| YouTube Channel

अयोगः (ayogaH)

 
Apte Hindi
Hindi
अयोगः
पुं*
- -
"अलगाव, वियोग, अन्तराल"
अयोगः
पुं*
- -
"अयोग्यता, अनौचित्य, असंगति"
अयोगः
पुं*
- -
अनुचित संबंध
अयोगः
पुं*
- -
"विधुर, अनुपस्थित प्रेमी या पति"
अयोगः
पुं*
- -
हथौड़ा
अयोगः
पुं*
- -
अरुचि
अयोगः
पुं*
- न+युज्+घञ्
योगाभ्यास से विचलन
E Bharati Sampat
Sanskrit
(पुं) योगः। १.असम्बन्धः। २.तिथिवारादीनां दुष्टयोगः। ३.विधुरः। ४.अरुचिः, अप्रीतिः। ५.*कूटम्, मुद्गरम् ६.वियोगः, विश्लेषः। ७.कठिनोद्यमः। (वि) योगः यस्य ८.असम्बद्धः। ‘अयोगः कठिनोद्यमे विश्लेषे विधुरे कूटे’ हैमः।
Wordnet
Sanskrit
Synonyms:
अयोगः
noun
योगस्य अभावः।
"अयोगेन परस्परेषु वैमत्यं जायते।"
Synonyms:
विधुरः, अयोगः, मृतभार्यः, मृतपत्नीकः
noun
यस्य भार्या मृता।
"मोहनः विवाहादनन्तरः चतुर्थे मासे एव विधुरः अभवत्।"
शब्दकल्पद्रुमः
Sanskrit
अयोगः,
पुं,
(युज् + घञ्, नञ्समासः ।) विश्लेषः ।विधुरः कूटः कठिनोद्यमः इति मेदिनी
वमनविरेचनादीनां प्रतिलोमप्रवृत्तिरल्पप्रवृ-त्तिर्व्वा यथा, --“योगः सम्यक्प्रवृत्तिः स्यादतियोगोऽतिवर्त्तनं ।अयोगः प्रातिलोम्येन चाल्पं वा प्रवर्त्तनं”
इति वैद्यकं
(“तत्रासात्म्येन्द्रियार्थसंयोगो-ऽयोगातियोगमिथ्यायोगादियुक्ता रूपरसादयः”
इति माधवकरकृतरोगविनिश्चयग्रन्थे विजय-रक्षितः
“त्रीण्यायतनानीति अर्थानां कर्म्मणः कालस्यचातियोगायोगमिथ्यायोगाः तत्रातिप्रभावतांदृश्यानामतिमात्रं दर्शनमतियोगः
सर्व्वशो-ऽदर्शनमयोगः अतिसूक्ष्मातिश्लिष्टातिविप्रकृष्ट-रौद्रभैरवाद्भुतद्विष्टबीभत्सविकृतादिरूपदर्शनं ।मिथ्यायोगः”
इति चरकः
) योगो ध्यानंतदभावः योगो भेषजं तदभावश्च
(विच्छेदः ।मिथः संरूढगाढानुरागयोर्नायकनायिकयोर्गुरु-जनपराधीनतया दैवगत्या वा विप्रकर्षादन्योन्याद-र्शनरूपदशाविशेषः, यदुक्तं दशरूपादर्शे ।“तत्रायोगोऽनुरागेऽपि नवयोरेकचित्तयोः ।पारतन्त्र्येण दैवाद्वा विप्रकर्षादसङ्गमः”
अयञ्च पूर्व्वराग इत्युच्यते यदुक्तं दर्पणकारैः ।“श्रवणाद्दर्शनाद्वापि मिथः संरूढरागयोः ।दशाविशेषो योऽप्राप्तौ पूर्व्वरागः उच्यते”
)