| YouTube Channel

अयुतसिद्ध (ayutasiddha)

 
Monier Williams Cologne
English
अ-युत—सिद्ध
mfn.
(in
phil.
) proved to be not separated (by the intervention of space), proved to be essentially united (as organic bodies,
&c.
)
Apte Hindi
Hindi
अयुतसिद्ध
वि* अयुत-सिद्ध -
"अपृथक्करणीय, अन्तर्निहित"
Shabdartha Kaustubha
Kannada
अयुतसिद्ध
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಕಾರ್ಯ ಮತ್ತು ಕಾರಣಗಳು ಬೇರೆ ಬೇರೆಯಿರದೆ ಒಟ್ಟಿಗೆ ಸೇರಿ ಸಿದ್ಧವಾದ
व्युत्पत्तिः - > युतः पृथग्भूतःसन् सिद्धः
L R Vaidya
English
ayuta-sidDa {% a. %} proved to be inherent and inseparable (in Vaiśeshika phil.).
वाचस्पत्यम्
Sanskrit
अयुतसिद्ध
त्रि०
युतः पृथग्भूतः सन् सिद्धो भवति
न०
त० ।कारणकपालादेरपृथग्भूततया सिद्धे कार्य्यद्रव्ये घटादौतथाभूते वैशेषिकोक्तेद्रव्याश्रिते गुणे कर्म्मणि तदेत-दयुतसिद्धत्वं कार्य्यद्रव्यगुणकर्म्मणां वेदान्तिभिर्नाङ्गीक्रि-यते यथा शा० भा० गुणकर्म्मादीनां कारणद्रव्या-त्मकतां व्यवस्थास्य द्रव्यगुणादेरयुतसिद्धत्वनिरासायोक्तम्“गुणानां द्रव्याधीनत्वं द्रव्यगुणयोरयुतसिद्धत्वादितियद्युच्येत तत्पुनरयुतसिद्धत्वमपृथग्देशत्वं वा स्यात्अपृथक्कालत्वं वा अपृथक्खभावत्वं वा सर्व्वथापिनोपपद्यते अपृथग्देशत्वे तावत् स्वाभ्युपगमोविरुध्येतकथं तन्त्वारब्धो हि पटस्तन्तुदेशोऽभ्युपगम्यते नतु पटदेशःप्रटस्य तु गुणाः शुक्लत्वादयः पटदेशा अभ्युपगम्यन्ते नतन्तुदेशाः तथाचाहुः “द्रव्याणि द्रव्यान्तरमारभन्तेगुणाश्च गुणान्तरमिति” तन्तबो हि कारणद्रव्याणि कार्यद्रव्यंपटमारभन्ते तन्तुगताश्च गुणाः शुक्लत्वादयः कार्यद्रव्ये पटेशुक्लत्वादि गुणान्तरमारभन्ते इति हि तेऽभ्युपगच्छन्ति ।सोऽभ्युपगमोद्रव्यगुणयोरपृथगदेशत्वेऽभ्युपगम्यमाने बाध्येत ।अयापृथक्कालत्वमयुतसिद्वत्वमुच्येत सव्यदक्षिणयोरपिगोविषाणयोरयुतसिद्धत्वं प्रसज्येत अथापृथक्स्यभाव-त्वे त्वयुतसिद्धत्वे द्रव्यगुणयोरात्मभेदः सम्भवति तस्यतादात्म्येनैव प्रतीयमानत्वात् युतांसद्धयोः सम्बन्धः सं-योगः अयुतसिद्धयोस्तु समवाय इत्ययमभ्युपगमोमृषैव तेषांप्राक्सिद्धस्य कार्य्यात् कारणस्यायुतसिद्धत्वानुपपत्तेः