कपाटतोरणवतीं सुविभक्तान्तरापणां ।सर्व्वयन्त्रायुधवतीमुषितां सर्व्वशिल्पिभिः
सूतमागधसम्बाधां श्रीमतीमतुलप्रभां ।उच्चाट्टालध्वजवतीं शतघ्नीशतसंकुलां
बधूनाटकसंघैश्च संयुक्तां सर्व्वतः पुरीं ।उद्यानाम्रवणोपेतां महतीं शालमेखलां
दुर्गगम्भीरपरिखां दुर्गामन्यैर्दुरासदां ।वाजिवारणसम्पूर्णां गोभिरुष्ट्रैः खरैस्तथा
सामन्तराजसङ्घेश्च बलिकर्म्मभिरावृतां ।नानादेशनिवासैश्च बणिग्भिरुपशोभितां
प्रासादैः रत्नविकृतैः पर्ब्बतैरिव शोभितां ।कूटागारैश्च सम्पर्णामिन्द्रस्येवामरावतीं
चित्रामष्टापदाकारां वरनारीगणैर्युतां ।सर्व्वरत्नसमाकीर्णां विमानगृहशोभितां
गृहगाढामविच्छिद्रां समभूमौ निवेशितां ।शालितण्डुलसम्पूर्णामिक्षुकाण्डरसोदकां
दुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा ।नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमां
विमानमिव सिद्धानां तपसाधिगतं दिवि ।सुनिवेशितवेश्मान्तां नरोत्तमसमावृतां
ये बाणैर्न बिध्यन्ति विविक्तमपरापरं ।शब्दबेध्यञ्च विततं लघुहस्ता विशारदाः
सिंहव्याघ्रवराहाणां मत्तानां नदतां वने ।हन्तारो निशितैः शस्त्रैर्बलाद्बाहुबलैरपि
तादृशानां सहस्रैस्तामभिपूर्णां महारथैः ।पुरीमावासयामास राजा दशरथस्तदा
तामग्निमद्भिर्गुणवद्भिरावृतांद्विजोत्तमैर्व्वेदषडङ्गपारगैः ।सहस्रदैः सत्यरतैर्महात्मभि-र्महर्षिकल्पैरृषिभिश्च केवलैः”
इत्यार्षे रामायणे बाल्मीकीये बालकाण्डे पञ्चमःसर्गः
*
“तस्यां पुर्य्यामयोध्यायां वेदवित् सर्व्वसंग्रहः ।दीर्घदर्शी महातेजाः पौरजानपदप्रियः
इक्ष्वाकूणामतिरथो यज्वा धर्म्मपरो वशी ।महर्षिकल्पो राजर्षिस्त्रिषु लोकेषु विश्रुतः
बलवान्निहतामित्रो भित्रवान् विजितेन्द्रियः ।धनैश्च सञ्चयैश्चान्यैः शक्रवैश्रवणोपमः
यथा मनुर्महातेजा लोकस्य परिरक्षिता ।तथा दशरथो राजा लोकस्य परिरक्षिता
तेन सत्याभिसन्धेन त्रिवर्गमनुतिष्ठता ।पालिता सा पुरी श्रेष्ठा इन्द्रेणेवामरावती
तस्मिन् पुरवरे हृष्टा धर्म्मात्मानो बहुश्रुताः ।नरास्तुष्टा धनैः स्वैः स्वैरलुब्धाः सत्यवादिनः
नाल्पसन्निचयः कश्चित्तदा तस्मिन् पुरोत्तमे ।कुटुम्बी यो ह्यसिद्धार्थोऽगवाश्वधनधान्यवान्
कामी वा कदर्य्यो वा नृशंसः पुरुषः क्वचित् ।द्रष्टं शक्यमयोध्यायां नाविद्वान्न नास्तिकः
सर्व्वे नराश्च नार्य्यश्च धर्म्मशीलाः सुसंयताः ।मुदिताः शीलवृत्ताभ्यां महर्षय इवामलाः
नाकुण्डली नामुकुटी नास्रग्वी नाल्पभोगवान् ।नामृष्टो लिप्ताङ्गो नासुगन्धश्च विद्यते
नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक् ।नाहस्ताभरणो वापि दृश्यते नाप्यनात्मवान्
नानाहिताग्निर्नायज्वा क्षुद्रो वा तस्करः ।कश्चिदासीदयोध्यायां चावृत्तो सङ्करः
स्वकर्म्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः ।दानाध्ययनशीलाश्च संयताश्च प्रतिग्रहे
नास्तिको नानृतो वापि कश्चिदबहुश्रुतः ।नासूयको चाशक्तो नाविद्वान् विद्यते क्वचित्
नाषडङ्गविदत्रास्ति नाव्रतो नासहस्नदः ।न दीनः क्षिप्तचित्तो वा व्यथितो वापि कश्चन
कश्चिन्नरो वा नारी वा नाश्रीमान्नाप्यरूपवान् ।द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान्
वर्णेष्वग्र्यचतुर्थेषु देवतातिथिपूजकाः ।कृतज्ञाश्च वदान्याश्च शूरा विक्रमसंयुताः
दीर्घायुषो नराः सर्व्वे धर्म्मं सत्यञ्च संश्रिताः ।सहिताः पुत्त्रपौत्त्रैश्च नित्यं स्त्रीभिः पुरोत्तमे
क्षत्त्रं ब्रह्ममुखं चासीद्वैश्याः क्षत्त्रमनुव्रताः ।शूद्राः स्वकर्म्मनिरतास्त्रीन् वर्णानुपचारिणः
सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता ।यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता
योधानामग्निकल्पानां पेषलानाममर्षिणां ।सम्पूर्णा कृतविद्यानां गुहा केशरिणामिव
काम्बोजविषये जातैर्व्वाह्लीकैश्च हयोत्तमैः ।वनायुजैर्नदीजैश्च पूर्णा हरिहयोत्तमैः
विन्ध्यपर्ब्बतजैर्मत्तैः पूर्णा हैमवतैरपि ।मदान्वितैरतिबलैर्मातङ्गैः पर्ब्बतोपमैः
ऐरावतकुलीनैश्च महापद्मकुलैस्तथा ।अञ्जनादपि निष्क्रान्तैर्वामनादपि द्विपैः
भद्रैर्मन्द्रैर्मृगैश्चैव भद्रमन्द्रमृगैस्तथा ।भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी
नित्यमत्तैः सदा पूर्णा नागैरचलसन्निभैः ।सा योजने द्वे भूयः सत्यनामा प्रकाशते
तां पुरीं महातेजा राजा दशरथो महान् ।शशास शमितामित्रो नक्षत्राणीव चन्द्रमाः
तां सत्यनामां दृढतोरणार्गलांगृहैर्व्विचित्रैरुपशोभितां शिवां ।पुरीमयोध्यां नृसहस्रसंकुलांशशास वै शक्रसमो महीपतिः”
इत्यार्षे रामायणे वाल्मीकीये बालकाण्डे षष्ठःसर्गः
युद्धायोग्ये त्रि