अथान्य-तरापेक्ष एवायमभ्युपगमः स्यात् अयुतसिद्धस्य कार्यस्य कार-णेन सम्बन्धः समवाय इति” एवमपि प्रागसिद्धस्यालब्धात्म-कस्य कार्यस्य कारणेन सम्बन्धोनोपपद्यते द्वयायत्तत्वात्सम्बन्धस्य सिद्धं भूत्वा सम्बध्येत इति चेत् प्राक्कारण-सम्बन्धात् कार्यस्य सिद्धावभ्युपगम्यमानायाम् युतसिद्ध्य-भावात् कार्यकारणयोः संयोगविभागौ विद्यते इतीदमुक्तंदुरुक्तं स्यात् यथा चोत्पन्नमात्रस्वाक्रियस्य कार्य्यद्रव्यस्यविभुभिराकाशादिद्रव्यान्तरैः सम्बन्धः संयोग एवाम्युपम्यतेन समवायः एवं कारणद्रव्येणापि सम्बन्धः संयोग एव-स्यान्न समवायः नापि संयोगस्य समवायस्य वा सम्बन्धस्यसम्बम्बिव्यतिरेकेणास्तित्वे किञ्चित्प्रमाणमस्ति सम्बन्धिशब्दप्रत्ययव्यतिरेकेण संयोगसभवायशब्दप्रत्यदर्शना-त्तयोरस्तित्वमिति चेन्न एकत्वेऽपि स्वरूपबाह्यरूपापेक्ष-याऽनेकशब्दप्रत्ययदर्शनात् यथैकोऽपि सन् देवदत्तोलोकेस्वरूपं सम्बन्धिरूपञ्चापेक्ष्यानेकशब्दप्रत्ययभाग्भवति मनु-ष्योब्राह्मणः श्रोत्रियोवदान्योबालो युवा स्थविरः पिता-पुत्रः पौत्रोभ्राताजामातेति तथा चैकापि सती रेखा-स्थानान्यत्वेन निवेश्यमानैकदशशतसहस्रादिशब्दप्रत्य-यभेदमनुभवति तथा सम्बन्धिनोरेव सम्बन्धिशब्दप्रत्ययव्यतिरे-केण संयोगसमवायशब्दप्रत्ययार्हत्वं व्यतिरिक्तंवस्त्वस्तित्वे-नेत्युपलब्धिलक्षणप्राप्तस्यानुपलब्धेरभावोवस्त्वन्तरस्य नापिसम्बन्धिविषयत्वे सम्बन्धशब्दपत्यययोः सततभावपसङ्गःस्वरूपवाह्यरूपापेक्षयेत्युक्तोत्तरत्वात् तथैवाऽण्वात्ममनसा-मप्रदेशत्वान्न संयोगः सम्भवति प्रदेशवतो द्रव्यस्य प्रदेशवताद्रव्यान्तरेणसंयोगदर्शनात् कल्पिताः प्रदेशाअण्वात्ममनसा-म्भविष्यन्तीतिचेन्न अविद्यमानार्थस्य कल्पनायां सर्व्वार्थसिद्धिप्रसङ्गात् इयानेवाविद्यमानोविरुद्धोऽविरुद्धोवार्थः कल्पनीयो-नातोऽधिकैति नियमहेत्वभावात् कल्पनायाश्च स्वायत्तत्वात्प्रभूतत्वसम्भवाच्च नच वैशेषिकैः कल्पितेभ्यः पड्भ्योऽर्थे-भ्योऽभ्यधिकाः शतं सहस्रं वार्थान कल्पयितव्या इति निवा-रकोहेतुरस्ति तस्माद्यस्मै यस्मै यद्यद्रोचते तत्तत् सिध्येत् ।कश्विद्दयालुः प्राणिनां दुःखबहुलः संसार एवमा भूदिति क-ल्पयेत् अन्योवाव्यसनी मुक्तानामपि पुनरुत्पत्तिं कल्पयेत्कस्तयोर्निवारकः स्यात् किञ्चान्यत् द्वाभ्यामणुभ्यां निरव-यवाभ्यां सावयवस्य द्व्यणुकस्याकाशेनेव संश्लेषानुपपत्तिःनह्याकाशस्य पृथिव्यादीनाञ्च जतुकाष्ठवत् संश्लेषोऽस्ति ।कार्य्यकारणद्रव्ययोराश्रिताश्रयभावोऽन्यथा नोपपद्यते पूत्यव-श्यकल्प्यः समवायैति चेन्न इतरेतराश्रयत्वात् कार्य्यकारणयोर्हि भेदसिद्धावाश्रिताश्रयभावसिद्धिराश्रिताश्रयभावसिद्धौच तयोर्भेदसिद्धिः कुण्डवदरवदितरेतराश्रयता स्यात् ।नहि कार्य्यकारणयोर्भेदः आश्रिताश्रयभावो वा वेदान्तवा-दिभिरभ्युपगम्यते कारणस्यैव संस्थानमात्रं कार्य्यमित्यभ्यु-पगमात् किञ्चान्यत् परमाणूनां परिच्छिन्नत्वात्यावत्योदिशः षडष्टौ दश वा तावद्भिरवयवैः सावयवास्तेस्युः सावयवत्वादनित्याश्चेति नित्यत्वनिरवयवत्वाभ्युपगमो-बाध्येत यांस्त्वं दिग्भेदभेदिनीऽवयवान् कल्पयसितएव भम परमाणव इति चेन्न स्थूलसूक्ष्मतारतम्यक्रमेणापरप्रकारत्वेन नाशोपपत्तेः यथा पृथिवी द्व्यणुकाद्यपेक्षयास्थूलतमा वस्तुभूतापि विनश्यति ततःसूक्ष्मं सूक्ष्मतरञ्च पृथि-व्येकजातीयकं विनश्यति ततोद्व्यणुकं तथा परमाणवोऽपिपृथिव्येकजातीयकत्वाद्विनश्येयुः विनश्यन्तोऽवयवविभागे-नैव विनश्यत्तीतिचेन्नायं दोषः यदोघृतकाठिन्यविलयनवदपिविनाशोपपत्तिमवोचाम यथाहि घृतसुवर्णादीनामविभज्यमानावयवानामप्यग्निसंयोगात् द्रवभावापत्त्या काठिन्य-विनाशोभवति एवं परमाणुनामपि परमकारणभावापत्त्या-विनाशोमविष्यति तथा कार्य्यारम्भोऽपि नावयवयवसंयो-गेनैव केवलेन भवति क्षीरजलादीनामन्तरेणाप्यवयव-संयोगान्तरं दघिहिमादिकार्य्यारम्भदर्शनात्” वृ० उ०भा० सत्कार्यव्यवस्थापनोद्देशे “द्विनिष्ठत्वात् सम्बन्धस्यायुत-सिद्धानामदोष इति चेत् भावाभावयोरयुतसि-द्धत्वानुपपत्तेः भावभूतयोर्हि युतसिद्धताऽयुतसिद्धतावा स्यान्न तु भावाभावयोर्वा तस्मात् सदेव काय प्रागुत्प-त्तेरिति सिद्धम्” “युतसिद्धयोरज्जुघटयोर्मिथःसंयोगेपृथक्सिद्धिरपेक्ष्यते अयुतसिद्धानां परस्परपरिहारेण प्रती-त्यनर्हाणां कार्यकारणादीमां मिथोयोगेऽपृथकसिद्ध्यभावोन दोषमावहतीति शङ्कते अयुतेति” आनन्दगिरिः ।“द्रव्याश्रयेष्वपि गुणेषु” भा० ५, ३८, वाख्यायां मल्लिनाथःद्रव्याश्रयेष्वपि अयुतसिद्धत्वात् द्रव्यसमवेतत्वाच्च द्रव्याधीनसत्ताकेषु सत्स्वपीति